संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ९१

भूमिखंडः - अध्यायः ९१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजलउवाच-
ब्रह्महत्याभिभूतस्तु सहस्राक्षो यदा पुरा
गौतमस्य प्रियासंगादगम्यागमनं महत् ॥१॥
संजातं पातकं तस्य त्यक्तो देवैश्च ब्राह्मणैः
सहस्राक्षस्तपस्तेपे निरालंबो निराश्रयः ॥२॥
तपोंते देवताः सर्वा ऋषयो यक्षकिन्नराः
देवराजस्य पूजार्थमभिषेकं प्रचक्रिरे ॥३॥
देशं मालवकं नीत्वा देवराजं सुतोत्तम
चक्रे स्नानं महाभाग कुंभैरुदकपूरितैः ॥४॥
स्नापितुं प्रथमं नीतो वाराणस्यां स्वयं ततः
प्रयागे तु सहस्राक्ष अर्घतीर्थे ततः पुनः ॥५॥
पुष्करेण महात्मासौ स्नापितः स्वयमेव हि
ब्रह्मादिभिः सुरैः सर्वैर्मुनिवृंदैर्द्विजोत्तम ॥६॥
नागैर्वृक्षैर्नागसर्पैर्गंधर्वैस्तु सकिन्नरैः
स्नापितो देवराजस्तु वेदमंत्रैः सुसंस्कृतः ॥७॥
मुनिभिः सर्वपापघ्नैस्तस्मिन्काले द्विजोत्तम
शुद्धे तस्मिन्महाभागे सहस्राक्षे महात्मनि ॥८॥
ब्रह्महत्या गता तस्य अगम्यागमनं तथा
ब्रह्महत्या ततो नष्टा अगम्यागमनेन च ॥९॥
पापेन तेन घोरेण सार्द्धमिंद्रस्य भूतले
सुप्रसन्नः सहस्राक्षस्तीर्थेभ्यो हि वरं ददौ ॥१०॥
भवंतस्तीर्थराजानो भविष्यथ न संशयः
मत्प्रसादात्पवित्राश्च यस्मादहं विमोक्षितः ॥११॥
सुघोरात्किल्बिषादत्र युष्माभिर्विमलैरहम्
एवं तेभ्यो वरं दत्वा मालवाय वरं ददौ ॥१२॥
यस्मात्त्वया मलं मेऽद्य विधृतं श्रमदायकम्
तस्मात्त्वमन्नपानैश्च धनधान्यैरलंकृतः ॥१३॥
भविष्यसि न संदेहो मत्प्रसादान्न संशयः
सुदुःकालैर्विना त्वं तु भविष्यसि सुपुण्यवान् ॥१४॥
एवं तस्मै वरं दत्वा देवराजः पुरंदरः
क्षेत्राणि सर्वतीर्थानि देशो मालवकस्तथा ॥१५॥
आखंडलेन सार्द्धं ते स्वस्थानं प्रतिजग्मिरे
सूत उवाच-
तदाप्रभृति चत्वारः प्रयागः पुष्करस्तथा ॥१६॥
वाराणसी चार्घतीर्थं प्राप्ता राजत्वमुत्तमम् ॥१७॥
कुंजल उवाच-
अस्ति पंचालदेशेषु विदुरो नाम क्षत्रियः
तेन मोहप्रसंगेन ब्राह्मणो निहतः पुराः ॥१८॥
शिखासूत्रविहीनस्तु तिलकेन विवर्जितः
भिक्षार्थमटतेसोऽपि ब्रह्मघ्नोहं समागतः ॥१९॥
ब्रह्मघ्नाय सुरापाय भिक्षा चान्नं प्रदीयताम्
गृहेष्वेवं समस्तेषु भ्रमते याचते पुरा ॥२०॥
एवं सर्वेषु तीर्थेषु अटित्वैव समागतः
ब्रह्महत्या न तस्यापि प्रयाति द्विजसत्तम ॥२१॥
वृक्षच्छायां समाश्रित्यदह्यमानेन चेतसा
संस्थितो विदुरः पापो दुःखशोकसमन्वितः ॥२२॥
चंद्रशर्मा ततो विप्रो महामोहेन पीडितः
न्यवसन्मागधे देशे गुरुघातकरश्च सः ॥२३॥
स्वजनैर्बंधुवर्गैश्च परित्यक्तो दुरात्मवान्
स हि तत्र समायातो यत्रासौ विदुरः स्थितः ॥२४॥
शिखासूत्रविहीनस्तु विप्रलिंगैर्विवर्जितः
तदासौ पृच्छितस्तेन विदुरेण दुरात्मना ॥२५॥
भवान्को हि समायातोः दुर्भगो दग्धमानसः
विप्रलिंगविहीनस्तु कस्मात्त्वं भ्रमसे महीम् ॥२६॥
विदुरेणोक्तमात्रस्तु चंद्रशर्मा द्विजाधमः
आचष्टे सर्वमेवापि यथापूर्वकृतं स्वकम् ॥२७॥
पातकं च महाघोरं वसता च गुरोर्गृहे
महामोहगतेनापि क्रोधेनाकुलितेन च ॥२८॥
गुरोर्घातः कृतः पूर्वं तेन दग्धोस्मि सांप्रतम्
चंद्रशर्मा च वृत्तांतमुक्त्वा सर्वमपृच्छत ॥२९॥
भवान्को हि सुदुःखात्मा वृक्षच्छायां समाश्रितः
विदुरेण समासेन आत्मपापं निवेदितम् ॥३०॥
अथ कश्चिद्द्विजः प्राप्तस्तृतीयः श्रमकर्षितः
वेदशर्मेति वै नाम बहुपातकसंचयः ॥३१॥
द्वाभ्यामपि सुसंपृष्टः को भवान्दुःखिताकृतिः
कस्माद्भ्रमसि वै पृथ्वीं वद भावं त्वमात्मनः ॥३२॥
वेदशर्मा ततः सर्वमात्मचेष्टितमेव च
कथयामास ताभ्यां वै ह्यगम्यागमनं कृतम् ॥३३॥
धिक्कृतः सर्वलोकैश्च अन्यैः स्वजनबांधवैः
तेन पापेन संलिप्तो भ्रमाम्येवं महीमिमाम् ॥३४॥
वंजुलो नाम वैश्योथ सुरापायी समागतः
स गोघ्नश्च विशेषेण तैश्च पृष्टो यथा पुरा ॥३५॥
तेन आवेदितं सर्वं पातकं यत्पुराकृतम्
तैराकर्णितमन्यैश्च सर्वं तस्यप्रभाषितम् ॥३६॥
एवं चत्वारःपापिष्ठा एकस्थानं समागताः
कः कस्यापि न संपर्कं भोजनाच्छादनेन च ॥३७॥
करोति च महाभाग वार्तां चक्रुः परस्परम्
न विशंत्यासने चैके न स्वपंत्येकसंस्तरे ॥३८॥
एवं दुःखसमाविष्टा नानातीर्थेषु वै गताः
तेषां तु पापका घोरा न नश्यंति च नंदन ॥३९॥
सामर्थ्यं नास्ति तीर्थानां महापातकनाशने
विदुराद्यास्ततस्ते तु गताः कालंजरं गिरिम् ॥४०॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे- च्यवनचरित्रे एकनवतितमोऽध्यायः ॥९१॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP