भूमिखंडः - अध्यायः ३३
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
ऋषय ऊचुः-
शप्ता गंधर्वपुत्रेण सुशंखेन महात्मना
तस्य शापात्कथं जाता किं किं कर्म कृतं तया ॥१॥
सा लेभे कीदृशं पुत्रं तस्य शापाद्द्विजोत्तम
सुनीथायाश्च चरितं त्वं नो विस्तरतो वद ॥२॥
सूत उवाच-
सुशंखेनापि तेनैव सा शप्ता तनुमध्यमा
पितुः स्थानं गता सा तु सुनीथा दुःखपीडिता ॥३॥
पितरं चात्मनश्चैव चरितं च प्रकाशितम्
श्रुतवान्सोपि धर्मात्मा मृत्युः सत्यवतां वर ॥४॥
तामुवाच सुनीथां तु सुतां शप्तां महात्मना
भवत्या दुष्कृतं पापं धर्म तेजः प्रणाशनम् ॥५॥
कस्मात्कृतं महाभागे सुशांतस्य हि ताडनम्
विरुद्धं सर्वलोकस्य भवत्या परिकल्पितम् ॥६॥
कामक्रोधविहीनं तं सुशांतं धर्मवत्सलम्
तपोमार्गे विलीनं च परब्रह्मणि संस्थितम् ॥७॥
तमेवघातयेद्यो वै तस्य पापं शृणुष्व हि
पापात्मा जायते पुत्रः किल्बिषं लभते बहु ॥८॥
ताडंतं ताडयेद्यो वै क्रोशंतं क्रोशयेत्पुनः
तस्य पापं स वै भुंक्ते ताडितस्य न संशयः ॥९॥
स वै शांतः स जितात्मा ताडयंतं न ताडयेत्
निर्दोषं प्रति येनापि ताडनं च कृतं सुते ॥१०॥
पश्चान्मोहेन पापेन निर्दोषेऽपि च ताडयेत्
निर्दोषं प्रति येनापि हृद्रोगः क्रियते वृथा ॥११॥
निर्दोषं ताडयेत्पश्चान्मोहात्पापेन केनचित्
स पापी पापमाप्नोति निर्दोषस्य शरीरजम् ॥१२॥
निर्दोषो घातयेत्तं वै ताडंतं पापचेतसम्
पुनरुत्थाय वेगेन साहसात्पापचेतनम् ॥१३॥
पापकर्तुश्च यत्पापं निर्दोषं प्रति गच्छति
ताडनं नैव तस्माद्वै कार्यं दोषवतोऽपि च ॥१४॥
दुष्कृतं च महत्पुत्रि त्वयैव परिपालितम्
शप्ता तेनापि याद्यैव तस्मात्पुण्यं समाचर ॥१५॥
सतां संगं समासाद्य सदैव परिवर्तय
योगध्यानेन ज्ञानेन परिवर्तय नंदिनि ॥१६॥
सतां संगो महापुण्यो बहुश्रेयो विधायकः
बाले पश्य सुदृष्टांतं सतां संगस्य यद्गुणम् ॥१७॥
अपां संस्पर्शनात्पानात्स्नानात्तत्र महाधियः
मुनयः सिद्धिमायांति बाह्याभ्यंतरक्षालिताः ॥१८॥
शुचिष्मंतो भवंत्येते लोकाः सर्वे चराचराः
आपः शांताः सुशीताश्च मृदुगात्राः प्रियंकराः ॥१९॥
निर्मला रसवत्यश्च पुण्यवीर्या मलापहाः
तथा संतस्त्वया ज्ञेया निषेव्याश्च प्रयत्नतः ॥२०॥
यथा वह्निप्रसंगाच्च मलं त्यजति कांचनम्
तथा सतां हि संसर्गात्पापं त्यजति मानवः ॥२१॥
सत्यवह्निः प्रदीप्तश्च प्रज्वलेत्पुण्यतेजसा
सत्येन दीप्ततेजास्तु ज्ञानेनापि सुनिर्मलः ॥२२॥
अत्युष्णो ध्यानभावेन अस्पृश्यः पापजैर्नरैः
सत्यवह्नेः प्रसंगाच्च पापं सर्वं विनश्यति ॥२३॥
तस्मात्सत्यस्य संसर्गः कर्तव्यः सर्वथा त्वया
पापभारं परित्यज्य पुण्यमेवं समाश्रय ॥२४॥
सूत उवाच-
एवं पित्रा सुनीथा सा दुःखिता प्रतिबोधिता
नमस्कृत्य पितुः पादौ गता सा निर्जनं वनम् ॥२५॥
कामं क्रोधं परित्यज्य बाल्यभावं तपस्विनी
मोहद्रोहौ च मायां च त्यक्त्वा एकांतमास्थिता ॥२६॥
तस्याः सख्यः समाजग्मुः क्रीडार्थं लीलयान्विताः
तां ददृशुर्विशालाक्ष्यः सुनीथां दुःखभागिनीम् ॥२७॥
ध्यायंतीं चिंतयानां तामूचुश्चिंतापरायणाः
कस्माच्चिंतसि भद्रे त्वमनया चिंतयान्विता ॥२८॥
तन्नो वै कारणं ब्रूहि चिंतादुःखप्रदायिनी
एकैव सार्थकी चिंता धर्मस्यार्थे विचिंत्यते ॥२९॥
द्वितीया सार्थका चिंता योगिनां धर्मनंदिनी
अन्या निरर्थिका चिंता तां नैव परिकल्पयेत् ॥३०॥
कायनाशकरी चिंता बल तेजः प्रणाशिनी
नाशयेत्सर्वसौख्यं तु रूपहानिं निदर्शयेत् ॥३१॥
तृष्णां मोहं तथा लोभमेतांश्चिंता हि प्रापयेत्
पापमुत्पादयेच्चिंता चिंतिता च दिने दिने ॥३२॥
चिंताव्याधिप्रकाशाय नरकाय प्रकल्पयेत्
तस्माच्चिंतां परित्यज्य चानुवर्तस्व शोभने ॥३३॥
अर्जितं कर्मणा पूर्वं स्वयमेव नरेण तु
तदेव भुंक्तेऽसौ जंतुर्ज्ञानवान्न विचिंतयेत् ॥३४॥
तस्माच्चिंतां परित्यज्य सुखदुःखादिकं वद
तासां तद्वचनं श्रुत्वा सुनीथा वाक्यमब्रवीत् ॥३५॥
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वेनोपाख्याने सुनीथाचरितं नाम त्रयस्त्रिंशोऽध्यायः ॥३३॥
N/A
References : N/A
Last Updated : October 26, 2020
TOP