संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ७२

भूमिखंडः - अध्यायः ७२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पिप्पल उवाच-
मातलेश्च वचः श्रुत्वा स राजा नहुषात्मजः
किं चकार महाप्राज्ञस्तन्मे विस्तरतो वद ॥१॥
सर्वपुण्यमयी पुण्या कथेयं पापनाशिनी
श्रोतुमिच्छाम्यहं प्राज्ञ नैव तृप्यामि सर्वदा ॥२॥
सुकर्मोवाच-
सर्वधर्मभृतां श्रेष्ठो ययातिर्नृपसत्तमः
तमुवाचागतं दूतं मातलिं शक्रसारथिम् ॥३॥
ययातिरुवाच-
शरीरं नैव त्यक्ष्यामि गमिष्ये न दिवं पुनः
शरीरेण विना दूत पार्थिवेन न संशयः ॥४॥
यद्यप्येवं महादोषाः कायस्यैव प्रकीर्तिताः
पूर्वं चापि समाख्यातं त्वया सर्वं गुणागुणम् ॥५॥
नाहं त्यक्ष्ये शरीरं वै नागमिष्ये दिवं पुनः
इत्याचक्ष्व इतो गत्वा देवदेवं पुरंदरम् ॥६॥
एकाकिना हि जीवेन कायेनापि महामते
नैव सिद्धिं प्रयात्येवं सांसारिकमिहैव हि ॥७॥
नैव प्राणं विना कायो जीवः कायं विना नहि
उभयोश्चापि मित्रत्वं नयिष्ये नाशमिंद्र न ॥८॥
यस्य प्रसादभावाद्वै सुखमश्नाति केवलम्
शरीरस्याप्ययं प्राणो भोगानन्यान्मनोनुगान् ॥९
एवं ज्ञात्वा स्वर्गभोग्यं न भोज्यं देवदूतक
संभवंति महादुष्टा व्याधयो दुःखदायकाः ॥१०॥
मातले किल्बिषाच्चैव जरादोषात्प्रजायते
पश्य मे पुण्यसंयुक्तं कायं षोडशवार्षिकम् ॥११॥
जन्मप्रभृति मे कायः शतार्धाब्दं प्रयाति च
तथापि नूतनो भावः कायस्यापि प्रजायते ॥१२॥
मम कालो गतो दूत अब्दा प्रनंत्यमनुत्तमम्
यथा षोडशवर्षस्य कायः पुंसः प्रशोभते ॥१३॥
तथा मे शोभते देहो बलवीर्यसमन्वितः
नैव ग्लानिर्न मे हानिर्न श्रमो व्याधयो जरा ॥१४॥
मातले मम कायेपि धर्मोत्साहेन वर्द्धते
सर्वामृतमयं दिव्यमौषधं परमौषधम् ॥१५॥
पापव्याधिप्रणाशार्थं धर्माख्यं हि कृतम्पुरा
तेन मे शोधितः कायो गतदोषस्तु जायते ॥१६॥
हृषीकेशस्य संध्यानं नामोच्चारणमुत्तमम्
एतद्रसायनं दूत नित्यमेवं करोम्यहम् ॥१७॥
तेन मे व्याधयो दोषाः पापाद्याः प्रलयं गताः
विद्यमाने हि संसारे कृष्णनाम्नि महौषधे ॥१८॥
मानवा मरणं यांति पापव्याधि प्रपीडिताः
न पिबंति महामूढाः कृष्ण नाम रसायनम् ॥१९॥
तेन ध्यानेन ज्ञानेन पूजाभावेन मातले
सत्येन दानपुण्येन मम कायो निरामयः ॥२०॥
पापर्द्धेरामयाः पीडाः प्रभवंति शरीरिणः
पीडाभ्यो जायते मृत्युः प्राणिनां नात्र संशयः ॥२१॥
तस्माद्धर्मः प्रकर्तव्यः पुण्यसत्याश्रयैर्नरैः
पंचभूतात्मकः कायः शिरासंधिविजर्जरः ॥२२॥
एवं संधीकृतो मर्त्यो हेमकारीव टंकणैः
तत्र भाति महानग्निर्द्धातुरेव चरः सदा ॥२३॥
शतखंडमये विप्र यः संधत्ते सबुद्धिमान्
हरेर्नाम्ना च दिव्येन सौभाग्येनापि पिप्पल ॥२४॥
पंचात्मका हि ये खंडाः शतसंधिविजर्जराः
तेन संधारिताः सर्वे कायो धातुसमो भवेत् ॥२५॥
हरेः पूजोपचारेण ध्यानेन नियमेन च
सत्यभावेन दानेन नूत्नः कायो विजायते ॥२६॥
दोषा नश्यंति कायस्य व्याधयः शृणु मातले
बाह्याभ्यंतरशौचं हि दुर्गंधिर्नैव जायते ॥२७॥
शुचिस्ततो भवेत्सूत प्रसादात्तस्य चक्रिणः
नाहं स्वर्गं गमिष्यामि स्वर्गमत्र करोम्यहम् ॥२८॥
तपसा चैव भावेन स्वधर्मेण महीतलम्
स्वर्गरूपं करिष्यामि प्रसादात्तस्य चक्रिणः ॥२९॥
एवं ज्ञात्वा प्रयाहि त्वं कथयस्व पुरंदरम्
सुकर्मोवाच-
समाकर्ण्य ततः सूतो नृपतेः परिभाषितम् ॥३०॥
आशीर्भिरभिनंद्याथ आमंत्र्य नृपतिं गतः
सर्वं निवेदयामास इंद्राय च महात्मने ॥३१॥
समाकर्ण्य सहस्राक्षो ययातेस्तु महात्मनः
तस्याथ चिंतयामासानयनार्थं दिवं प्रति ॥३२॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरिते द्विसप्ततितमोऽध्यायः ॥७२॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP