भूमिखंडः - अध्यायः ३
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सूत उवाच-
प्रस्थितस्तेन मार्गेण प्रविष्टो गगनांतरे
स दृष्टो देवदेवेन सहस्राक्षेण धीमता ॥१॥
उद्यमं तस्य वै ज्ञात्वा चक्रे विघ्नं सुराधिराट्
मेनिकांतामुवाचेदं गच्छ त्वं मम शासनात् ॥२॥
समाचरस्वास्य शीघ्रं गत्वा विघ्नं सुमध्यमे
अस्यैव विप्रवर्यस्य पुत्रस्य शिवशर्मणः ॥३॥
तथा कुरुष्व भद्रं ते यथा नायाति मे गृहम्
एवमाकर्ण्य तद्वाक्यं मेनिका प्रस्थिता त्वरात् ॥४॥
सूत उवाच-
रूपौदार्यगुणोपेता सर्वालंकारभूषिता
नंदनस्य वनस्यांते दोलायां समुपस्थिता ॥५॥
सुस्वरेण प्रगायंती गीतं वीणास्वरोपमम्
तेन दृष्टा विशालाक्षी चतुरा चारुलोचना ॥६॥
व्यवसायं ततो ज्ञात्वा तस्या विघ्नमनुत्तमम्
इंद्रेण प्रेषिता चैषा न च भद्रकरा भवेत् ॥७॥
एवं ज्ञात्वा जगामाथ सत्वरेण द्विजोत्तमः
तया दृष्टस्तथा पृष्टः क्व यास्यसि महामते ॥८॥
विष्णुशर्मा तदोवाच मेनिकां कामचारिणीम्
इंद्रलोकं प्रयास्यामि पितुरर्थे त्वरान्वितः ॥९॥
मेनिका विष्णुशर्माणं प्रत्युवाच प्रियं पुनः
कामबाणैः प्रभिन्नाहं त्वामद्य शरणं गता ॥१०॥
रक्षस्व द्विजशार्दूल यदि धर्ममिहेच्छसि
यावद्धि त्वं मया दृष्टः कामाकुलितचेतसा ॥११॥
कामानलेन संदग्धा तावदेव न संशयः
संभ्रांता कामसंतप्ता प्रसादसुमुखो भव ॥१२॥
विष्णुशर्मोवाच-
चरित्रं देवदेवस्य विदितं मे वरानने
भवत्याश्चप्रजानामिनाहंचैतादृशःशुभे ॥१३॥
भवत्यास्तेजसा रूपैरन्ये मुह्यंति शोभने
विश्वामित्रादयो देवि पुत्रोहं शिवशर्मणः ॥१४॥
योगसिद्धिं गतस्यापि तपः सिद्धस्य चाबले
कामादयो महादोषा आदावेव विनिर्जिताः ॥१५॥
अन्यं भज विशालाक्षि इंद्रलोकं व्रजाम्यहम्
एवमुक्त्वा जगामाथ त्वरितो द्विजसत्तमः ॥१६॥
निष्फला मेनका जाता पृष्टा देवेन वज्रिणा
विभीषां दर्शयामास नानारूपां पुनः पुनः ॥१७॥
यथानलेन संदग्धास्तृणानां संचया द्विजाः
भस्मीभूता भवंत्येव तथा तास्ता विभीषिकाः ॥१८॥
विप्रस्य तेजसा तस्य पितृभक्तस्य सत्तमाः
प्रलयं गतास्तु घोरास्ता दारुणा भीषिका द्विजाः ॥१९॥
स विघ्नान्दर्शयामास सहस्राक्षः पुनः पुनः
तेजसाऽनाशयद्विप्रः स्वकीयेन महायशाः ॥२०॥
एवं विघ्नान्बहूंस्तस्य इंद्रस्यापि महात्मनः
नाशयामास मेधावी तपसस्तेजसापि वा ॥२१॥
नष्टेषु तेषु विघ्नेषु दारुणेषु महत्सु च
ज्ञात्वा तस्य कृतान्विघ्नान्दारुणान्भीषणाकृतीन् ॥२२॥
अथ क्रुद्धो महातेजा विष्णुशर्मा द्विजोत्तमः
इंद्रं प्रति महाभागो रागरक्तांतलोचनः ॥२३॥
इंद्र लोकादहं चेंद्रं पातयिष्यामि नान्यथा
निजधर्मे रतस्याद्य यो विघ्नं तु समाचरेत् ॥२४॥
तस्य दंडं प्रदास्यामि यो वै हन्यात्स हन्यते
एवमन्यं करिष्यामि देवानां पालकं पुनः ॥२५॥
एवं समुद्यतो विप्र इंद्रनाशाय सत्तमः
तावदेव समायातो देवेंद्रः पाकशासनः ॥२६॥
भो भो विप्र महाप्राज्ञ तपसा नियमेन च
दमेन सत्यशौचाभ्यां त्वत्समो नास्ति चापरः ॥२७॥
अनया पितृभक्त्या ते जितोहं दैवतैः सह
ममापराधं त्वं सर्वं क्षंतुमर्हसि सत्तम ॥२८॥
वरं वरय भद्रं ते दुर्लभं च ददाम्यहम्
विष्णुशर्मा तदोवाच देवराजं तथागतम् ॥२९॥
विप्रतेजो महेंद्रेद्रं असह्यं देवदैवतैः
पितृभक्तस्य देवेश दुःसहं सर्वथा विभो ॥३०॥
तेजोभंगो न कर्त्तव्यो ब्राह्मणानां महात्मनाम्
पुत्रपौत्रैः समस्तैस्तु ब्रह्मविष्णुहरान्पुनः ॥३१॥
नाशयंते न संदेहो यदि रुष्टा द्विजोत्तमाः
नागच्छेद्यद्भवानद्य तदा राज्यमनुत्तमम् ॥३२॥
आत्मतपः प्रभावेण अन्यस्मै त्वं महात्मने
दातुकामस्तु संजातो रोषपूर्णेन चक्षुषा ॥३३॥
भवानद्य समायातो वरं दातुमिहेच्छसि
अमृतं देहि देवेंद्र पितृभक्तिं तथाचलाम् ॥३४॥
एवंविधं वरं देहि यदि तुष्टोसि शत्रुहन्
एवं ददामि पुण्यं ते वरं चामृतसंयुतम् ॥३५॥
एवमाभाष्य तं विप्रममृतं दत्तवान्स्वयम्
सकुंभं दत्तवांस्तस्मै प्रीयमाणेन चात्मना ॥३६॥
अचला ते भवेद्विप्र भक्तिः पितरि सर्वदा
एवमाभाष्य तं विप्रं विसृज्य च सहस्रदृक् ॥३७॥
प्रसन्नोभूच्च तद्दृष्ट्वा विप्रतेजः सुदुःसहम्
विष्णुशर्मा ततो गत्वा पितरं वाक्यमब्रवीत् ॥३८॥
तात इंद्रात्समानीतममृतं व्याधिनाशनम्
अनेनापि महाभाग नीरुजो भव सर्वदा ॥३९॥
अमृतेन त्वमद्यैव परां तृप्तिमवाप्नुहि
एतद्वाक्यं महच्छ्रुत्वा शिवशर्मा सुतस्य हि ॥४०॥
सुतान्सर्वान्समाहूय प्रीयमाणेन चेतसा
पितृभक्ताः सुता यूयं मद्वाक्यपरिपालकाः ॥४१॥
वरं वृणुध्वं सुप्रीताः पुत्रका दुर्लभं भुवि
एवमाभाषितं तस्य शुश्रुवुः सर्वसंमताः ॥४२॥
ते सर्वे तु समालोच्य पितरं प्रत्यथाब्रुवन्
अस्माकं जीवताम्माता गता या यममंदिरम् ॥४३॥
नीरुजा भवनाद्देवी प्रसादात्तव सुव्रता
भवान्पिता इयं माता जन्मजन्मांतरे पितः ॥४४॥
वयं सुता भवेमेति सर्वे पुण्यकृतस्तथा
शिवशर्मोवाच-
अद्यैवापि मृता माता भवतां पुत्रवत्सला ॥४५॥
जीवमाना सुहृष्टा सा एष्यते नात्र संशयः
एवमुक्ते शुभे वाक्ये ऋषिणा शिवशर्मणा ॥४६॥
तेषां माता समायाता प्रहृष्टा वाक्यमब्रवीत्
एतदर्थं समुत्पन्नं सुवीर्यं तनयं सुतम् ॥४७॥
नराः सत्पुत्रमिच्छंति कुलवंशप्रभावकम्
स्त्रियो लोके महाभागाः सुपुण्याः पुण्यवत्सलाः ॥४८॥
सुतमिच्छंति सर्वत्र पुण्यांगं पुण्यसाधकम्
कुक्षिं यस्या गतो गर्भः सुपुण्यः परिवर्त्तते ॥४९॥
पुण्यान्पुत्रान्प्रसूयेत सा नारी पुण्यभागिनी
कुलाचारं कुलाधारं पितृमातृप्रतारकम् ॥५०॥
विना पुण्यैः कथं नारी संप्राप्नोति सुतोत्तमम्
न जाने कीदृशैः पुण्यैरेष भर्ता सुपुण्यभाक् ॥५१॥
संजातो धर्मवीर्योपि धर्मात्मा धर्मवत्सलः
यस्य वीर्यान्मया प्राप्ता यूयं पुत्रास्ततोधिकाः ॥५२॥
एवं पुण्यप्रभावोयं भवंतः पुण्यवत्सलाः
मम पुत्रास्तु संजाताः पितृभक्तिपरायणाः ॥५३॥
अहो लोकेषु पुण्यैश्च सुपुत्रः परिलभ्यते
एकैकशोधिकाः पंच मया प्राप्ता महाशयाः ॥५४॥
यज्वानः पुण्यशीलाश्च तपस्तेजः पराक्रमाः
एवं संवर्धितास्ते तु तया मात्रा पुनः पुनः ॥५५॥
हर्षेण महताविष्टाः प्रणेमुर्मातरं सुताः
पुत्रा ऊचुः-
सुपुण्यैः प्राप्यते माता सन्माता सुपिता किल ॥५६॥
भवती पुण्यकृन्माता नो भाग्यैस्तु प्रवर्तिता
यस्या गर्भोदरं प्राप्य सुपुण्यैश्च प्रवर्द्धिताः ॥५७॥
जन्मजन्मनि त्वं माता पिता चैव भविष्यथः
पितोवाच-
शृणुध्वं मामकाः पुत्राः सुवरं पुण्यदायकम् ॥५८॥
मयि तुष्टे सुता भोगा ननु भुंजंतु चाक्षयान्
पुत्रा ऊचुः-
यदि तात प्रसन्नोसि वरं दातुमिहेच्छसि ॥५९॥
अस्मान्प्रेषय गोलोकं वैष्णवं दाहवर्जितम्
पितोवाच-
गच्छध्वं वैष्णवं लोकं यूयं विगतकल्मषाः ॥६०॥
मत्प्रसादात्तपोभिश्च पितृभक्त्यानया स्वया
एवमुक्ते तु तेनापि सुवाक्ये ऋषिणा ततः ॥६१॥
शंखचक्रगदापाणिर्गरुडारूढ आगतः
सपुत्रं शिवशर्माणमित्युवाच पुनः पुनः ॥६२॥
सपुत्रेण त्वयाद्यैव जितो भक्त्यास्मि वै द्विज
पुत्रैः सार्द्धं समागच्छ चतुर्भिः पुण्यकारिभिः ॥६३॥
अनया भार्यया सार्द्धं पुण्यया पतिकाम्यया
शिवशर्मोवाच-
अमी गच्छंतु पुत्रा मे वैष्णवं लोकमुत्तमम् ॥६४॥
कंचित्कालं तु नेष्यामि भूमौ वै भार्यया सह
अनेनापि सुपुत्रेण अंत्येन सोमशर्मणा ॥६५॥
एवमुक्ते शुभे वाक्ये ऋषिणा सत्यभाषिणा
तानुवाचाथ देवेशः सुपुत्राञ्छिवशर्मणः ॥६६॥
गच्छंतु मोक्षदं लोकं दाहप्रलयवर्जितम्
एवमुक्ते ततो विप्राश्चत्वारः सत्यचेतसः ॥६७॥
विष्णुरूपधराः सर्वे बभूवुस्तत्क्षणादपि
इंद्रनीलसमावर्णैः शंखचक्रगदाधराः ॥६८॥
सर्वाभरणसौभाग्या विष्णुरूपा महौजसः
हारकंकणशोभाढ्या रत्नमालाभिशोभिताः ॥६९॥
सूर्यतेजःप्रतीकाशास्तेजोज्वालाभिरावृताः
प्रविष्टा वैष्णवं कायं पश्यतः शिवशर्मणः ॥७०॥
दीपं दीपा यथा यांति तद्वल्लीना महामते
गतास्ते वैष्णवं धाम पितृभक्त्या द्विजोत्तमाः ॥७१॥
प्रभावं तु प्रवक्ष्यामि सुसत्यं सोमशर्मणः ॥७२॥
इति श्रीपद्मपुराणे भूमिखंडे शिवशर्मोपाख्याने तृतीयोऽध्यायः ॥३॥
N/A
References : N/A
Last Updated : October 25, 2020
TOP