भूमिखंडः - अध्यायः ११५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
कुंजल उवाच-
ततस्त्वसौ संयति राजमानः समुद्यतश्चापधरो महात्मा
यथैव कालः कुपितः सलोकान्संहर्तुमैच्छत्तु तथा सुदानवान् ॥१॥
महास्त्रजालै रवितेजतुल्यैः सुदीप्तिमद्भिर्निजघान दानवान्
वायुर्यथोन्मूलयतीह पादपांस्तथैव राजा निजघान दानवान् ॥२॥
वायुर्यथा मेघचयं च दिव्यं संचालयेत्स्वेन बलेन तेजसा
तथा स राजा असुरान्मदोत्कटाननाशयद्बाणवरैः सुतीक्ष्णैः ॥३॥
न शेकुर्दानवाः सर्वे बाणवर्षं महात्मनः
मृताः केचिद्द्रुताः केचित्केचिन्नष्टा महाहवात् ॥४॥
सूत उवाच-
महातेजं महाप्राज्ञं महादानवनाशनम्
चुक्रोध हुंडो दुष्टात्मा दृष्ट्वा तं नृपनंदनम् ॥५॥
स्थितो गत्वेदमाभाष्य तिष्ठतिष्ठेति चाहवे
त्वामद्य च नयिष्यामि आयुपुत्र यमांतिकम् ॥६॥
नहुष उवाच-
स्थितोस्मि समरे पश्य त्वामहं हंतुमागतः
अहं त्वां तु हनिष्यामि दानवं पापचेतनम् ॥७॥
इत्युक्त्वा धनुरादाय बाणानग्निशिखोपमान्
छत्रेण ध्रियमाणेन शुशुभे सोऽपि संयुगे ॥८॥
इंद्रस्य सारथिं दिव्यं मातलिं वाक्यमब्रवीत्
वाहयतु रथं मेऽद्य हुंडस्य सम्मुखं भवान् ॥९॥
इत्युक्तस्तेन वीरेण मातलिर्लघुविक्रमः
तुरगांश्चोदयामास महावातजवोपमान् ॥१०॥
उत्पेतुश्च ततो वाहा हंसा इव यथांबरे
छत्रेण इंदुवर्णेन रथेनापि पताकिना ॥११॥
नभस्तलं तु संप्राप्य यथा सूर्यो विराजते
आयुपुत्रस्तथा संख्ये तेजसा विक्रमेण तु ॥१२॥
अथ हुंडो रथस्थोऽपि राजमानः स्वतेजसा
सर्वायुधैश्च संयुक्तस्तद्वद्वीरव्रते स्थितः ॥१३॥
उभयोर्वीरयोर्युद्धं देवविस्मयकारकम्
तदा आसीन्महाप्राज्ञ दारुणं भीतिदायकम् ॥१४॥
सुबाणैर्निशितैस्तीक्ष्णैः कंकपत्रैः शिलीमुखैः
हुंडेन ताडितो राजा सुबाह्वोरंतरे तदा ॥१५॥
सुभाले पंचभिर्बाणैर्विद्धः क्रुद्धोऽभवत्तदा
सविद्धस्तु तदा बाणैरधिकं शुशुभे नृपः ॥१६॥
सारुणः करमालाभिरुदयंश्च दिवाकरः
रुधिरेण तु दिग्धांगो हेमबाणैस्तनुस्थितैः ॥१७॥
सूर्यवच्छोभते राजा पूर्वकालस्य चांबरे
दृष्ट्वा तु पौरुषं तस्य दानवं वाक्यमब्रवीत् ॥१८॥
तिष्ठतिष्ठ क्षणं दैत्य पश्य मे लाघवं पुनः
इत्युक्त्वा तु रणे दैत्यं जघान दशभिः शरैः ॥१९॥
मुखे भाले हतस्तेन मूर्च्छितो निपपात ह
पश्यामानैः सुरैर्दिव्यै रथोपरि महाबलः ॥२०॥
देवैश्च चारणैः सिद्धैः कृतः शब्दः सुहर्षजः
जयजयेति राजेंद्र शंखान्दध्मुः पुनः पुनः ॥२१॥
सकोलाहलशब्दस्तु तुमलो देवतेरितः
कर्णरंध्रमाविवेश हुंडस्य मूर्छितस्य च ॥२२॥
श्रुत्वा सधनुरादाय बाणमाशीविषोपमम्
स्थीयतां स्थीयतां युद्धे न मृतोस्मि त्वया हतः ॥२३॥
इत्युक्त्वा पुनरुत्थाय लाघवेन समन्वितः
एकविंशतिभिर्बाणैर्नहुषं चाहनत्पुनः ॥२४॥
एकेन मुष्टिमध्ये तु चतुर्भिर्बाहुमध्यतः
चतुर्भिश्च महाश्वांश्च छत्रमेकेन तेन वै ॥२५॥
पंचभिर्मातलिं विद्ध्वा रथनीडं तु सप्तभिः
ध्वजदंडं त्रिभिस्तीक्ष्णैर्दानवः शिखिपत्रिभिः ॥२६॥
आदानं तु निदानं तु लक्षमोक्षं दुरात्मनः
लाघवं तस्य संदृष्ट्वा देवता विस्मयंगताः ॥२७॥
तस्य पौरुषमापश्य स राजा दानवोत्तमम्
शूरोसि कृतविद्योसि धीरोसि रणपंडितः ॥२८॥
इत्युक्वा दानवं तं तु धनुर्विस्फार्य भूपतिः
मार्गणैर्दशभिस्तं तु विव्याध लघुविक्रमः ॥२९॥
त्रिभिर्ध्वजं प्रचिच्छेद स पपात धरातले
तुरगान्पातयामास चतुर्भिस्तस्य सायकैः ॥३०॥
एकेन छत्रं तस्यापि चकर्त लघुविक्रमः
दशभिः सारथिस्तस्य प्रेषितो यममंदिरम् ॥३१॥
दंशनं दशभिश्छित्त्वा शरैश्च विदलीकृतः
सर्वांगेषु च त्रिंशद्भिर्विव्याध दनुजेश्वरम् ॥३२॥
हताश्वो विरथो जातो बाणपाणिर्धनुर्धरः
अभ्यधावत्स वेगेन वर्षयन्निशितैः शरैः ॥३३॥
खड्गचर्मधरो दैत्यो राजानं तमधावत
धावमानस्य हुंडस्य खड्गं चिच्छेद भूपतिः ॥३४॥
क्षुरप्रैर्निशितैर्बाणैश्चर्म चिच्छेद भूपतिः
अथ हुंडः स दुष्टात्मा समालोक्य समंततः ॥३५॥
जग्राह मुद्गरं तूर्णं मुमोच लघुविक्रमः
वज्रवेगं समायांतं ददृशे नृपतिस्तदा ॥३६॥
मुद्गरं स्वनवंतं चापातयदंबरात्ततः
दशभिर्निशितैर्बाणैः क्षुरप्रैश्च स्वविक्रमात् ॥३७॥
मुद्गरं पतितं दृष्ट्वा दशखण्डमयं भुवि
गदामुद्यम्य वेगेन राजानमभ्यधावत ॥३८॥
खड्गेन तीक्ष्णधारेण तस्य बाहुं विचिच्छिदे
सगदं पतितं भूमौ सांगदं कटकान्वितम् ॥३९॥
महारावं ततः कृत्वा वज्रस्फोटसमं तदा
रुधिरेणापि दिग्धांगो धावमानो महाहवे ॥४०॥
क्रोधेन महताविष्टो ग्रस्तुमिच्छति भूपतिम्
दुर्निवार्यः समायातः पार्श्वं तस्य च भूपतेः ॥४१॥
नहुषेण महाशक्त्या ताडितो हृदि दानवः
पतितः सहसा भूमौ वज्राहत इवाचलः ॥४२॥
तस्मिन्दैत्ये गते भूमावितरे दानवा गताः
विविशुः कति दुर्गेषु कति पातालमाश्रिताः ॥४३॥
देवाः प्रहर्षमाजग्मुर्गंधर्वाः सिद्धचारणाः
हते तस्मिन्महापापे नहुषेण महात्मना ॥४४॥
तस्मिन्हते दैत्यवरे महाहवे देवाश्च सर्वे प्रमुदं प्रलेभिरे
तां देवरूपां तपसा प्रवर्द्धितां स आयुपुत्रः प्रतिलभ्य हर्षितः ॥४५॥
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने पंचदशाधिकशततमोऽध्यायः ॥११५॥
N/A
References : N/A
Last Updated : October 29, 2020
TOP