भूमिखंडः - अध्यायः २
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सूत उवाच-
तदादाय महात्माऽसौ निर्जगाम त्वरान्वितः
पितृभक्त्या तपोभिश्च सत्यार्जवबलेन सः ॥१॥
धर्ममाकृष्टवांश्चैव धर्मशर्मा ततस्तदा
समाकृष्टस्तु वै धर्मस्तपसा तस्य धीमतः ॥२॥
धर्मशर्माणमायातं इदं वचनमब्रवीत्
कस्मात्त्वया समाहूतो धर्मशर्मन्समागतः ॥३॥
तन्मे कथय कार्यं त्वं तत्करोमि न संशयः
धर्मशर्मोवाच-
यद्यस्ति गुरुशुश्रूषा यदि निष्ठाऽचलं तपः ॥४॥
तेन सत्येन मे धर्म वेदशर्मा स जीवतु
धर्म उवाच-
दमशौचेन सत्येन तपसा तव सुव्रत ॥५॥
पितृभक्त्या तव भ्राता वेदशर्मा महाभुजः
पुनरेव महात्मासौ जीवनं च लभिष्यति ॥६॥
तपसानेन तुष्टोस्मि पितृभक्त्या महामते
वरं वरय भद्रं ते दुर्लभं धर्मवित्तमैः ॥७॥
एवमाकर्णितं तेन सुवाक्यं धर्मशर्मणा
वैवस्वतं महात्मानं समुवाच महायशाः ॥८॥
देहि मे त्वचलां भक्तिं पितुः पादार्हणे पुनः
धर्मे रतिं तथा मोक्षं सुप्रसन्नो यदा मम ॥९॥
तमुवाच ततो धर्मो मत्प्रसादाद्भविष्यति
एवमुक्ते महावाक्ये वेदशर्मा तदोत्थितः ॥१०॥
प्रसुप्तवन्महाप्राज्ञो धर्मशर्माणमब्रवीत्
क्व सा देवी गता भ्रातः क्व स तातो भवेदिति ॥११॥
समासेन समाख्यातं यथा पित्रा नियोजितः
समाज्ञाय ततो हृष्टो धर्मशर्मा तमब्रवीत् ॥१२॥
ममाद्यैव महाभाग शिरसा जीवितेन च
संमुखी भव वै भ्रातः कोन्यो मे त्वादृशो भुवि ॥१३॥
भ्रातरं चैवमाभाष्य उत्सुकः पितरं प्रति
गमनाय मतिं चक्रे भ्रात्रा च धर्मशर्मणा ॥१४॥
द्वावेतौ तु गतौ तत्र पितरं हृष्टमानसौ
द्वाभ्यां तत्र समास्थाय शिवशर्माणमुत्तमम् ॥१५॥
धर्मशर्मा तदोवाच पितरं दीप्तिसंयुतम्
ममाद्यैव महाभाग तपसा जीवितेन च ॥१६॥
वेदशर्मा समानीतस्तं पुत्रं प्रगृहाण भोः
शिवशर्मा ततो हृष्टो भक्तिं विज्ञाय तस्य च ॥१७॥
न किंचिदब्रवीत्तं तु पुनश्चिंतामुपेयिवान्
पुरतो विनयेनापि वर्तमानं महामतिम् ॥१८॥
विष्णुशर्माणमाभाषीद्वत्स मे वचनं कुरु
इंद्रलोकं व्रजस्वाद्य तस्मादानय चामृतम् ॥१९॥
अनया कान्तया सार्द्धं स्थातुमिच्छामि सांप्रतम्
सागराद्यत्समुत्पन्नममृतं व्याधिनाशनम् ॥२०॥
साधुनेच्छति मामेषा यथैनां तु लभाम्यहम्
तथा कुरुष्व शीघ्रं त्वमन्यथान्यं प्रयास्यति ॥२१॥
वृद्धं ज्ञात्वावमन्येत इयं बाला सुरूपिणी
अद्य देव्यानया सार्द्धं प्रियया भुवनत्रये ॥२२॥
निर्दोषो व्याधिनिर्मुक्तो यथा तात भवाम्यहम्
तथा कुरुष्व मे वत्स मद्भक्तोसि यदा भुवि ॥२३॥
एवमाकर्ण्य तद्वाक्यं पितुस्तस्य महात्मनः
विष्णुशर्मा तदोवाच पितरं दीप्ततेजसम् ॥२४॥
सर्वमेतत्करिष्यामि भवतः सुखमुत्तमम्
एवमाभाष्य धर्मात्मा विष्णुशर्मा महामतिः ॥२५॥
पितरं तं नमस्कृत्य पुनः कृत्वा प्रदक्षिणम्
बलेन महता सोपि तपसा नियमेन च ॥२६॥
अंतरिक्षगतश्चासीद्गच्छमानस्य धीमतः
स महावायुवेगेन ऐंद्रं संप्रतिगच्छति ॥२७॥
इति श्रीपद्मपुराणे भूमिखंडे शिवशर्मचरिते द्वितीयोऽध्यायः ॥२॥
N/A
References : N/A
Last Updated : October 25, 2020
TOP