भूमिखंडः - अध्यायः २५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सूत उवाच-
इयं हि का गायति चारुलोचना विलासभावैः परिविश्वमेव
अतीव बाला शुशुभे मनोहरा संपूर्णभावैः परिमोहयेज्जनम् ॥१॥
दृष्ट्वा स रंभां कमलायताक्षीं पीनस्तनीं चर्चितकुंकुमांगीम्
पद्माननां कामगृहं ममैषा नो वा रतिश्चारुमनोहरेयम् ॥२॥
संपूर्णभावां परिरूपयुक्तां कामांगशीलामतिशीलभावाम्
यास्याम्यहं वश्यमिहैव अस्या मनोभवेनाद्य इहैव प्रेषितः ॥३॥
इतीव दैत्यः सुविचिंतयान्वितः कामेन मुग्धो बहुकालनोदितः
समातुरस्तत्र जगाम सत्वरमुवाच तां दीनमनाः सुलोचनाम् ॥४॥
कस्यासि वा सुंदरि केन प्रेषिता किं नाम ते पुण्यतमं वदस्व मे
तवैव रूपेण महातितेजसा मुग्धोस्मि बाले मम वश्यतां व्रज ॥५॥
एवमुक्ता विशालाक्षी वृत्रं कामाकुलं प्रति
अहं रंभा महाभाग क्रीडार्थं वनमुत्तमम् ॥६॥
सखीसार्धं समायाता नंदनं वनमुत्तमम्
त्वं तु को वा किमर्थं हि मम पार्श्वं समागतः ॥७॥
वृत्र उवाच-
श्रूयतामभिधास्यामि योहं बाले समागतः
हुताशनात्समुत्पन्नः कश्यपस्य सुतः शुभे ॥८॥
सखाहं देवदेवस्य इंद्र स्यापि वरानने
ऐंद्रं पदं वरारोहे अर्धं मे भुक्तिमागतम् ॥९॥
अहं वृत्रः कथं देवि मामेवं न तु विंदसि
त्रैलोक्यं वशमायातं यस्यैव वरवर्णिनि ॥१०॥
अहं शरणमायातः कामाद्रक्ष वरानने
भजस्व मां विशालाक्षि कामेनाकुलितं प्रिये ॥११॥
रंभोवाच-
वशगा हं तवैवाद्य भविष्यामि न संशयः
यं यं वदाम्यहं वीर तं तं कार्यं त्वयैव हि ॥१२॥
एवमस्तु महाभागे तं तं सर्वं करोम्यहम्
एवं संबंधकं कृत्वा तया सह महाबलः ॥१३॥
तस्मिन्वने महापुण्ये रेमे दानवसत्तमः
तस्या गीतेन नृत्येन हास्येन ललितेन च ॥१४॥
अतिमुग्धो महादैत्यः स तस्याः सुरतेन च
तमुवाच महाभागं वृत्रं दानवसत्तमम् ॥१५॥
सुरापानं कुरुष्वेह पिबस्व मधुमाधवीम्
तामुवाच विशालाक्षीं रंभां शशिनिभाननाम् ॥१६॥
पुत्रोहं ब्राह्मणस्यापि वेदवेदांगपारगः
सुरापानं कथं भद्रे करिष्यमि विनिंदितम् ॥१७॥
तया तु रंभया देव्या प्रीत्या दत्ता सुरा हठात्
तस्या दाक्षिण्यभावेन सुरापानं कृतं तदा ॥१८॥
अतीवमुग्धं सुरया ज्ञानभ्रष्टो यदाभवत्
तदंतरे सुरेंद्रेण वज्रेण निहतस्तदा ॥१९॥
ब्रह्महत्यादिकैः पापैः स लिप्तो वृत्रहा ततः
ब्राह्मणास्तु ततः प्रोचुरिंद्र पापं कृतं त्वया ॥२०॥
अस्माद्वाक्यात्तु विश्वस्तो वृत्रो नाम महाबलः
हतो विश्वासभावेन एवं पापं त्वया कृतम् ॥२१॥
इंद्र उवाच-
येन केनाप्युपायेन हंतव्योरिः सदैव हि
देवब्राह्मणहंतारं यज्ञानां धर्मकंटकम् ॥२२॥
निहतं दानवं दुष्टं त्रैलोक्यस्यापि नायकम्
तदर्थं कुपिता यूयमेतन्न्यायस्य लक्षणम् ॥२३॥
विचारमेवं कर्त्तव्यं भवद्भिर्द्विजसत्तमाः
पश्चात्कोपं प्रकर्त्तव्यमन्यायं मम चिंत्यताम् ॥२४॥
एवं संबोधिता विप्रा इंद्रेणापि महात्मना
ब्रह्मादिभिः सुरैः सर्वैर्बोधितास्ते च सत्तमाः ॥२५॥
जग्मुः स्वस्थानमेवं हि निहते धर्मकंटके ॥२६॥
इति श्रीपद्मपुराणे भूमिखंडे वृत्रासुरवधोनाम पंचविंशोऽध्यायः ॥२५॥
N/A
References : N/A
Last Updated : October 26, 2020
TOP