भूमिखंडः - अध्यायः ११३
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
रंभोवाच-
तप एतत्परित्यज्य किंवा लोकयसे शुभे
तपसः क्षरणं स्याद्वै पुरुषस्यापि चिंतनात् ॥१॥
अशोकसुंदर्युवाच-
तपसि मे मनो लीनं नहुषस्यापि काम्यया
न मां चालयितुं शक्ता देवासुरमहोरगाः ॥२॥
एनं दृष्ट्वा महाभागे मे मनश्चलते भृशम्
रंतुमिच्छाम्यहं गत्वा एवमुत्सुकतां गतम् ॥३॥
एवं विपर्ययश्चासीन्मनसो मे वरावने
तन्मे त्वं कारणं ब्रूहि यद्यस्ति ज्ञानमुत्तमम् ॥४॥
आयुपुत्रस्य भार्याहं देवैः सृष्टा महात्मभिः
कस्मान्मे धावते चेत उत्सुकं रंतुमेव च ॥५॥
रंभोवाच-
सर्वेष्वेव महाभागे देहरूपेषु भामिनि
वसत्यात्मा स्वयं ब्रह्मज्ञानरूपः सनातनः ॥६॥
यद्यपि प्रक्रियाबद्धैरिंद्रियैरुपकारिभिः
मोहपाशमयैर्बद्धस्तथा सिद्धस्तु सर्वदा ॥७॥
प्रकृतिं नैव जानाति ज्ञानविज्ञानकीं कलाम्
अयं शुद्धश्च धर्मज्ञ आत्मा वेत्ति च सुंदरि ॥८॥
गच्छंत्यपि मनस्तापमेनं दृष्ट्वा महामतिम्
पापमेवं परित्यज्य सत्यमेवं प्रधावति ॥९॥
भर्तायमायुपुत्रस्ते एतत्सत्यं न संशयः
अन्यं दृष्ट्वा विशंकेत पुरुषं पापलक्षणम् ॥१०॥
एवं विधिः कृतो देवैः सत्यपाशेन बंधितः
यदस्या आयुपुत्रोपि भर्तृत्वमुपयास्यति ॥११॥
एवमाकर्णितं भद्रे आत्मना तं च सुंदरि
तद्भावसत्यसंबंधं परिगृह्य स्थितः स्वयम् ॥१२॥
अन्यं भावं न जानाति आयुपुत्रं च विंदति
प्रकृतिर्नैव ते देवि पतिं जानाति चागतम् ॥१३॥
एवं ज्ञात्वा प्रधानात्मा तवाद्यैव प्रधावति
आत्मा सर्वं प्रजानाति आत्मा देवः सनातनः ॥१४॥
अयमेष स वीरेंद्रो नहुषो नाम वीर्यवान्
तस्माद्गच्छति चेतस्ते सत्यं संबंधमिच्छते ॥१५॥
ज्ञात्वा चायोः सुतं भद्रे अन्यं चैव न गच्छति
एतत्ते सर्वमाख्यातं शाश्वतं त्वन्मनोगतम् ॥१६॥
हुंडं हत्वा महाघोरं समरे दानवाधमम्
त्वां नयिष्यति स्वस्थानमायोश्च गृहमुत्तमम् ॥१७॥
हृतो दैत्येन वीरेंद्रो निजपुण्येन शेषितः
बाल्यात्प्रभृति वीरेंद्रो वियुक्तः स्वजनेन वै ॥१८॥
पितृमातृविहीनस्तु गतो वृद्धिं महावने
यास्यत्येव पितुर्गेहं त्वयैव सह सांप्रतम् ॥१९॥
एवमाभाषितं श्रुत्वा रंभायाः शिवनंदिनी
हर्षेण महताविष्टा तामुवाच समुद्रजाम् ॥२०॥
अयमेव स सत्यात्मा मम भर्ता सुवीर्यवान्
मनो मे धावतेऽत्यर्थं शोकाकुलितविह्वलम् ॥२१॥
नास्ति चित्तसमो देवो जानाति सुविनिश्चितम्
सत्यमेतन्मया दृष्टं सुचित्रं चारुहासिनि ॥२२॥
मनोभवसमानं तु पुरुषं दिव्यलक्षणम्
न धावति महाचेत एनं दृष्ट्वा यथा सखि ॥२३॥
तथा न धावते भद्रे पुंसमन्यं न मन्यते
एनं गंतव्यमावाभ्यां सखीभिर्गृहमेव हि ॥२४॥
एवमाभाष्य सा रंभा गमनायोपचक्रमे
गमनायोत्सुकां ज्ञात्वा नहुषस्यांतिकं प्रति ॥२५॥
तामुवाच ततो रंभा कस्माद्देवि न गम्यते
सूत उवाच-
सख्या च रंभया सार्द्धं नहुषं वीरलक्षणम् ॥२६॥
तस्यांतिकं सुसंप्राप्य प्रेषयामास तां सखीम्
एनं गच्छ महाभागे नहुषं देवरूपिणम् ॥२७॥
कथयस्व कथामेतां तवार्थे आगता यतः
रंभोवाच-
एवं सखि करिष्यामि सुप्रियं तव सुव्रते ॥२८॥
एवमुक्त्वा गता रंभा नहुषं राजनंदनम्
चापबाणधरं वीरं द्वितीयमिव वासवम् ॥२९॥
प्रत्युवाच गता रंभा सख्या वचनमुत्तमम्
आयुपुत्र महाभाग रंभाहंसमुपागता ॥३०॥
शिवस्य कन्यया वीर तयाहं परिप्रेषिता
तवार्थं देवदेवेन देव्या देवेन वै पुरा ॥३१॥
भार्यारूपं वरं श्रेष्ठं सृष्टं लोकेषु दुर्लभम्
दुष्प्राप्यं तु नरश्रेष्ठैर्देवै सेंद्रैस्तपोधनैः ॥३२॥
गंधर्वैः पन्नगैः सिद्धैश्चारणैः पुण्यलक्षणैः
स्वयमेव समायातं तवार्थे शृणु सांप्रतम् ॥३३॥
स्त्रीरत्नं तन्महाप्राज्ञ संपूर्णं पुण्यनिर्मितम्
अशोकसुंदरी नाम तवार्थं तपसि स्थिता ॥३४॥
अत्यर्थं तु तपस्तप्तं भवंतमिच्छते सदा
एवं ज्ञात्वा महाभाग भजमानां भजस्व हि ॥३५॥
त्वामृते सा वरारोहा पुरुषं नैव याचते
नहुषेण तयोक्तं तु श्रुत्वावधारितं वचः ॥३६॥
प्रत्युत्तरं ददौ चाथ रंभे मे श्रूयतां वचः
तत्तु सर्वं विजानामि यत्त्वयोक्तं ममाग्रतः ॥३७॥
ममाग्रे कथितं पूर्वं वशिष्ठेन महात्मना
सर्वमेव विजानामि अस्यास्तु तप उत्तमम् ॥३८॥
श्रूयतां कारणं भद्रे यथासौख्यं भविष्यति
अहत्वा दानवं हुंडं न गच्छामि वरांगनाम् ॥३९॥
सर्वमेतत्सुवृत्तांतमहं जाने तथैव हि
ममार्थे तव संभूतिस्तपश्च चरितं त्वया ॥४०॥
मम भार्या न संदेहो भवती विधिना कृता
ममार्थे निश्चयं कृत्वा तप आचरितं त्वया ॥४१॥
हृता तस्मात्सुपापेन भवती नियमान्विता
सूतिगृहादहं तेन दानवेनाधमेन वै ॥४२॥
बालभावस्थितो देवि पितृमातृविना कृतः
तस्मात्तं तु हनिष्यामि हुंडं वै दानवाधमम् ॥४३॥
पश्चात्त्वामुपनेष्येऽहं वशिष्ठस्याश्रमं प्रति
एवं कथय भद्रं ते रंभे मत्प्रियकारिणीम् ॥४४॥
एवं विसर्जिता तेन सत्वरं सा गता पुनः
अशोकसुंदरीं देवीं कथयामास तस्य च ॥४५॥
समासेन तथा सर्वं रंभा सा द्विजसत्तम
अशोकसुंदरी सा तु अवधार्य सुभाषितम् ॥४६॥
नहुषस्य सुवीरस्य हर्षेण च समन्विता
तस्थौ तत्र तया सार्द्धं सुसख्या रंभया तदा ॥४७॥
भर्तुश्च कीदृशं वीर्यमिति पश्यामि वै सदा ॥४८॥
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने त्रयोदशाधिकशततमोऽध्यायः ॥११३॥
N/A
References : N/A
Last Updated : October 29, 2020
TOP