संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ८२ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ८२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ८२ Translation - भाषांतर सुकर्मोवाच-एवं चिंतयते यावद्राजा परमधार्मिकःतावत्प्रोवाच सा देवी रतिपुत्री वरानना ॥१॥किमु चिंतयसे राजंस्त्वमिहैव महामतेप्रायेणापि स्त्रियः सर्वाश्चपलाः स्युर्न संशयः ॥२॥नाहं चापल्यभावेन त्वामेवं प्रविचालयेनाहं हि कारयाम्यद्य भवत्पार्श्वं नृपोत्तम ॥३॥अन्यस्त्रियो यथा लोके चपलत्वाद्वदंति चअकार्यं राजराजेंद्र लोभान्मोहाच्च लंपटाः ॥४॥लोकानां दर्शनायैव जाता श्रद्धा ममोरसिदेवानां दर्शनं पुण्यं दुर्लभं हि सुमानुषैः ॥५॥तेषां च दर्शनं राजन्कारयामि वदस्व मेदोषं पापकरं यत्तु मत्संगादिह चेद्भवेत् ॥६॥एवं चिंतयसे दुःखं यथान्यः प्राकृतो जनःमहाभयाद्यथाभीतो मोहगर्ते गतो यथा ॥७॥त्यज चिंतां महाराज न गंतव्यं त्वया दिवियेन ते जायते दुःखं तन्न कार्यं मया कदा ॥८॥एवमुक्तस्तथा राजा तामुवाच वराननाम्चिंतितं यन्मया देवि तच्छृणुष्व हि सांप्रतम् ॥९॥मानभंगो मया दृष्टो नैव स्वस्य मनःप्रियेमयि स्वर्गं गते कांते प्रजा दीना भविष्यति ॥१०॥त्रासयिष्यति दुष्टात्मा यमस्तु व्याधिभिः प्रजाःत्वया सार्धं प्रयास्यामि स्वर्गलोकं वरानने ॥११॥एवमाभाष्य तां राजा समाहूय सुतोत्तमम्पूरुं तं सर्वधर्मज्ञं जरायुक्तं महामतिम् ॥१२॥एह्येहि सर्वधर्मज्ञ धर्मं जानासि निश्चितम्ममाज्ञया हि धर्मात्मन्धर्मः संपालितस्त्वया ॥१३॥जरा मे दीयतां तात तारुण्यं गृह्यतां पुनःराज्यं कुरु ममेदं त्वं सकोशबलवाहनम् ॥१४॥आसमुद्रां प्रभुंक्ष्व त्वं रत्नपूर्णां वसुंधराम्मया दत्तां महाभाग सग्रामवनपत्तनाम् ॥१५॥प्रजानां पालनं पुण्यं कर्तव्यं च सदानघदुष्टानां शासनं नित्यं साधूनां परिपालनम् ॥१६॥कर्तव्यं च त्वया वत्स धर्मशास्त्रप्रमाणतःब्राह्मणानां महाभाग विधिनापि स्वकर्मणा ॥१७॥भक्त्या च पालनं कार्यं यस्मात्पूज्या जगत्त्रयेपंचमे सप्तमे घस्रे कोशं पश्य विपश्चितः ॥१८॥बलं च नित्यं संपूज्यं प्रसादधनभोजनैःचारचक्षुर्भवस्व त्वं नित्यं दानपरो भव ॥१९॥भव स्वनियतो मंत्रे सदा गोप्यः सुपंडितैःनियतात्मा भव स्वत्वं मा गच्छ मृगयां सुत ॥२०॥विश्वासः कस्य नो कार्यः स्त्रीषु कोशे महाबलेपात्राणां त्वं तु सर्वेषां कलानां कुरु संग्रहम् ॥२१॥यज यज्ञैर्हृषीकेशं पुण्यात्मा भव सर्वदाप्रजानां कंटकान्सर्वान्मर्दयस्व दिने दिने ॥२२॥प्रजानां वांछितं सर्वमर्पयस्व दिने दिनेप्रजासौख्यं प्रकर्तव्यं प्रजाः पोषय पुत्रक ॥२३॥स्वको वंशः प्रकर्तव्यः परदारेषु मा कृथाःमतिं दुष्टां परस्वेषु पूर्वानन्वेहि सर्वदा ॥२४॥वेदानां हि सदा चिंता शास्त्राणां हि च सर्वदाकुरुष्वैवं सदा वत्स शस्त्राभ्यासरतो भव ॥२५॥संतुष्टः सर्वदा वत्स स्वशय्या निरतो भवगजस्य वाजिनोभ्यासं स्यंदनस्य च सर्वदा ॥२६॥एवमादिश्य तं पुत्रमाशीर्भिरभिनंद्य चस्वहस्तेन च संस्थाप्य करे दत्तं स्वमायुधम् ॥२७॥स्वां जरां तु समागृह्य दत्त्वा तारुण्यमस्य चगंतुकामस्ततः स्वर्गं ययातिः पृथिवीपतिः ॥२८॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे द्व्यशीतितमोऽध्यायः ॥८२॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP