भूमिखंडः - अध्यायः ४५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सुकलोवाच-
अथ ते लुब्धकाः सर्वे शूकरीं प्रति जग्मिरे
शूराश्च दारुणाः प्राप्ताः पाशहस्ताश्च भीषणाः ॥१॥
चतुरश्च ततो डिंभान्कृत्वा स्थित्वा च शूकरी
कुटुंबेन समं कांतं हतं दृष्ट्वा महाहवे ॥२॥
भर्तुर्मे चिंतितं प्राप्तमृषिदेवैश्च पूजितः
गतः स्वर्गं महात्मासौ वीर्येणानेन कर्मणा ॥३॥
अनेनापि पथा यास्ये स्वर्गं भर्त्ता स तिष्ठति
तया सुनिश्चितं कृत्वा पुत्रान्प्रतिविचिंतितम् ॥४॥
यदा जीवंति मे बालाश्चत्वारो वंशधारकाः
भवत्यस्य सुवीरस्य कोलस्यापि महात्मनः ॥५॥
केनोपायेन पुत्रान्वै रक्षायुक्तान्करोम्यहम्
इति चिंतापरा भूत्वा दृष्ट्वा पर्वतसंकटम् ॥६॥
तत्र मार्गं सुविस्तीर्णं निष्कासाय प्रयास्यते
तया सुनिश्चितं कृत्वा पुत्रान्प्रति विचिंतितम् ॥७॥
तानुवाच महाराज पुत्रान्प्रति सुमोहितान्
यावत्तिष्ठाम्यहं पुत्रास्तावद्गच्छत शीघ्रगाः ॥८॥
तेषां मध्ये सुतो ज्येष्ठः कथं यास्यामि मातरम्
संत्यज्य जीवलोभाच्च धिङ्मे मातः सुजीवितम् ॥९॥
पितृवैरं करिष्यामि साधयिष्ये रणे रिपून्
गृहीत्वा त्वं कनीयसोभ्रातॄन्स्त्रीन्दुर्गकंदरम् ॥१०॥
पितरं मातरं त्यक्त्वा यो याति हि स पापधीः
नरकं च प्रयात्येव कृमिकोटिसमाकुलम् ॥११॥
तमुवाच सुदुःखार्ता त्वां त्यक्त्वाहं कथं सुत
संयास्यामि महापापा त्रयो गच्छंतु मे सुताः ॥१२॥
कनीयसस्त्रयस्त्वेव गता गिरिवनांतरम्
तौ जग्मतू रणभुवं तेषामेव सुपश्यताम् ॥१३॥
तेजसा सुबलेनापि गर्जंतौ च पुनःपुनः
अथ ते लुब्धकाः शूराः संप्राप्ता वातरंहसः ॥१४॥
पथा तेनापि दुर्गेण त्रयस्ते प्रेषिता नृप
तिष्ठतः स्म पथं रुद्ध्वा द्वावेतौ जननीसुतौ ॥१५॥
लुब्धकाश्च ततः प्राप्ताः खड्गबाणधनुर्धराः
प्रजघ्नुस्तोमरैस्तीक्ष्णैश्चक्रैश्च मुशलैस्ततः ॥१६॥
मातरं पृष्ठतः कृत्वा तनयो युध्यते स तैः
दंष्ट्रया निहताः केचित्केचित्तुंडेन घातिताः ॥१७॥
संजघान खुराग्रैश्च शूराश्च पतिता रणे
युयुधे शूकरः संख्ये दृष्टो राज्ञा महात्मना ॥१८॥
पितुः सकाशाच्छूरोयमिति ज्ञात्वा ससम्मुखः
बाणपाणिर्महातेजा मनुसूनुः प्रतापवान् ॥१९॥
निशितेनापि बाणेन अर्द्धचंद्रानुकारिणा
राज्ञा हतः पपातोर्व्यां विद्धोरस्को महात्मना ॥२०॥
ममार सहसा भूमौ पपात स हि शूकरः
पुत्रमोहं परं प्राप्ता तस्योपरि गता स्वयम् ॥२१॥
तया च निहताः शूरास्तुंडघातैर्महीतले
निपेतुर्लुब्धकाः शूराः कतिनष्टा मृता नृप ॥२२॥
द्रावयंती महत्सैन्यं दंष्ट्रया सूकरी ततः
यथा कृत्या समुद्भूता महाभयविधायिका ॥२३॥
तमुवाच ततो राज्ञी देवराजसुतोपमम्
अनया निहतं राजन्महत्सैन्यं तवैव हि ॥२४॥
कस्मादुपेक्षसे कांत तन्मे त्वं कारणं वद
तामुवाच महाराजो नाहं हन्मि इमां स्त्रियम् ॥२५॥
महादोषं प्रिये दृष्टं स्त्रीवधे दैवतैः किल
तस्मान्न घातयेन्नारीं प्रेषयेहं न कंचन ॥२६॥
अस्या वधनिमित्तार्थे पापाद्बिभेमि सुंदरि
एवमुक्त्वा तदा राजा विरराम महीपतिः ॥२७॥
लुब्धको झार्झरो नाम ददृशे स तु सूकरीम्
कुर्वंतीं कदनं तेषां दुःसहां सुभटैरपि ॥२८॥
आविव्याध सुवेगेन बाणेन निशितेन हि
संलग्नेन तु बाणेन शोणितेन परिप्लुता ॥२९॥
शोभमाना त्वरां प्राप्ता वीरश्रिया समाकुला
तुंडेनापि हतः संख्ये झार्झरः स तया पुनः ॥३०॥
पतमानेन तेनापि झार्झरेण तदा हता
खड्गेन निशितेनापि पपात विदलीकृता ॥३१॥
श्वसमाना रणेनापि मूर्च्छनाभि परिप्लुता
दुःखेन महताविष्टा जीवमाना महीतले ॥३२॥
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे पंचचत्वारिंशोऽध्यायः ॥४५॥
N/A
References : N/A
Last Updated : October 26, 2020
TOP