संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ४२ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ४२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ४२ Translation - भाषांतर द्विचत्वारिंशत्तमोऽध्यायःसख्य ऊचुः-सुदेवा का त्वया प्रोक्ता किमाचारा वदस्व नःत्वया प्रोक्तं महाभागे वद नः सत्यमेव च ॥१॥सुकलोवाच-अयोध्यायां महाराजः स आसीद्धर्मकोविदःमनुपुत्रो महाभागः सर्वधर्मार्थतत्परः ॥२॥इक्ष्वाकुर्नाम सर्वज्ञो देवब्राह्मणपूजकःतस्य भार्या सदा पुण्या पतिव्रतपरायणा ॥३॥तया सार्द्धं यजेद्यज्ञं तीर्थानि विविधानि चवेदराजस्य वीरस्य काशीशस्य महात्मनः ॥४॥सुदेवा नाम वै कन्या सत्याचारपरायणाउपयेमे महाराज इक्ष्वाकुस्तां महीपतिः ॥५॥सुदेवा चारुसर्वांगी सत्यव्रतपरायणातया सार्द्धं स वै राजा जनानां पुण्यनायकः ॥६॥स रेमे नृपशार्दूलो नित्यं च प्रियया तयाएकदा तु महाराजस्तया सार्द्धं वनं ययौ ॥७॥गंगारण्यं समासाद्य मृगयां क्रीडते सदासिंहान्हत्वा वराहांश्च गजांश्च महिषांस्तथा ॥८॥क्रीडमानस्य तस्याग्रे वराहश्च समागतःबहुशूकरयूथेन पुत्रपौत्रैरलंकृतः ॥९॥एका च शूकरी तस्य प्रियापार्श्वे प्रतिष्ठितावराहैः शूकरैस्तस्य तमेव परिवारिता ॥१०॥दृष्ट्वा च राजराजेंद्रं दुर्जयं मृगयारतम्पर्वताधारमाश्रित्य भार्यया सह शूकरः ॥११॥तिष्ठत्येकः सुवीर्येण पुत्रान्पौत्रान्गुरूञ्छिशून्ज्ञात्वा तेषां महाराज मृगाणां कदनं महत् ॥१२॥तानुवाच सुतान्पौत्रान्भार्यां तां च स शूकरःकोशलाधिपतिर्वीरो मनुपुत्रो महाबलः ॥१३॥क्रीडते मृगयां कांते मृगान्संहरते बहून्स मां दृष्ट्वा महाराज एष्यते नात्र संशयः ॥१४॥अन्येषां लुब्धकानां मे नास्ति प्राणभयं ध्रुवम्ममरूपं नृपो दृष्ट्वा क्षमां नैव करिष्यति ॥१५॥हर्षेण महताविष्टो बाणपाणिर्धनुर्द्धरःश्वभिर्युक्तो महातेजा लुब्धकैः परिवारितः ॥१६॥प्रिये करिष्यते घातं ममाप्येवं न संशयः ॥१७॥शूकर्युवाच-यदायदा पश्यसि लुब्धकान्बहून्महावने कांत समायुधान्बहून्एतैस्तु पुत्रैर्ममपौत्रकैः समं दूरं नु भो यासि पलायमानः ॥१८॥त्यक्त्वा सुधैर्यं बलपौरुषं महन्महाभयेनापि विषण्णचेतनःदृष्ट्वा नृपेंद्रं पुरुषोत्तमोत्तमं करोषि किं कांत वदस्वकारणम् ॥१९॥तस्यास्तु वाक्यं सनिशम्य कोल उवाच तां शूकरराजउत्तरम्यदर्थभीतोस्मि सुलुब्धकात्प्रिये दृष्ट्वा गतो दूर निशम्यशूकरान् ॥२०॥सुलुब्धकाः पापकराः शठाः प्रिये कुर्वंति पापं गिरिदुर्गकंदरेसदैव दुष्टा बहुपापचिंतका जाताश्च सर्वे परिपापिनां कुले ॥२१॥तेषां हि हस्तान्मरणाद्बिभेमि मृतोपि यास्यामि पुनश्च पापम्दूरं गिरिं पर्वतकंदरं च व्रजामि कांते अपमृत्युभीतः ॥२२॥अयं हि पुण्यो नरनाथ आगतो विश्वाधिकः केशवरूप भूपःयुद्धं करिष्ये समरे महात्मना सार्द्धं प्रिये पौरुषविक्रमेण ॥२३॥जेष्यामि भूपं यदि स्वेन तेजसा भोक्ष्यामि कीर्तिं त्वतुलां पृथिव्याम्तेनाहतो वीरवरेण संगरे यास्यामि लोकं मधुसूदनस्य ॥२४॥ममांगभूतेन पलेनमेदसा तृप्तिं परां यास्यति भूमिनाथःतृप्ता भविष्यंति सुलोकदेवता अस्मादयंचागतो वज्रपाणिः ॥२५॥अस्यैव हस्तान्मरणं यदाभवेल्लाभश्च मे सुंदरि कीर्तिरुत्तमातस्माद्यशो भूमितले जगत्त्रये व्रजामि लोकं मधुसूदनस्य ॥२६॥नैवं भीतोस्मि क्षुब्धोस्मि गतोऽहं गिरिसानुषुपापाद्भीतो गतः कांतेधर्मं दृष्ट्वा स्थितोह्यहम् ॥२७॥न जाने पातकं पूर्वमन्यजन्मनि चार्जितम्येनाहं शौकरीं योनिं गतोऽहं पापसंचयात् ॥२८॥क्षालयिष्याम्यहं घोरं पूर्वपातकसंचयम्बाणोदकैर्महाघोरैः सुतीक्ष्णैर्निशितैः शतैः ॥२९॥पुत्रान्पौत्रांस्तु वाराहि कन्यां कुटुंबबालकम्गिरिं गच्छ गृहीत्वा तु मम मोहमिमं त्यज ॥३०॥ममस्नेहं परित्यज्य हरिरेष समागतःअस्य हस्तात्प्रयास्यामि तद्विष्णोः परमं पदम् ॥३१॥दैवेनापि ममाद्यैव स्वर्गद्वारमनुत्तमम्उद्घाटितकपाटं तु यास्यामि सुमहादिवम् ॥३२॥सुकलोवाच-तच्छ्रुत्वा वचनं तस्य शूकरस्य महात्मनःउवाच तत्प्रिया सख्यः सीदमानांतरा तदा ॥३३॥शूकर्युवाच-यस्मिन्यूथे भवान्स्वामी पुत्रपौत्रैरलंकृतःमित्रैश्च भ्रातृभिश्चैव अन्यैः स्वजनबांधवैः ॥३४॥त्वयैवालंकृतो यूथो भवता परिशोभतेत्वां विनायं महाभाग कीदृग्यूथो भविष्यति ॥३५॥तवैव स्वबलेनापि गर्जमानाश्च शूकराःविचरंति गिरौ कांत तनया मम बालकाः ॥३६॥कंदान्मूलान्सुभक्षंति निर्भयास्तव तेजसादुर्गेषु वनकुंजेषु ग्रामेषु नगरेषु च ॥३७॥न कुर्वंति भयं तीव्रं सिंहानामिह पर्वतेमनुष्याणां महाबाहो पालितास्तव तेजसा ॥३८॥त्वया त्यक्ता अमी सर्वे बालका मम दारकाःदीनाश्चैवाकुलाश्चैव भविष्यंति विचेतनाः ॥३९॥नित्यमेव सुखं वर्त्म गत्वा पश्यंति बालकाःपतिहीना यथा नारी शोभते नैव शोभना ॥४०॥अलंकृता यथा दिव्यैरलंकारैः सकांचनैःपरिच्छदै रत्नवस्त्रैः पितृमातृसहोदरैः ॥४१॥श्वश्रूश्वशुरकैश्चान्यैः पतिहीना न भाति साचंद्रहीना यथा रात्री पुत्रहीनं यथा कुलम् ॥४२॥दीपहीनं यथा गेहं नैव भाति कदाचनत्वां विनायं तथा यूथो नैव शोभेत मानद ॥४३॥आचारेण विना मर्त्यो ज्ञानहीनो यतिर्यथामंत्रहीनो यथा राजा तथायं नैव शोभते ॥४४॥कैवर्तेन विना नौर्वा संपूर्णा परिसागरेन भात्येवं यथा सार्थः सार्थवाहेन वै विना ॥४५॥सेनाध्यक्षेण च विना यथा सैन्यं न भाति चत्वां विना वै तथा सैन्यं शूकराणां महामते ॥४६॥दीनो भविष्यति तथा वेदहीनो यथा द्विजःमयि भारं कुटुंबस्य विनिवेश्य प्रगच्छसि ॥४७॥मरणं सुलभं ज्ञात्वा का प्रतिज्ञा तवेदृशीत्वां विनाहं न शक्नोमि धर्तुं प्राणान्प्रियेश्वर ॥४८॥त्वयैव सहिता स्वर्गं भूमिं वाथ महामतेनरकं वापि भोक्ष्यामि सत्यंसत्यं वदाम्यहम् ॥४९॥त्वं वा पुत्रांस्तुपौत्रांस्तु गृहीत्वा यूथमुत्तमम्आवां व्रजाव यूथेश दुर्गमेवं सुकंदरम् ॥५०॥जीवितव्यं परित्यज्य रणाय परिगम्यतेतत्र को दृश्यते लाभो मरणे वद सांप्रतम् ॥५१॥वाराह उवाच-वीराणां त्वं न जानासि सुधर्मं शृणु सांप्रतम्युद्धार्थिना हि वीरेण वीरं गत्वा प्रयाचितम् ॥५२॥देहि मे योधनं संख्ये युद्धार्थ्यहं समागतःपरेण याचितं युद्धं न ददाति यदा नरः ॥५३॥कामाल्लोभाद्भयाद्वापि मोहाद्वा शृणु वल्लभेकुंभीपाके तु नरके वसेद्युगसहस्रकम् ॥५४॥क्षत्रियाणां परो धर्मो युद्धं देयं न संशयःतद्युद्धं दीयमानेन रणभूमिगतेन वै ॥५५॥निर्जितं तु परं तत्र यशःकीर्त्तिं प्रभुंजतेस वा हतो युध्यमानः पौरुषेणातिनिर्भयः ॥५६॥वीरलोकमवाप्नोति दिव्यान्भोगान्प्रभुंजतेयावद्वर्षसहस्राणां विंशत्येकां प्रिये शृणु ॥५७॥वीरलोके वसेत्तावद्देवाचारैर्महीयतेमनुपुत्रः समायात अयं वीरो न संशयः ॥५८॥संग्रामं याचमानस्तु युद्धं देयं मया ध्रुवम्युद्धातिथिः समायातो विष्णुरूपः सनातनः ॥५९॥सत्कारो युद्धरूपेण कर्तव्यश्च मया शुभेशूकर्युवाच-यदा युद्धं त्वया देयं राज्ञे चैव महात्मने ॥६०॥ततोऽहं पौरुषं कांत पश्यामि तव कीदृशम्एवमुक्त्वा प्रियान्पुत्रान्समाहूय त्वरान्विता ॥६१॥उवाच पुत्रका यूयं शृणुध्वं वचनं ममयुद्धातिथिः समायातो विष्णुरूपः सनातनः ॥६२॥मया तत्र प्रगंतव्यं यत्रायं हि गमिष्यतियावत्तिष्ठति वै नाथो भवतां प्रतिपालकः ॥६३॥यूयं गच्छत वै दूरं दुर्गं गिरिगुहामुखम्सुखं जीवत मे वत्सा वर्जयित्वा सुलुब्धकान् ॥६४॥मया तत्रैव गंतव्यं यत्रैष हि गमिष्यतिभवतां श्रेष्ठोऽयं भ्राता यूथरक्षां करिष्यति ॥६५॥एते पितृव्यकाः सर्वे भवतां त्राणकारकाःदूरं प्रयात वै सर्वे मां विहाय सुपुत्रकाः ॥६६॥पुत्रा ऊचुः-अयं हि पर्वतश्रेष्ठो बहुमूलफलोदकःभयं तु कस्य वै नास्ति सुखं जीवनमस्ति वै ॥६७॥युवाभ्यां हि अकस्माद्वै इदमुक्तं भयंकरम्तन्नो हि कारणं मातर्वद सत्यमिहैव हि ॥६८॥शूकर्युवाच-अयं राजा महारौद्रः कालरूपः समागतःक्रीडते मृगया लुब्धो मृगान्हत्वा बहून्वने ॥६९॥इक्ष्वाकुर्नाम दुर्धर्षो मनुपुत्रो महाबलःसंहरिष्यति कालोऽयं दूरं यात सुपुत्रकाः ॥७०॥पुत्रा ऊचुः-मातरं पितरं त्यक्त्वा यः प्रयाति स पापधीःमहारौद्रं सुघोरं तु नरकं प्रतिपद्यते ॥७१॥मातुः पुण्यं पयः पीत्वा पुष्टो भवति निर्घृणःमातरं पितरं त्यक्त्वा यः प्रयाति सुदुर्बलः ॥७२॥पूयं नरकमेतीह कृमिदुर्गंधसंकुलम्मातुस्तस्मान्न यास्यामो गुरुं त्यक्त्वा इहैव च ॥७३॥एवं विषादः संजातस्तेषां धर्मार्थसंयुतःव्यूहं कृत्वा स्थिताः सर्वे बलतेजः समाकुलाः ॥७४॥साहसोत्साहसंपन्नाः पश्यंति नृपनंदनम्नदंतः पौरुषैर्युक्ताः क्रीडमाना वने तदा ॥७५॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे द्विचत्वारिंशत्तमोऽध्यायः ॥४२॥ N/A References : N/A Last Updated : October 26, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP