संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः १०८

भूमिखंडः - अध्यायः १०८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजल उवाच-
ब्रह्मपुत्रो महातेजा वशिष्ठस्तपतां वरः
नहुषं तं समाहूय इदं वचनमब्रवीत् ॥१॥
वनं गच्छ स्वशीघ्रेण वन्यमानय पुष्कलम्
समाकर्ण्य मुनेर्वाक्यं नहुषो वनमाययौ ॥२॥
तत्र किंचित्सुवृत्तांतं शुश्राव नहुषो बलः
अयमेष स धर्मात्मा नहुषो नाम वीर्यवान् ॥३॥
आयोः पुत्रो महाप्राज्ञो बाल्यान्मात्रा वियोजितः
अस्यैवातिवियोगेन आयुभार्या प्ररोदिति ॥४॥
अशोकसुंदरी तेपे तपः परमदुष्करम्
कदा पश्यति सा देवी पुत्रमिंदुमती शुभा ॥५॥
नाहुषं नाम धर्मज्ञं हृतं पूर्वं तु दानवैः
तपस्तेपे निरालंबा शिवस्य तनया वरा ॥६॥
अशोकसुंदरी बाला आयुपुत्रस्य कारणात्
अनेनापि कदा सा हि संगता तु भविष्यति ॥७॥
एवं सांसारिकं वाक्यं दिवि चारणभाषितम्
शुश्राव स हि धर्मात्मा नहुषो विभ्रमान्वितः ॥८॥
स गत्वा वन्यमादाय वशिष्ठस्याश्रमं प्रति
वन्यं निवेद्य धर्मात्मा वशिष्ठाय महात्मने ॥९॥
बद्धांजलिपुटोभूत्वा भक्त्या नमितकंधरः
तमुवाच महाप्राज्ञं वशिष्ठं तपतां वरम् ॥१०॥
भगवञ्छ्रूयतां वाक्यमपूर्वं चारणेरितम्
एष वै नहुषो नाम्ना आयुपुत्रो वियोजितः ॥११॥
मात्रा सह सुदुःखैस्तु इंदुमत्या हि दानवैः
शिवस्य तनया बाला तपस्तेपे सुदुश्चरम् ॥१२॥
निमित्तमस्य धीरस्य नहुषस्येति वै गुरो
एवमाभाषितं तैस्तु तत्सर्वं हि मया श्रुतम् ॥१३॥
कोसावायुः स धर्मात्मा कासा त्विंदुमती शुभा
अशोकसुंदरी कासा नहुषेति क उच्यते ॥१४॥
एतन्मे संशयं जातं तद्भवांश्छेत्तुमर्हति
अन्यः कोपि महाप्राज्ञः कुत्रासौ नहुषेति च ॥१५॥
तत्सर्वं तात मे ब्रूहि कारणांतरमेव हि
वशिष्ठ उवाच-
आयु राजा स धर्मात्मा सप्तद्वीपाधिपो बली ॥१६॥
भार्या इंदुमती तस्य सत्यरूपा यशस्विनी
तस्यामुत्पादितः पुत्रो भवान्वै गुणमंदिरम् ॥१७॥
आयुना राजराजेन सोमवंशस्य भूषणम्
हरस्य कन्या सुश्रोणी गुणरूपैरलंकृता ॥१८॥
अशोकसुंदरी नाम्ना सुभगा चारुहासिनी
तस्य हेतोस्तपस्तेपे निरालंबा तपोवने ॥१९॥
तस्या भर्ता भवान्सृष्टो धात्रा योगेन निश्चितः
गंगायास्तीरमाश्रित्य ध्यानयोग समाश्रिता ॥२०॥
हुंडश्च दानवेंद्रो यो दृष्ट्वा चैकाकिनीं सतीम्
तपसा प्रज्वलंतीं च सुभगां कमलेक्षणाम् ॥२१॥
रूपौदार्यगुणोपेतां कामबाणैः प्रपीडितः
तां बभाषेऽन्तिकं गत्वा मम भार्या भवेति च ॥२२॥
एवं सा तद्वचः श्रुत्वा तमुवाच तपस्विनी
मा हुंड साहसं कार्षीर्मा जल्पस्व पुनः पुनः ॥२३॥
अप्राप्याहं त्वया वीर परभार्या विशेषतः
दैवेन मे पुरा सृष्ट आयुपुत्रो महाबलः ॥२४॥
नहुषो नाम मेधावी भविष्यति न संशयः
देवदत्तो महातेजा अन्यथा त्वं करिष्यसि ॥२५॥
ततः शाप्रं पदास्यामि येन भस्मी भविष्यसि
एवमाकर्ण्य तद्वाक्यं कामबाणैः प्रपीडितः ॥२६॥
व्याजेनापि हृता तेन प्रणीता निजमंदिरे
ज्ञात्वा तया महाभाग शप्तोऽसौ दानवाधमः ॥२७॥
नहुषस्यैव हस्तेन तव मृत्युर्भविष्यति
अजाते त्वयि संजाता वदसे त्वं यथैव तत् ॥२८॥
स त्वमायुसुतो वीर हृतो हुंडेन पापिना
सूदेन रक्षितो दास्या प्रेषितो मम चाश्रमम् ॥२९॥
भवंतं वनमध्ये च दृष्ट्वा चारणकिन्नरैः
यत्तु वै श्रावितं वत्स मया ते कथितं पुनः ॥३०॥
जहि तं पापकर्तारं हुंडाख्यं दानवाधमम्
नेत्राभ्यां हि प्रमुंचंतीमश्रूणि परिमार्जय ॥३१॥
इतो गत्वा प्रपश्य त्वं गंगातीरं महाबलम्
निपात्य दानवेंद्रं तं कारागृहात्समानय ॥३२॥
अशोकसुंदरी याहि तस्या भर्ता भवस्व हि
एतत्ते सर्वमाख्यातं प्रश्नस्यास्य हि कारणम् ॥३३॥
आभाष्य नहुषं विप्रो विरराम महामतिः ॥३४॥
आकर्ण्य सर्वं मुनिना प्रयुक्तमाश्चर्यभूतं स हि चिंत्यमानः
तस्यांतमेकः परिकर्तुकाम आयोः सुतः कोपमथो चकार ॥३५॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्यानेऽष्टोत्तरशततमोऽध्यायः ॥१०८॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP