भूमिखंडः - अध्यायः ६८
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
ययातिरुवाच-
अधर्मस्य फलं सूत श्रुतं सर्वं मया विभो
धर्मस्यापि फलं ब्रूहि श्रोतुं कौतूहलं मम ॥१॥
मातलिरुवाच-
अथ पापैरिमे यांति यमलोकं चतुर्विधाः
संत्रासजननं घोरं विवशाः सर्वदेहिनः ॥२॥
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः
पुंस्त्रीनपुंसकैर्वृद्धैर्यातव्यं जंतुभिस्ततः ॥३॥
शुभाशुभफलं तत्र देहिनां प्रविचार्यते
चित्रगुप्तादिभिः सर्वैर्मध्यस्थैः सर्वदर्शिभिः ॥४॥
न तेत्र प्राणिनः संति ये न यांति यमक्षयम्
अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचारितम् ॥५॥
ये तत्र शुभकर्माणः सौम्यचित्तादयान्विताः
ते नरा यांति सौम्येन पथा यमनिकेतनम् ॥६॥
यः प्रदद्याच्च विप्राणामुपानत्काष्ठपादुके
स विमानेन महता सुखं याति यमालयम् ॥७॥
छत्रदानेन गच्छंति पथा साभ्रेण देहिनः
दिव्यवस्त्रपरीधाना यांति वस्त्रप्रदायिनः ॥८॥
शिबिकायाः प्रदानेन विमानेन सुखं व्रजेत्
सुखासनप्रदानेन सुखं यांति यमालयम् ॥९॥
आरामकर्ता छायासु शीतलासु सुखं व्रजेत्
यांति पुष्पकयानेन पुष्पारामप्रदायिनः ॥१०॥
देवायतनकर्ता च यतीनामाश्रमस्य च
अनाथमंडपानां च क्रीडन्याति गृहोत्तमैः ॥११॥
देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकः ॥१२॥
विप्रेषु दीनेषु गुणान्वितेषु यच्छ्रद्धया स्वल्पमपि प्रदत्तम्
तत्सर्वकामान्समुपैति लोके श्राद्धे च दानं प्रवदंति संतः ॥१३॥
श्रद्धादानेन विज्ञेयमपि वालाग्रमात्रकम्
यत्पात्रादि चतुष्टयं श्रद्धा तेषु सदा मम ॥१४॥
श्रद्धीयते सदा तस्माच्छ्रद्धायास्तत्फलं भवेत्
गुणान्वितेषु दीनेषु यच्छत्यावसथान्यपि ॥१५॥
स प्रयाति सर्वकामं स्थानं पैतामहं नृप
श्रद्धयायेन विप्राय दत्तं काकिणिमात्रकम् ॥१६॥
सस्याद्दिव्यतिथिर्भूप देवानां कीर्तिवर्धनः
तस्माच्छ्रद्धान्वितैर्देयं तत्फलं भवति ध्रुवम् ॥१७॥
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययाति-
चरित्रेऽष्टषष्टितमोऽध्यायः ॥६८॥
N/A
References : N/A
Last Updated : October 29, 2020
TOP