संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ३२

भूमिखंडः - अध्यायः ३२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
नानारत्नैः सुदीप्तांगो हाटकेनापि सर्वतः
राजमानो गिरिश्रेष्ठो यथा सूर्यः स्वरश्मिभिः ॥१॥
छायामशोकां संप्राप्य शीतलां सुखदायिनीम्
ध्यायंति योगिनः सर्वे उपविष्टा दृढासने ॥२॥
क्वचित्तपंति मुनयः क्वचिद्गायंति किन्नराः
संतुष्टा ऋषिगंधर्वा वीणातालकराविलाः ॥३॥
तालमानलये लीनाः स्वरैः सप्तभिरन्वितैः
मूर्च्छनारत्निसंयुक्तैर्व्यक्तं गीतं मनोहरम् ॥४॥
तस्मिन्वै पर्वतश्रेष्ठे चंदनच्छायसंश्रिताः
गंधर्वा गीततत्वज्ञा गीतं गायंति तत्पराः ॥५॥
नृत्यंति योषितस्तत्र देवानां पर्वत्तोत्तमे
पापहा पुण्यदो दिव्यः सुश्रेयसां प्रदायकः ॥६॥
वेदध्वनिः समधुरः श्रूयते पर्वतोत्तमे
चंदनाशोकपुन्नागैः शालैस्तालैस्तमालकैः ॥७॥
वटैस्तु मेघसंकाशै राजते पर्वतोत्तमः
संतानकैः कल्पवृक्षै रंभापादपसंकुलैः ॥८॥
नगेंद्रो भाति सर्वत्र नाकवृक्षैः सुपुष्पितैः
नानाधातुसमाकीर्णो नानारत्नचयो गिरिः ॥९॥
नानाकौतुकसंयुक्तो नानामंगलसंयुतः
वेदवृंदैः सुसंजुष्टो ह्यप्सरोगणसंकुलः ॥१०॥
ऋषिभिर्मुनिभिः सिद्धैर्गंधर्वैःपरिभातिसः
गजैश्चाचलसंकाशैः सिंहनादैर्विराजते ॥११॥
शरभैर्मत्तशार्दूलैर्मृगधूर्तैरलंकृतः
वापीकूपतडागैश्च संपूर्णैर्विमलोदकैः ॥१२॥
हंसकारंडवाकीर्णैः सर्वत्र परिशोभते
कनकोत्पलैश्च श्वेतैश्च रक्तोत्पलैर्विराजते ॥१३॥
नदीस्रवणसंघातैर्विमलैश्चोदकैस्तथा
शालतालैश्च रूपैश्च सगजैः स्फाटिकैस्तथा ॥१४॥
विस्तीर्णैः कांचनैर्दिव्यैः सूर्यवह्निसमप्रभैः
शिलातलैश्च संपूर्णः शैलराजो विराजते ॥१५॥
विमानैर्देवतानां च प्रासादैः पर्वतोत्तमैः
हंसचंद्रप्रतीकाशैर्हेमदंडैरलंकृतः ॥१६॥
कलशैश्चामरैर्युक्तैः प्रासादैः परिशोभितः
नानागुणप्रमुदित देववृंदैश्च शोभितः ॥१७॥
देववृंदैरनेकैश्च गंधर्वैश्चारणैस्तथा
सर्वत्र राजते पुण्यो मेरुर्गिरिवरोत्तमः ॥१८॥
तस्माद्गंगामहापुण्या पुण्यतोया महानदी
प्रसूता पुण्यतीर्थाढ्या हंसपद्मैः समाकुला ॥१९॥
मुनिभिः सेव्यमाना सा ऋषिसंघैर्महानदी
एवंगुणं गिरिश्रेष्ठं पुण्यकौतुकमंगलम् ॥२०॥
अंगश्चात्रिसुतः पुण्यः प्रविवेश महामुनिः
गंगातीरे सुपुण्ये च एकांते चारुकंदरे ॥२१॥
तत्रोपविश्य मेधावी कामक्रोधविवर्जितः
सर्वेंद्रियाणि संयम्य हृषीकेशं मनोगतम् ॥२२॥
ध्यायमानः स धर्मात्मा कृष्णं क्लेशापहं प्रभुम्
आसने शयने याने ध्याने च मधुसूदनम् ॥२३॥
नित्यं पश्यति युक्तात्मा योगयुक्तो जितेंद्रियः
चराचरेषु जीवेषु तेषु पश्यति केशवम् ॥२४॥
आर्द्रेषु चैव शुष्केषु सर्वेष्वन्येषु स द्विजः
एवं वर्षशतं जातं तप्यमानस्य तस्य च ॥२५॥
समालोक्य जगन्नाथश्चक्रपाणिर्द्विजोत्तमम्
बहुविघ्नान्सुघोरांश्च दर्शयत्येव नित्यशः ॥२६॥
तेजसा तस्य देवस्य नृसिंहस्य महात्मनः
निरातंकः स धर्मात्मा दहत्यग्निरिवेंधनम् ॥२७॥
नियमैः संयमैश्चान्यैरुपवासैर्द्विजोत्तमः
क्षीयमाणस्तु संजातो दीप्यमानः स्वतेजसा ॥२८॥
सूर्यपावकसंकाशस्त्वंग एवं प्रदृश्यते
एवं तपःसु निरतं ध्यायमानं जनार्दनम् ॥२९॥
आविर्भूयाब्रवीद्देवो वरं वरय मानद
तं च दृष्ट्वा हृषीकेशमंगः परम निर्वृतः ॥३०॥
तुष्टाव प्रणतो भूत्वा वासुदेवं प्रसन्नधीः ॥३१॥
अंग उवाच-
त्वं गतिः सर्वभूतानां भूतभावन पावन
भूतात्मा सर्वभूतेश नमस्तुभ्यं गुणात्मने ॥३२॥
गुणरूपाय गुह्याय गुणातीताय ते नमः
गुणाय गुणकर्त्रे च गुणाढ्याय गुणात्मने ॥३३॥
भवाय भवकर्त्रे च भक्तानां भवहारिणे
भवोद्भवाय गुह्याय नमो भवविनाशिने ॥३४॥
यज्ञाय यज्ञरूपाय यज्ञेशाय नमोनमः
यज्ञकर्मप्रसंगाय नमः शंखधराय च ॥३५॥
नमोनमो हिरण्याय नमो रथांगधारिणे
सत्याय सत्यभावाय सर्वसत्यमयाय च ॥३६॥
धर्माय धर्मकर्त्रे च सर्वकर्त्रे च ते नमः
धर्मांगाय सुवीराय धर्माधाराय ते नमः ॥३७॥
नमः पुण्याय पुत्राय ह्यपुत्राय महात्मने
मायामोहविनाशाय सर्वमायाकराय ते ॥३८॥
मायाधराय मूर्ताय त्वमूर्ताय नमोनमः
सर्वमूर्तिधरायैव शंकराय नमोनमः ॥३९॥
ब्रह्मणे ब्रह्मरूपाय परब्रह्मस्वरूपिणे
नमस्ते सर्वधाम्ने च नमो धामधराय च ॥४०॥
श्रीमते श्रीनिवासाय श्रीधराय नमोनमः
क्षीरसागरवासाय चामृताय च ते नमः ॥४१॥
महौषधाय घोराय महाप्रज्ञापराय च
अक्रूराय प्रमेध्याय मेध्यानां पतये नमः ॥४२॥
अनंताय ह्यशेषाय चानघाय नमोनमः
आकाशस्य प्रकाशाय पक्षिरूपाय ते नमः ॥४३॥
हुताय हुतभोक्त्रे च हवीरूपाय ते नमः
बुद्धाय बुधरूपाय सदाबुद्धाय ते नमः ॥४४॥
नमो हव्यायकव्याय स्वधाकाराय ते नमः
स्वाहाकाराय शुद्धाय ह्यव्यक्ताय महात्मने ॥४५॥
व्यासाय वासवायैव वसुरूपाय ते नमः
वासुदेवाय विश्वाय वह्निरूपाय ते नमः
हरये केवलायैव वामनाय नमोनमः ॥४६॥
नमो नृसिंहदेवाय सत्वपालाय ते नमः ॥४७॥
नमो गोविंदगोपाय नम एकाक्षराय च
नमः सर्वाक्षरायैव हंसरूपाय ते नमः ॥४८॥
त्रितत्त्वाय नमस्तुभ्यं पंचतत्त्वाय ते नमः
पंचविंशतितत्त्वाय तत्त्वाधाराय वै नमः ॥४९॥
कृष्णाय कृष्णरूपाय लक्ष्मीनाथाय ते नमः
नमः पद्मपलाशाय आनंदाय पराय च ॥५०॥
नमो विश्वंभरायैव पापनाशाय वै नमः
नमः पुण्यसुपुण्याय सत्यधर्माय ते नमः ॥५१॥
नमोनमः शाश्वतअव्ययाय नमोनमः संघ नभोमयाय
श्रीपद्मनाभाय महेश्वराय नमामि ते केशवपादपद्मम् ॥५२॥
आनंदकंद कमलाप्रिय वासुदेव सर्वेश ईश मधुसूदन देहि दास्यम्
पादौ नमामि तव केशव जन्मजन्म कृपां कुरुष्व मम शांतिद शंखपाणे ॥५३॥
संसारदारुणहुताशनतापदग्धं पुत्रादिबंधुमरणैर्बहुशोकतापैः
ज्ञानांबुदेन मम प्लावय पद्मनाभ दीनस्य मच्छरणरूपभवस्व नाथ ॥५४॥
एवं स्तोत्रं समाकर्ण्य त्वंगस्यापि महात्मनः
दर्शयित्वा स्वकं रूपं घनश्यामं महौजसम् ॥५५॥
शंखचक्रगदापाणिं पद्महस्तं महाप्रभुम्
वैनतेयसमारूढमात्मरूपं प्रदर्शितम् ॥५६॥
सर्वाभरणशोभांगं हारकंकणकुंडलैः
राजमानं परं दिव्यं निर्मलं वनमालया ॥५७॥
अंगस्याग्रे हृषीकेशः शोभमान महत्प्रभः
श्रीवत्सांकेन पुण्येन कौस्तुभेन जनार्दनः ॥५८॥
दर्शयित्वा स्वकं देहं सर्वदेवमयो हरिः
स उवाच महात्मानं तमंगमृषिसत्तमम् ॥५९॥
भो भो विप्र महाभाग श्रूयतां वचनं शुभम्
मेघगंभीरघोषेण समाभाष्य द्विजोत्तमम् ॥६०॥
तपसानेन तुष्टोस्मि वरं वरय शोभनम्
तुष्यमाणं हृषीकेशं तं दृष्ट्वा कमलापतिम् ॥६१॥
दीप्यमानं विराजंतं विश्वरूपं जनेश्वरम्
पादांबुजद्वयं तस्य प्रणम्य च पुनःपुनः ॥६२॥
हर्षेण महताविष्टस्तमुवाच जनार्दनम्
दासोहं तव देवेश शंखचक्रगदाधर ॥६३॥
वरं मे दातुकामोसि देहि त्वं वंशजं सुतम्
दिवि शक्रो यथाऽभाति सर्वतेजः समन्वितः ॥६४॥
तादृशं देहि मे पुत्रं सर्वलोकस्य रक्षकम्
सर्वदेवप्रियं देव ब्रह्मण्यं धर्मपंडितम् ॥६५॥
दातारं ज्ञानसंपन्नं धर्मतेजः समन्वितम्
त्रैलोक्यरक्षकं कृष्ण सत्यधर्मानुपालकम् ॥६६॥
यज्वनामुत्तमं चैकं शूरं त्रैलोक्यभूषणम्
ब्रह्मण्यं वेदविद्वांसं सत्यसंधं जितेंद्रियम् ॥६७॥
अजितं सर्वजेतारं विष्णुं तेजःसमप्रभम्
वैष्णवं पुण्यकर्तारं पुण्यजं पुण्यलक्षणम् ॥६८॥
शांतं तु तपसोपेतं सर्वशास्त्रविशारदम्
वेदज्ञं योगिनां श्रेष्ठं भवतो गुणसंनिभम् ॥६९॥
ईदृशं देहि मे पुत्रं दातुकामो यदा वरम्
श्रीवासुदेव उवाच-
एभिर्गुणैः समोपेतस्तव पुत्रो भविष्यति ॥७०॥
अत्रिवंशस्य वै धर्ता विश्वस्यास्य महामते
तेजसा यशसा पुण्यैः पितरं चोद्धरिष्यति ॥७१॥
उद्धरिष्यति यः सत्यैः पितरं च पितामहम्
भवान्यास्यति मे स्थानं तद्विष्णोः परमं पदम् ॥७२॥
इत्युक्त्वा देवदेवेशस्तमंगं प्रति स द्विज
कस्यचित्पुण्यवीर्यस्य पुण्यां कन्यां विवाहय ॥७३॥
तस्यामुत्पादय सुतं शुभं पुण्यावह प्रियम्
स भविष्यति धर्मात्मा मत्प्रसादान्महामते ॥७४॥
सर्वज्ञः सर्ववेत्ता च यादृशो वांछितस्त्वया
एवं वरं ततो दत्वा अंतर्धानं गतो हरिः ॥७५॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने अंगवरप्रदानं नाम द्वात्रिंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP