भूमिखंडः - अध्यायः २६
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सूत उवाच-
तं पुत्रं निहतं श्रुत्वा सा दितिर्दुःखपीडिता
पुत्रशोकेन तेनैव संदग्धा द्विजसत्तमाः ॥१॥
पुनरूचे महात्मानं कश्यपं मुनिपुंगवम्
इंद्रस्यापि सुदुष्टस्य वधार्थं द्विजसत्तम ॥२॥
ब्रह्मतेजोमयं तीव्रं दुःसहं सर्वदैवतैः
पुत्रैकं दीयतां कांत सुप्रियाहं यदा विभो ॥३॥
कश्यप उवाच-
निहतौ बलवृत्रौ च मम पुत्रौ महाबलौ
अघमाश्रित्य देवेन इंद्रेणापि दुरात्मना ॥४॥
तस्यैव च वधार्थाय पुत्रमेकं ददाम्यहम्
वर्षाणां तु शतैकं त्वं शुचिर्भव यशस्विनि ॥५॥
एवमुक्त्वा स योगींद्रो हस्तं शिरसि वै तदा
दत्त्वादित्या सहैवासौ गतो मेरुं तपोवनम् ॥६॥
तपस्तताप सा देवी तपोवननिवासिनी
शुचिष्मती सदा भूत्वा पुत्रार्था द्विजसत्तम ॥७॥
ततो देवः सहस्राक्षो ज्ञात्वा उद्यममेव च
दित्याश्चैव महाभाग अंतरप्रेक्षकोऽभवत् ॥८॥
पंचविंशाब्दिको भूत्वा देवराड्दैवतोपमः
ब्राह्मणस्य च रूपेण तस्याश्चांतिकमागतः ॥९॥
स तां प्रणम्य धर्मात्मा मातरं तपसान्विताम्
तयोक्तस्तु सहस्राक्षो भवान्को द्विजसत्तम ॥१०॥
तामुवाच सहस्राक्षः पुत्रोऽहं तव शोभने
ब्राह्मणो वेदविद्वांश्च धर्मं जानामि भामिनि ॥११॥
तपसस्तव साहाय्यं करिष्ये नात्र संशयः
शुश्रूषति स तां देवीं मातरं तपसान्विताम् ॥१२॥
तमिंद्रं सा न जानाति आगतं दुष्टकारिणम्
धर्मपुत्रं विजानाति शुश्रूषंतं दिने दिने ॥१३॥
अंगं संवाहयेद्देव्याः पादौ प्रक्षालयेत्ततः
पत्रं मूलं फलं तत्र वल्कलाजिनमेव च ॥१४॥
ददात्येवं स धर्मात्मा तस्यै दित्यै सदैव हि
भक्त्या संतोषिता तस्य संतुष्टा तमभाषत ॥१५॥
पुत्रे जाते महापुण्ये इंद्रे च निहते सति
कुरु राज्यं महाभाग पुत्रेण मम दैवकम् ॥१६॥
एवमस्तु महाभागे ते प्रसादाद्भविष्यति
तस्याश्चैवांतरं प्रेप्सुरभवत्पाकशासनः ॥१७॥
ऊने वर्षशते चास्या ददर्शांतरमच्युतः
अकृत्वा पादयोः शौचं दितिः शयनमाविशत् ॥१८॥
शय्यांते सा शिरः कृत्वा मुक्तकेशातिविह्वला
निद्रामाहारयामास तस्याः कुक्षिं प्रविश्य ह ॥१९॥
वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृंतत
वज्रेण तीक्ष्णधारेण रुरोद उदरे स्थितः ॥२०॥
स गर्भस्तत्र विप्रेंद्रा इंद्रहस्तगतेन वै
रोदमानं महागर्भं तमुवाच पुनः पुनः ॥२१॥
शतक्रतुर्महातेजा मा रोदीरित्यभाषत
सप्तधा कृतवाञ्छक्रस्तं गर्भं दितिजं पुनः ॥२२॥
एकैकं सप्तधा च्छित्त्वा रुदमानं स देवराट्
एवं वै मरुतो जातास्ते तु देवा महौजसः ॥२३॥
यथा इंद्रेण ते प्रोक्ता बभूवुर्नामभिस्ततः
अतिवीर्य महाकायास्तीव्र तेजः पराक्रमाः ॥२४॥
एकोना वै बभूवुस्ते पंचाशन्मरुतस्ततः
मरुतो नाम ते ख्याता इंद्रमेव समाश्रिताः ॥२५॥
भूतानामेव सर्वेषां रोचयंति गणं महत्
निकायेषु निकायेषु हरिः प्रादात्प्रजापतिः ॥२६॥
क्रमशस्तानि राज्यानि पृथुपूर्वाणि तानि वै
स देवः पुरुषः कृष्णः सर्वव्यापी जगद्गुरुः ॥२७॥
तपोजिष्णुर्महातेजाः सर्व एकः प्रजापतिः
पर्जन्यः पावकः पुण्यः सर्वात्मा सर्व एव हि ॥२८॥
तस्य सर्वमिदं पुण्यं जगत्स्थावरजंगमम्
भूतसर्गमिमं सम्यग्जानतो द्विजसत्तम ॥२९॥
नावृत्तिभयमस्तीह परलोकभयं कुतः
इमां सृष्टिं महापुण्यां सर्वपापहरां शुभाम् ॥३०॥
यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते
स हि धन्यश्च पुण्यश्च स हि सत्यसमन्वितः ॥३१॥
यः शृणोति इमां सृष्टिं स याति परमां गतिम्
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥३२॥
इति श्रीपद्मपुराणे भूमिखंडे मरुदुत्पत्तिर्नाम षड्विंशोऽध्यायः ॥२६॥
N/A
References : N/A
Last Updated : October 26, 2020
TOP