संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ९२ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ९२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ९२ Translation - भाषांतर कुंजल उवाच-कालंजरं समासाद्य निवसंति सुदुःखिताःमहापापैस्तु संदग्धा हाहाभूता विचेतनाः ॥१॥तत्र कश्चित्समायातःसिद्धश्चैव महायशाःतेन पृष्टाः सुदुःखार्ता भवंतः केन दुःखिताः ॥२॥स तैः प्रोक्तो महाप्राज्ञः सर्वज्ञानविशारदःतेषां ज्ञात्वा महापापं कृपां चक्रे सुपुण्यभाक् ॥३॥सिद्ध उवाच-अमासोमसमायोगे प्रयागः पुष्करश्च यःअर्घतीर्थं तृतीयं तु वाराणसी चतुर्थका ॥४॥गच्छंतु तत्र वै यूयं चत्वारः पातकाविलाःगंगांभसि यदा स्नातास्तदा मुक्ता भविष्यथ ॥५॥पातकेभ्यो न संदेहो निर्मलत्वं गमिष्यथआदिष्टास्तेन वै सर्वे प्रणेमुस्तं प्रयत्नतः ॥६॥कालंजरात्ततो जग्मुः सत्वरं पापपीडिताःवाराणसीं समासाद्य स्नात्वा चै वद्विजोत्तमाः ॥७॥प्रयागं पुष्करं चैव अर्घतीर्थं तु सत्तमअमासोमं सुसंप्राप्य जग्मुस्ते च महापुरीम् ॥८॥विदुरश्चंद्रशर्मा च वेदशर्मा तृतीयकःवैश्यो वंजुलकश्चैव सुरापः पापचेतनः ॥९॥तस्मिन्पर्वणि संप्राप्ते स्नाता गंगांभसि द्विजस्नानमात्रेण मुक्तास्तु गोवधाद्यैश्च किल्बिषैः ॥१०॥ब्रह्महत्या गुरुहत्या सुरापानादि पातकैःलिप्तानि तानि तीर्थानि परिभ्रमंति मेदिनीम् ॥११॥पुष्करो अर्धतीर्थस्तु प्रयागः पापनाशनःवाराणसी चतुर्थी तु लिप्ता पापैर्द्विजोत्तम ॥१२॥कृष्णत्वं पेदिरे सर्वे हंसरूपेण बभ्रमुःसर्वेष्वेव सुतीर्थेषु स्नानं चक्रुर्द्विजोत्तमाः ॥१३॥कृष्णत्वं नैव गच्छेत तेषां पापेन चागतम्सुतीर्थेषु महाराज स्नाताः सर्वेषु वै पुनः ॥१४॥यं यं तीर्थं प्रयांत्येते सर्वे तीर्था द्विजोत्तमहंसरूपेण वै यांति तैः सार्द्धं तु सुदुःखिताः ॥१५॥भार्याः पातकरूपाश्च भ्रमंति परितस्तथाअष्टषष्टिसु तीर्थानि हंसरूपेण बभ्रमुः ॥१६॥तैः सार्द्धं सु महाराज महातीर्थैः समं पुनःमानसं चागतास्ते च पातकाकुलमानसाः ॥१७॥तत्र स्नाता महाराज न जहाति च पातकःलज्जयाविष्टमनसा मानसो हंसरूपधृक् ॥१८॥संजातः कृष्णकायस्तु यं त्वं वै दृष्टवान्पुरारेवातीरं ततो जग्मुरुत्तरं पापनाशनम् ॥१९॥कुब्जायाः संगमे ते तु सुरसिद्धनिषेवितेस्नानमात्रेण मुक्तास्ते पापेभ्यो द्विजसत्तम ॥२०॥विहाय वर्णमेवैतं सुकृतं प्रतिजग्मिरेयं यं तीर्थं प्रयांत्येते हंसाः स्नानं प्रचक्रमुः ॥२१॥जहसुस्ताः स्त्रियो दृष्ट्वा पातकं नैव गच्छतितोयानलेन कुब्जायाः पातकं वरमेव च ॥२२॥भस्मावशेषं संजातं तदा मृतास्तु ताः स्त्रियःब्रह्महत्या गुरोर्हत्या सुरापानागमागमाः ॥२३॥भस्मीभूतास्तु संजाता रेवायाः कुब्जया हताःतास्तु हता महाभाग या मृतास्तु सरित्तटे ॥२४॥अष्टषष्टि सुतीर्थानां हंसरूपेण तानि तुसार्द्धं हंसः समायातो विद्धि तं त्वं तु मानसम् ॥२५॥चत्वारः कृष्णहंसाश्च तेषां नामानि मे शृणुप्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम् ॥२६॥वाराणसी चतुर्थी च चत्वारः पापनाशनाःब्रह्महत्याभिभूतानि चत्वारि परिबभ्रमुः ॥२७॥तीर्थान्येतानि दुःखेन तीर्थेषु च महामतेन गतं पातकं घोरं तेषां तु भ्रमतां सुत ॥२८॥कुब्जायाः संगमे शुद्धा विमुक्ताः किल्बिषात्किलतीर्थानामेव सर्वेषां पुण्यानामिह संमतः ॥२९॥राजा प्रयागः संजात इंद्रस्य पुरतः किलतावद्गर्जंतु तीर्थानि यावद्रेवा न दृश्यते ॥३०॥ब्रह्महत्यादि पापानां विनाशाय प्रतिष्ठिताकपिलासंगमे पुण्ये रेवायाः संगमे तथा ॥३१॥मेघनादसमायोगे तथा चैवोरुसंगमेमहापुण्या महाधन्या रेवा सर्वत्रदुर्लभा ॥३२॥सा च ॐकारे भृगुक्षेत्रे नर्मदाकुब्जसंगमेदुःप्राप्या मानवै रेवा माहिष्मत्यां सुरोत्तमैः ॥३३॥विटंकासंगमे पुण्या श्रीकंठे मंगलेश्वरेसर्वत्र दुर्लभा रेवा सुरपुण्यसमाकुला ॥३४॥तीर्थमाता महादेवी अघराशिविनाशिनीउभयोः कूलयोर्मध्ये यत्र तत्र सुखी नरः ॥३५॥अश्वमेधफलं भुंक्ते स्नानेनैकेन मानवःएतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥३६॥सर्वपापापहं पुण्यं गतिदं चापिशृण्वताम्एवमुक्त्वा महाप्राज्ञ तृतीयं पुत्रमब्रवीत् ॥३७॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे द्विनवतितमोऽध्यायः ॥९२॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP