मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे| दक्षाधःकरपल्लवे लसदसिं दक... अन्य देवता स्तोत्रे उमासहस्रम् ॥ श्रीगणेशायनम: । श्रीसरस... श्रीपाद श्रीवल्लभ त्वं सद... अङ्गारकः शक्तिधरो लोहिताङ... अथ कीलकम् ॐ अस्य श्रीकीलक... स्तोत्रदिनमपि रजनी सायं प... नमोऽस्तु नारायणमन्दिराय न... अनंत, वासुकी, शेषं, पद्मन... श्री गणेशाय नमः । ब्रह्मो... श्री यादगिरि लक्ष्मीनृसिं... श्रीमत्पयोनिधिनिकेतनचक्रप... श्रीमत्पयोनिधिनिकेतनचक्रप... सद्गुरुं सच्चिदानन्दं केव... पद्माधिराजे गरुडाधिराजे व... विशुद्धं परं सच्चिदानन्दर... प्रणम्य शिरसा देवं गौरीपु... रविरुद्र पितामह विष्णूनुत... शिव उवाच श्रुणु देवि प्र... श्रीमदनन्त श्रीविभूषित अप... पाण्ड्यभूपतीन्द्र पूर्व प... करिवरानुज कलियुग वरदा वीर... आशानुरूपफलदं चरणारविन्द भ... आशानुरूपफलदं चरणारविन्द भ... लोकवीरं महापूज्यं सर्वरक्... पादारविन्द भक्तलोकपालनैकल... श्रितानन्दचिन्तामणिश्रीनि... अस्य श्री हरिहरपुत्राष्टो... हरिवरासनं विश्वमोहनं हरिध... श्रीदेव्युवाच भगवन् देवदे... भूताधिपं भजे भूताधिपं दिव... पूर्वन्यासः अस्य श्री इन्... करकलितचापबाणां कल्हाराङ्घ... कारणापरचिद्रपा कञ्चीपुरसी... श्रीगुरुचरणसरोजं श्रीकरभव... अनन्तं वासुकिं शेषं पद्मन... हयग्रीव हयग्रीव हयग्रीवेत... ॥ श्रीः ॥ ॐ ब्रह्मर्षिभ्य... करिवरानुज कलियुग वरदा वीर... भूताधिपं भजे भूताधिपं दिव... राजान ऊचुः । गद्यानि । जय... श्रीमदानन्दतीर्थ-भगवत्पाद... कार्तवीर्यार्जुनो नाम राज... कुलाचला यस्य महीं द्विजेभ... ऋषिरुवाच । यमाहुर्वासुदेव... उद्धव उवाच । चेतनं कुरु क... उद्धव उवाच । वन्दे राधापद... श्रीनारायण उवाच । राधा रा... ब्रह्मोवाच । हे मातस्त्वत... राधा रासेश्वरी रम्या कृष्... उद्धव उवाच । वन्दे राधापद... ब्रह्मोवाच । तव चरणसरोजे ... श्री स्कन्द उवाच योगीश्वर... ओङ्कार-नगरस्थं तं निगमान्... ॐ सौं शरवणभवः शरच्चन्द्रा... ॐ श्रीं सौं शरवणभवाय नमः ... ज्ञानशक्तिधरः स्कन्दः देव... पुरहरनन्दन रिपुकुलभञ्जन, ... जय वज्रिसुताकान्त जय शङ्क... षडाननं कुङ्कुमरक्तवर्णं म... विमलनिजपदाब्जं वेदवेदान्त... आदौ विघ्नेश्वर पूजां कृत्... भजेहं कुमारं भवानी कुमारं... शिवयोसूनुजायास्तु श्रितमन... श्रीमन्मेरुधराधराधिप महास... सुब्रह्मण्यं प्रणाम्यहं स... ॐ ह्रीं सां रुद्रकुमाराय ... भक्त सञ्जीवनं भस्म विभूषण... वेङ्कटेशो वासुदेवः प्रद्य... अगणितगुणमप्रमेयमाद्यं सकल... न मन्त्रं नो यन्त्रं तदपि... अनंतसंसारसमुद्रतार-नौकायि... गोविन्दं गोकुलानन्दं गोपा... श्रीविद्ये शिववामभागनिलये... ध्यायेत् हेमांबुजारूढां व... बन्धूकवर्णामरुणां सुगात्र... गौरीं काञ्चनपद्मिनीतटगृहा... अस्य श्री रङ्गराज नामरत्न... नारद उवाच अनायासेन लोकोऽय... नमस्तुलसि कल्याणि नमो विष... राजलक्ष्मीस्थिरत्वाय येथे... मेघाङ्गीं विगताम्बरां शवश... सरस्वति नमस्तुभ्यं वरदे क... भक्तानशोकान्विदधामि शीघ्र... पापिषु प्रथमतो गणनीयं पुण... आसेतुशीतगिरिमध्यनिवासलोका... निदानमनुकम्पायाः पदाधःकृत... ऊँ अस्य श्रीसरस्वतीस्तोत्... गुरुवन्दना- अज्ञानाब्धिनि... रविरुद्रपितामहविष्णुनुतं ... श्वेतपद्मासना देवी श्वेतप... नीहारहारघनसारसुधाकराभां क... मातापितृसहस्राणि पुत्रदार... लोकनाथश्चिदाकारोराजमानः स... ऊँ ह्रीं ऋतं त्वमचलो गुणज... श्रीरामकृष्णप्रणामः स्थाप... सामाख्याद्यैर्गीतिसुमधुरै... घनचेतनमक्रियमादिमजं चिर-न... ब्रह्मरूपमादिमध्यशेषसर्वभ... प्रकृतिं परमामभयां वरदां ... प्रातः स्मरामि जगतो भव-भा... ब्रह्मयुक्तनित्यशक्तिसृष्... नमस्ते सते सर्वलोकाश्रयाय... सुनिर्मलज्ञानसुखैकरूपंप्र... मत्तरोगशिरोपरिस्थितनृत्यम... शंखं चक्रं गदाम् च क्षयित... हृदयकमलमध्ये राजितं निर्व... गुरुर्ब्रह्मा गुरुर्विष्ण... नमस्ते ललिते देवि श्रीमत्... ध्यायेच्चित्तसरोजस्थां सु... कान्तस्ते पुरुषोत्तमः फणि... गुरुतीर्थपयोब्धिपारा कामा... पूज्याय राघवेन्द्राय सत्य... किरातवराह ऋषिः अनुष्टुप् ... महिम्नस्तेऽपारं सकलसुखसार... ध्यानम् अतिमधुरचापहस्तां ... आशीविषविषविषमैः निमिषोन्म... हंसाय भुवनध्वान्तध्वंसाया... श्रीमान् वेङ्कटनाथार्यः क... कस्तूरीपङ्कभास्वद्गलचलदमल... देवा ऊचुः ब्रह्मणे ब्रह्म... नमो हिरण्यगर्भाय ब्रह्मणे... गुरुर्बृहस्पतिर्ज्जीवः सु... मङ्गलो भूमिपुत्रश्च ऋणहर्... चन्द्रस्य शृणु नामानि शुभ... गणेशविष्णुसूर्येशदुर्गाख्... पापानि यानि रविसूनुपटस्थि... श्रितानन्द चिन्तामणि श्री... रत्नावलीनिर्मितशैलशृङ्गवि... हरे राम हरे राम राम राम ह... अद्भुतविग्रह अमराधीश्वर अ... करुणावरुणालय सर्वपते तरुण... श्रीसूर्यध्यानम् रक्तांबु... आयुर्बलं यशोवर्चः प्रजाः ... ग्रहाणामादिरादित्यो लोकरक... जगद्धात्रि नमस्तुभ्यं विष... ब्रह्मादयः सुरगणा मुनयोऽथ... त्वमेकः शुद्धोऽसि त्वयि न... जगदीश सुधीश भवेश विभो परम... श्रीभगवानुवाच – बृंदा रू... वृत्तोत्फुल्लविशालाक्षं व... देवताकार्यसिद्ध्यर्थं सभा... स्वादयन्निह सर्वेषां त्रय... श्रीमान् वेङ्कटनाथार्यः क... नित्यानन्दकरी वराभयकरी सौ... कल्य़ाणरूपाय कलौ जनानां क... श्रियः कान्ताय कल्याणनिधय... वेङ्कटेशो वासुदेवः वारिजा... कमलाकुचचूचुककुङ्कुमतो निय... अंबरगंगाचुंबितपादः पदतलवि... ततो युद्धपरिश्रान्तं समरे... मम न भजनशक्तिः पादयोस्ते ... ऒमित्येतद्यस्य बुधैर्नाम ... कैलासे कमनीयरत्नखचिते कल्... काञ्चीनूपुररत्नकङ्कणलसत्क... मूलाम्भोरुहमध्यकोणविलसत् ... आधारभूते चाधेये धृत... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... शम्भो महादेवदेव शिवशम्भो ... प्रातः स्मरामि परमेश्वर-व... स्फुरत्सहस्रारशिखातितीव्र... वेङ्कटॆशो वासुदेवः वारिजा... श्रियः कान्ताय कल्याणनिधय... अहॊबिलं नारसिंहं गत्वा रा... श्रीमत् पयोनिधिनिकेतन चक्... सप्तप्राकारमध्ये सरसिजमुक... हरिर्हरतिपापानि दुष्टचित्... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... आदित्यादिप्रभृतिकमिदं चक्... न भूमिर्न तोयं न तेजो न व... मन्दस्मितं स्फुरितमुग्धमु... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... सुवक्षोजकुम्भां सुधापूर्ण... शारदा शारदाम्भोजवदना वदना... या कुन्देन्दुतुषारहारधवला... वेदपादस्तवं वक्ष्ये देव्य... मूषिकवाहन मोदकहस्त चामरकर... श्रीविद्ये शिववामभागनिलये... न मन्त्रं नॊ यन्त्रं तदपि... का त्वं शुभे शिवकरे सुखदु... कमाक्षिमातर्नमस्ते कामदान... नित्यानन्दकरी वराभयकरी सौ... आधारभूतेचाधेये धृतिरूपे ध... माणिक्यान्ञ्चितभूषणां मणि... काञ्चीनूपुररत्नकङ्कणलसत्क... अयिगिरिनन्दिनि नन्दितमेदि... माता नृसिंहः पिता नृसिंहः... श्रीमदानन्दतीर्थाय कल्याण... श्रीविद्ये शिववामभागनिलये... वन्दे नवघनश्यामं पीतकौशेय... ईश्वरः परमः कृष्णः सच्चिद... ध्यानम् चक्रं विद्या वर घ... श्रीशं कमलपत्राक्षं देवकी... बुधो बुद्धिमतां श्रेष्ठो ... अनुष्टुप् छन्दः शत्रुनिवा... भगवान् ऋषिः अनुष्टुप् छन्... मेघाङ्गीं विगताम्बरां शवश... अगणितगुणमप्रमेयमाद्यं सकल... सल्लोका विषयविरागिणो यदर्... हृदयकमलमध्ये राजितं निर्व... श्रीरामकृष्णगुरुदेवनिबद्ध... श्री देवी प्रथमं नाम द्वि... (शृङ्गेरि श्रीजगद्गुरु श... करोतु पदविन्यासान्कमलासनक... हेलया रचितचित्रविष्टपां च... भक्तानशोकान्विदधामि शीघ्र... निदानमनुकम्पायाः पदाधःकृत... श्वेतपद्मासना देवी श्वेतप... मातापितृसहस्राणि पुत्रदार... मातः समस्तजगतां परमस्य पु... श्रीरामकृष्णसहधर्मिणी भव्... ब्रह्मयुक्तनित्यशक्तिसृष्... आदिलक्ष्मि नमस्तेऽस्तु पर... ज्ञानानन्दामलात्मा कलिकलु... देवि सुरेश्वरि भगवति गङ्ग... ध्यायेच्चित्तसरोजस्थां सु... १. धनलक्ष्मी: या देवी सर... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... प्रणेतारः रामभद्राचार्याः... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... कस्तूरीपङ्कभास्वद्गलचलदमल... कामाक्षि देव्यंब तवार्द्र... श्री माधवी काननस्थे गर्भ... नमो देव्यै महादेव्यै सिद्... समुन्मीलन्नीलांबुजनिकरनीर... नमःशिवायै गंगायै शिवदायै ... श्रुत्वा गुणान् भुवनसुंदर... नित्यानन्दकरी वराभयकरी सौ... मयि कुरु मङ्गलमंबुजवासिनि... नित्याभूषा निगमशिरसां निस... आदिलक्ष्मीः द्विभुजाञ्च ... माणिक्यवीणामुपलालयन्तीं म... मम न भजनशक्तिः पादयोस्ते ... उषसि मागधमंगलगायनै- र्झटि... श्रीमत् कमलापुर कनकधराधरव... इत्थं नवनीरदनिर्गत-संस्फु... इत्थं दानवेन्द्रः हिरण्यक... काञ्चीनूपुररत्नकङ्कणलसत्क... आधारभूते चाधेये धृतिरूपे ... लीलालब्धस्थापितलुप्ताखिलल... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... सिन्दूरारुणकान्तिमब्जवसति... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... शृंगाद्रिवासाय विधिप्रिया... सुवक्षोजकुम्भां सुधापूर्ण... घोररूपे महारावे सर्वशत्रु... वेदपादस्तवं वक्ष्ये देव्य... लीलालब्धस्थापितलुप्ताखिलल... षडाधारपङ्केरुहान्तर्विराज... माणिक्यान्ञ्चितभूषणां मणि... नमो देव्यै प्रकृत्यै च वि... अष्टौ भुजाङ्गीं महिषस्यमर... श्रीशुक उवाच- विलोक्य दूष... गोविन्दं गोकुलानन्दं गोपा... भवानि स्तोतुं त्वां प्रभव... नन्दः पथि वचः शौरेर्न मृष... श्रीमते निगमान्तदेशिकाय न... नमः पन्नगनद्धाय वैकुण्ठवश... माता नृसिंहः पिता नृसिंहः... वेङ्कटेशो वासुदेवः प्रद्य... श्रीशंभो! मयि करुणाशिशिरा... नमः शिवाय पूर्णाय पूर्णमङ... दैवासुरैर्भावगणैरजस्रं प्... भक्तरक्षात्तदीक्ष, प्रोच्... श्रीसत्यसायिभगवन्, नरकान्... मृत्युञ्जयपुष्पाञ्जलिः कृष्णे गोकुलवासमुज्झितवति... शबलशिखण्डिशिखण्डकमण्डितहा... श्यामाभिरामशरणीकरणीयमूर्त... राजलक्ष्मीस्थिरत्वाय येथे... अद्राक्षमव्याजकृपामपारां ... पापिषु प्रथमतो गणनीयं पुण... श्रीराजमान मुखनिर्गतदिव्य... अनन्तोवासुकिः शेषः पद्मना... ॐकारवेद्यः पुरुषः पुराणो ... नमस्ते सते सर्वलोकाश्रयाय... नमस्ते ललिते देवि श्रीमत्... श्रीपूर्णबोध गुरुतीर्थपयो... पूज्याय राघवेन्द्राय सत्य... इन्द्रः श्लोकः ऐरावतगजा... आशीविषविषविषमैः निमिषोन्म... श्रीनीलकण्ठ गिरिजेश सुरेश... अचिकित्सचिकित्साय आद्यन्त... श्रीमान् वेङ्कटनाथार्यः क... मनः समाधौ परमार्थरङ्गं वि... नमो हिरण्यगर्भाय ब्रह्मणे... उत्थिष्ठ कृष्ण गुरुवायुपु... मङ्गलो भूमिपुत्रश्च ऋणहर्... पञ्चदेवतास्तोत्रम् पाण्ड्यभूपतीन्द्रपूर्वपुण... आशानुरूपफलदं चरणारविन्द- ... भगवत्स्तुतिः सन्मात्ररूपि... ॐ श्रीमदखिलाण्डकोटि ब्रह्... श्रीमदानन्दतीर्थाय कल्याण... हरे राम हरे राम राम राम ह... श्रीमान् वेङ्कटनिथार्यः क... इन्द्रद्युम्न उवाच । यज्ञ... शतानीक उवाच – महामते महाप... जनमेजय उवाच - शरतल्पेशया... अद्भुतविग्रह अमराधीश्वर अ... गतिगञ्जितमत्ततरद्विरदं रद... करुणावरुणालय सर्वपते तरुण... प्रातः स्मरामि तत्सवितुर्... स्कंद उवाच - योगीश्वरो मह... ॐ सर्वे वै देवा देवीमुपतस... दक्षाधःकरपल्लवे लसदसिं दक... आयुर्बलं यशोवर्चः प्रजाः ... दाल्भ्य उवाच- कार्यारंभे... वाणीं जितशुकवाणीं अलिकुलव... जगदीश सुधीश भवेश विभो परम... अहं मद्रक्षणभरो मद्रक्षणफ... स्वादयन्निह सर्वेषां त्रय... ईश्वर उवाच- वृत्तोत्फुल्... स्वादयन्निह सर्वेषां त्रय... श्रीपराशर भट्टार्यः श्रीर... चिदचित्परतत्त्वानां तत्त्... देवो नश्शुभमातनोतुदशधा नि... श्रीवत्सचिह्नमिश्रेभ्यो न... वन्देऽहं वरदार्यं तं वत्स... श्रीशैलेशदयापात्रं धीभक्त... हेमाद्रिशिखराकारं शुद्धस्... ईशानां जगतोऽस्य वेङ्कटपते... कौसल्या सुप्रजा राम पूर्व... भज गोविन्दं भजगोविन्दं गो... दशकम् २४ हिरण्याक्षे पो... प्रथमं दशकम् त्वत्भक्तवर... हारनूपरकिरीटकुण्डलविभूषित... वन्दे मुकुन्दमरविन्ददलायत... पुरस्तात् केशवः पातु चक्र... स्फुरत्सहस्रारशिखातितीव्र... अहोबिलं नारसिंहं गत्वा रा... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... जयति तेऽधिकं जन्मना व्रजः... न भूमिर्न तोयं न तेजो न व... कृपासमुद्रं सुमुखं त्रिने... रुद्रं पशुपतिं स्थाणुं नी... सत्यं ब्रवीमि परलोकहितं ब... हे स्वामिनाथार्तबन्धो भस्... किं नाहं पुत्रस्तव मातुः ... मूषिकवाहन मोदकहस्त चामरकर... कल्याणवृष्टिभिरिवामृतपूरि... कल्लोलोल्लसितामृताब्धिलहर... हारनूपरकिरीटकुण्डलविभूषित... आर्यासाहस्री नीलकन्ठ- वाहनं द्विषद्भुज... हे मातस्त्वत्पदाम्भोजं दृ... षष्टिवर्षसहस्राणि दिव्यान... तव पूजा जगन्मातर्लोकशिक्ष... एवमेव प्रियोऽहं ते प्रमोद... त्वं देवी जगतां माता विष्... तव चरणसरोजे मन्मनश्चरीको ... त्वं देवी जगतां माता विष्... श्री नारद उवाच अनायास... जगद्धात्रि!नमस्तुभ्यं विष... प्रातः स्मरामि हृदि संस्फ... भक्तामर- प्रणत- मौलिमणि- ... हयग्रीव हयग्रीव हयग्रीवेत... ॥ शांतिपाठः ॥ ॐ यो ब्रह... अपासकानां यदुपासनीयमुपात्... मूलेवटस्य मुनिपुङ्गवसेव्य... ॐमित्येतद्यस्य बुधैर्नाम ... ध्यानम् चन्द्रार्काग्नि... शम्भो महादेव देव शिव शम्भ... कैलासे कमनीयरत्नखचिते कल्... एवमारध्य गौरीशं देवं मृत्... श्रीगणेशाय नमः ॥ जय देव... श्रीगणेशाय नमः ॥ एकं ब्... श्रीगणेशाय नमः ॥ ॐ अस्य ... श्रीगणेशाय नमः ॥ विश्वं... श्रीगणेशाय नमः ॥ यं विज्... इंदुकोटि तेजकीर्ण सिंधुभक... यस्य नाम श्रुतेः सद्यो मृ... वेदो नित्यमधीयतां तदुदितं... वेदान्तवाक्येषु सदा रमन्त... निरुपमनित्यनिरंशकेऽप्यखण्... लब्धा विद्या राजमान्या तत... तपोयज्ञदानादिभिः शुद्धबुद... पुरे पौरान्पश्यन्नरयुवतिन... मनोबुद्ध्यहंकारचित्तानि न... अहं नामरो नैव मर्त्यो व द... स्तोष्ये भक्त्या विष्णुमन... किं ज्योतिस्तव भानुमानहनि... सकृच्छ्रवणमात्रेण ब्रह्मज... विदिताखिलशास्त्रसुधाजलधे ... मत्प्रियसखि मज्जिव्हे मय्... स्नातं तेन समस्ततीर्थसलिल... उद्धव उवाच । चेतनं कुरु... श्रीनारायण उवाच । राधा ... ब्रह्मोवाच । हे मातस्त्... ॥ अथ ब्रह्मेशशेषादिकृतम् ... राधा रासेश्वरी रम्या कृष्... महेश्वर उवाच । श्रीजगन्... सनत्कुमार उवाच - किं त्... नमस्तस्मै भगवते चैतन्याय ... महासाहसवृत्त्य स्वरूपलाभः... श्री गणेशाय नमः । श्री ... षडाननं चन्दनलेपिताङ्गं मह... सदा बालरूपाऽपि विघ्नाद्रि... उद्यदादित्य संकाशं उदार भ... ऋषय ऊचुः - सर्वशास्त्रा... श्रीपादसप्ततिः - दक्षाधःकरपल्लवे लसदसिं दक... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessstotraदेवतादेवीस्तोत्र श्रीपादसप्ततिः Translation - भाषांतर दक्षाधःकरपल्लवे लसदसिं दक्षोर्ध्वगे शूलिनींवामोर्ध्वे फलकोज्ज्वलां कटितटन्यस्तान्यहस्तांबुजाम्शूलाग्राहतकासरासुरशिरोनिष्ठां प्रहृष्टां सुरैर्जुष्टामिष्टफलप्रदां भगवतीं मुक्तिस्थलस्थां भजे ॥१॥यत्संवाहनलोभिनः शशिकलाचूडस्य हस्तांबुज-स्पर्शेनापि च लोहितायति मुहुस्त्वत्पादपङ्केरुहम् ।तेनैवोद्धतकासुरासुरशिरश्शृंगाग्रसञ्चूर्णन-प्राचण्ड्यं तदनुष्ठितं किल कथं मुक्तिस्थलस्थे शिवे! ॥२॥त्वत्पादं निजमस्तके घटयितुं के के नुलोकेजनाःकिं किं नारचयन्ति दुश्चरतपश्चर्यासपर्यादिकम् ।मन्ये धन्यतमं तु देवि! महिषं वैरस्थयैव त्वयायन्मूर्ध्नि स्वयमेव पातकहरं पादांबुजं पातितम् ॥३॥त्वत्पादांबुजमर्पितं क्व नु शिवे! किं नु त्रयी मस्तके?नित्यं तत्त्वविचारदत्तमनसां चित्तांबुजाग्रेषु वाकिं वा त्वत्प्रणयप्रकोपविनमन्मारारिमौलिस्थले?किं प्रोत्खण्डितघोरसैरिभमहादैत्येन्द्रमूर्धान्तरे ॥४॥त्वत्पादाञ्चलरूपकल्पलतिकाबालप्रवालद्वयंये तावत् कलयन्ति जातु शिरसा नम्रेण कम्रोज्ज्वलम् ।तेषामेव हि देवि! नन्दनवनक्रीडासु लभ्यं पुनःस्वर्वल्लीतरुणप्रवालभरणं सेवानुरूपं फलम् ॥५॥धावल्यं परिलाल्यते पुररिपोरंगेन तुंगश्रियाकिञ्च श्यामलिमापि कोमलतरे भात्येव गात्रे हरेः ।तत्तादृक्पदवीं ममापि जनयेत्यस्तोकसेवारसा-दारुण्यं तव लीयते चरणयोः कारुण्यमूर्ते शिवे! ॥६॥आरुण्यं यदिदं त्वदीयपदयोराभाति, तत् केचनप्राहुस्तुङ्गनितंबभारभरणक्लान्त्या किलोपागतम् ।अन्ये माहिषमूर्धपेषमिलितं रक्तद्रवं मन्वतेमन्येहं तु नतेषु सान्द्रमनुरागोत्गारमेवानयो: ॥७॥प्राहुः पद्मसमाश्रयं शतधृतिं त्वत्पादपद्माश्रया-दन्तस्त्वत्पदपद्मवीक्षणवशात् कृष्णोऽपि पद्मेक्षणः ।यत् पद्मार्चनमामनन्ति सुधियो दारिद्र्यविद्रावणंमुक्तिक्षेत्रगते! भवानि! तदपि त्वत्पादपद्मार्चनम् ॥८॥पादं ते सरसीरुहद्रुहमिमं यत्सेवते पद्मभू-र्नूनं तत् स्वनिवासपंकजवरश्रीलंघनाशंकया ।गोविन्दोऽपि च वारिराशिदुहितुर्वासाब्जबाधाभियास्वस्यैवाग्रकरोत्गृहीतकमलत्राणाभिलाषेण वा ॥९॥सेवन्ते कुलसंपदे नखमयाः शीतांशवस्त्वत्पदंतत्पाकोननु वीक्ष्यते हि नितरामन्येषु शीतांशुषु ।एको बालक एव मौलिमयि! ते यातो, ललाटात्मता-मन्यो, निर्मलगण्डमण्डलदशामन्यौ तु धन्यौ गतौ ॥१०॥घोरं पादसहस्रकं प्रकटयन्नाशासु भासां पतिर्-ध्वान्तं नो पुनरान्तरं शमयितुं शक्नोति शैलात्मजे ।त्वत्पादद्वितयेन कोमलतरेणानेन चेतःस्पृशाजन्तूनां बहिरन्तरन्धतमसं कृन्तत्यनन्तं शिवे ॥११॥सूर्येन्द्वग्निसमीरणादिसकलस्वर्वासिनामुन्मदःसर्वाण्येव पदानि यो मथितवान् दुर्वारशौर्योष्मणा ।तं घोरं महिषासुरं निजपदेनैकेन सम्मृद्नतीयत्त्वं प्रत्यकृथा स्ततः किमपरं त्वद्वैभवं ब्रूमहे ॥१२॥एकं वामतयैव, दक्षिणतयैवान्यत्, पदं देहिनांख्यातं मुक्तिपुराधिवासिनि! शिवे!, चित्रं त्वयि त्वीदृशं ।आनम्रेषु जनेष्वभीष्टकरणे पादावुभौ दक्षिणा-वानम्रे तु कृतागसि स्मरहरे वामाक्षि! वामावुभौ ॥१३॥आनम्रस्य पुरद्रुहः शिरसि ते पादाब्जपातः शिवे!जीया, द्येन बभूव पंकजवती मौलिस्रवन्ती क्षणं ।किञ्चोदञ्चितबालपल्लववती जाता जटावल्लरीलाक्षापातवशेन सान्ध्यसुषमा सान्द्रा च चान्द्री कला ॥१४॥दृष्ट्वा रात्रिषु चन्द्रपादजनितां पाथोरुहाणां व्यथांदेवि त्वं करुणाकुलेव कुरुषे तद्वैरनिर्यातनम् ।मानानम्रमहेशमौलिवलभीवासस्य शीतत्विषोनित्यं पङ्कजपादघातजनिता बाधा यदाधीयते ॥१५॥संभ्रान्तिस्तव देवि! सा विजयते मानावनम्रे शिवेत्वत्पादांबुरुहप्रहारमुदिते मन्दं समुत्थायिनि ।लक्षारागरसारुणं निपतितं गंगापयश्शीकरंदृष्ट्वा शोणितशङ्कया तरलिता कान्तं यदालंबथाः ॥१६॥सापादद्वितयाहतिर्जयति ते, यस्यां गिरीन्द्रात्मजे!प्राचीनेन्दुयुते नवेन्दुदशके मौलिस्थलीसंगतेस्वस्यैकादशमूर्तितासमुचितानैकादशैवोडुपा-नाबिभ्राण इवाबभौ स भगवानेकोऽपि रुद्रः स्वयम् ॥१७॥किं वैरिञ्चकरोटिकोटिनिहतं किं वा फणिग्रामणी-निश्वासानिलखेदितं न्विदमिति प्रेमार्द्रसंलापिना ।मानस्योपशमे करेण शनकैरामृद्नता शंभुनाभूयश्चुंबितमंबुजद्युतिपदं ध्यायामि माये तव ॥१८॥पूर्वं जह्नुसुता सकृन्मुररुपोः श्रीपादसंक्षालना-पुण्यादीदृशवैभवा समभवत् गोविन्दवन्द्ये! शिवे! ।सेयं संप्रति शंभुमौलिनिलया मानप्रसंगानतौनित्यं त्वच्चरणावसेचनभुवा पुण्येन कीदृग्भवेत् ॥१९॥पूर्वं व्याकरणप्रपञ्चनविधौ लब्ध्वाप्यनेकं पदंकिं नो तृप्तिमगादगाधिपसुते! शेषः फणिग्रामणीः ।आलीनः शशिमौलिमूर्धनि चिरं प्रेमप्रकोपानतौलब्धुं ते पदमेकमेव कुतिकी नित्यं यतो वर्तते ॥२०॥तिष्ठन्त्यां प्रणयप्रकोपवशतो बाष्पाकुलाक्ष्यां त्वयिश्रीकण्ठे नखदर्पणप्रतिफलद्रूपे पुरोवर्तिनि ।पादाग्रे पतितोयमित्यभिहिते सख्या, तवालोकनंलोलं पादतले विभाति सहसा साकोपमालीमुखे ॥२१॥कान्तालोकनलज्जया विनमिते कान्ते मुखांभोरुहेयासौ भूतलपातुका नयनयोः शोभा तवाभासते ।सा तावत्तरुणारुणांबुजयुगभ्रान्त्या त्वदंघ्रिद्वय-प्रान्ते भाति मरन्दपानकुतुकभ्रान्तेव भृङ्गावली ॥२२॥किं ब्रूमः कुटिलात्मकोपि कबरीभारस्त्वदीयः शिवे!केलीविश्लथितस्तनोति यदयं त्वत्पादसंस्पर्शनम् ।तत् भूयः सुमनोगणादृतगुणस्त्वन्मौलिसंलाल्यतांधत्ते चित्रमसौ, त्वदंघ्रिभजनात् किं केन नो लभ्यते ॥२३॥रागद्वेषमुखा हि विभ्रमभरा नश्यन्ति विश्वेश्वरि!त्वत्संगादिति मुक्तिदेशनिलये! मिथ्या जनैः कथ्यते ।उद्यद्द्वेषमुदारविभ्रमभरं गात्रं दधत्या त्वयारागोपि ध्रियतेऽधिकं चरणयोः शोणांबुजच्छाययोः ॥२४॥देवि! त्वत्पदसत्परागमनिशं मौलौ समाबिभ्रतांसाधूनामपरागतैव भवतीत्याश्चर्यमास्तामिदं ।पादस्ते नखरप्रभाबलसितो जागर्ति सोयं पुन-श्चित्रं नाम खरप्रभावलसितो दुष्टासुरं पिष्टवान् ॥२५॥द्वित्वेन स्थितत्योस्त्वदीयपदयोर्द्वैतं निरस्य स्फुटंकैवल्यप्रतिपादने कुशलता जातेति कोऽयं क्रमः ।किं वा युक्तिभिरत्र, मुक्तिकरता व्यक्तैव ते पादयोर्-मुक्ता एव हि विस्फुरन्ति विमलास्तत्संगिनोऽमी नखाः ॥२६॥पादाग्रं तव कामदं सुरलताशाखाग्रमाचक्ष्महेजाता यत्र हि बालपल्लवरुचिः स्वैरेव रागोदयैः ।उत्सर्पन्नखमण्डलीसुषमया पुष्पालिरुत्पादितासञ्जातालिरुतिश्च मञ्जुलतरैर्मञ्जीरशिञ्जारवैः ॥२७॥देवीयं तव सन्नतेशमकुटस्वर्लोककल्लोलिनी-कल्लोलाहतिभिर्विशेषविमला जीयान्नखश्रेणिका ।यद्धावल्यमवाप्तुमात्तकुतुकास्तोये तपस्यन्त्यमीदीनाः फेनकणाश्च मौक्तिकगणाः शंखाश्च शंकामहे ॥२८॥माने शंभुशिरःप्रहारचरितं नैव त्वदिच्छाकृतंजाने देवि! पदाब्जयोस्तु पुरजिन्मूर्ध्ना विरोधादिदम् ।एते पादनखांशुबद्धकलहाः शीतांशुमन्दाकिनी-भोगीन्द्राः किल शङ्करस्य शिरसा शङ्कां विना रक्षिताः ॥२९॥देवि! त्वच्चरणोच्च्लन्नखघृणिश्रेणीषु लीनो नम-न्नाभाति स्फटिकाचलस्फुटतटीशायीव सायन्नटः ।हंसालीन इव स्वयं कमलभूः, क्षीराब्धिशायीव चश्रीभर्ता मघवापि नाकसरिति स्नायन्निवालोक्यते ॥३०॥डोलाकेलिविधौ हिमाचलशिलादेशे समभ्याहतात्पादाग्रात्तव यानि यावकरसप्रस्यन्दनान्यंबिके! ।तान्यभ्यागतसुंभसंगरभवद्रक्तांबुविस्तारणा-बिन्दुक्षेपनिभानि नन्ददमरीवन्द्यानि वन्दामहे ॥३१॥डोलाकेलिषु यं हिमाचलशिलालग्नं वनेवासिनोभक्त्या योगिवरास्त्रिपुण्ड्रकलिते लिम्पन्ति फालान्तरे ।यं सिद्धप्रमदाः समेत्य तिलकं कुर्वन्ति नत्वा मुहु-स्तं दाक्षायणि! ते कदा नु पदयोरीक्षेय लाक्षारसम्? ॥३२॥देवि! त्वं मुरवैरिणः प्रणमने यत्किञ्चिदाकुञ्चय श्रीपादांबुज, मन्यथास्य शिरसि त्वत्पादलाक्षाञ्चिते ।श्रीभूम्योरितरप्रणामकृतमित्यन्योन्यमाशङ्कयारोषव्याकुलयोश्चिरं स भगवान् जायेत पर्याकुलः ॥३३॥प्रागुद्वाहविधौ हिमाचलसदस्यश्माधिरोपाय य-’न्न स्प्रक्ष्यामि वियद्धुनी’ मिति पुनः सत्यं विधातुं च यत् ।दैत्योक्षेपणसाहसे विरचिते संवाहनार्थं च यत्तत् पादग्रहणत्रयं विजयते शर्वेण शर्वाणि! ते ॥३४॥सुंभस्ते किल देवि! रागकलहे पादप्रहारोत्सवंलब्धुं कांक्षितवा,नुपायमिह खल्वज्ञो न विज्ञातवान् ।यद्यायोत्स्यत घोरमाहिषवपुर्धारी स वैरी, ततःप्राघानिष्यत मूर्ध्नि कोमलरुचा पादारविन्देन ते ॥३५॥आनम्रे गिरिशे पदप्रहरणे दत्ते भवत्या रुषा“नाथे! किं महिषोह” मित्यभिहिते देवेन तस्मिन् क्षणे ।आलिष्वाकुलितस्मितासु, पुनरप्युद्दामपुष्यद्रुष-स्तन्मौलौ जयति द्वितीयमपि ते पादाब्जसंताड नम् ॥३६॥पादाग्रं तव संगरश्रमवशादाक्षारिलाक्षारसंविन्यस्तं मृगनायकोपरि चिराज्जीयादगेन्द्रात्मजे ।यत्कान्त्यैव च लोहितो मृगपतिर्दैत्यप्रहारोत्गल-द्रक्तांभःकणिका वहन्नपि तथा नामानि वैमानिकैः ॥३७॥“नैवालिम्प निलिम्पमूर्धसु, न वा सिंहोपरि त्यज्यतांमा चेदं महिषस्य मूर्ध्नि रभसादालिप्य लोलुप्यतां ।पत्युर्मौलिनदीजले परमिदं संक्षालनीयं त्वये”-त्यालीकेलिगिरो जयन्ति गिरिजे! त्वत्पादलाक्षार्पणे ॥३८॥नत्वैव प्रथमं त्वदंघ्रिकमलं तौ पुष्पवन्तावुभौत्रैलोक्यं महसाभिभूय चरतो व्योमान्तरप्रान्तरे ।नाथे! तौ कथमन्यथा परिगलद्लाक्षारसक्षालितौवीक्ष्येते भृशशोणबिंबमुदयारंभे प्रियंभावुकौ ॥३९॥त्रैलोक्यं वशयन्ति पापपटलीमुच्चाटयन्त्युच्चकै-र्विद्वेषं जनयन्त्यधर्मविषये प्रस्तंभयन्त्यापदः ।आकर्षन्त्यभिवाञ्छितानि महिषस्वर्वैरिणॊ मारणा-श्चित्त्रं! त्वत्पदसिद्धचूर्णनिवहाः षट्कर्मणां साधकाः ॥४०॥किं कल्पद्रुमपञ्चकं प्रणमतामाकांक्षितापादनेकिं पञ्चायुधबाणपञ्चकमिदं मारारिसंमोहने ।सूक्ष्मं किञ्चन पञ्चभूतवपुषो विश्वस्य किं कारणंत्वत्पादाङ्गुलिपञ्चकात्मकमिदं किं भाति शंभोः प्रिये ॥४१॥डोलाकेलिषु दूरदूरगमने प्रेङ्खोलनाविभ्रमेमेदिन्यामनिपातितं जयति ते नाथे! पदांभोरुहम् ।भक्त्या सन्नमतां त्वदाननगलत्गानामृतामूर्च्छयाभूपृष्ठे चिरशायिनां दिविषदामाघट्टनासाध्वसात् ॥४२॥मञ्जीरप्रसरन्मसारसुषमारूपा कलिन्दात्मजास्वच्छ्च्छायनखांशुसञ्चयमयी गंगा च संगामुका ।शोणः पादरुचां चयश्च मिलितो येन त्वदग्रे, ततोमज्जन्तीव नमन्ति तत्र मुनयः सर्वेऽपि शर्वाङ्गने ॥४३॥मञ्जीरार्पितशक्रनीलशकलश्रीचञ्चरीकाञ्चितंराजद्रेणुविभूषितं परमहंसालीभिरासेवितम् ।त्वत्पादाग्रसरोजमङ्गुलिदलच्छायाभिराभासुरंविष्वग्रोचिनखांशुजालपयसि स्वच्छे समुच्छोभते ॥४४॥मञ्जीरस्वनमञ्जुविष्किररवे तत्संगिनीलोपल-च्छायारूपतमोलवे नखमिषादक्षीणतारागणे ।सन्ध्यारागनिभस्वकान्तिपटले त्वत्पादमूलात्मक-प्रत्यूषोपगमे हि देवि! लभते लोकः प्रबोधोदयम् ॥४५॥विद्यामुक्तिरमावधूषु नितरां कामातुरा मानवा-स्तप्तास्त्वन्नखकान्तिचन्दनरसैरालिप्य गात्रं निजं ।त्वत्पादाब्जरुचिप्रवालनिचिते भूमीतले शेरतेनित्यं देवि! भवत्कृपाप्रियसखीविश्वासतः केवलम् ॥४६॥मञ्जीरक्वणितैः क्षिपन्निव मुहुः श्रीमन्नखांशूत्गमैर्दैत्येन्द्रं प्रहसन्निवारुणरुचा रुष्यन्निवास्मै भृशम् ।धीरायां त्वयि निर्विकारमनसि त्वत्पाद एव स्फुटंपुष्णन् वैरिविकारमेष महिषध्वंसी परित्रायताम् ॥४७॥क्षिप्रं देवि शिरस्पदेन महिषं पिष्ट्वा ततोऽधः पदंदित्स्यन्त्यांत्वयिकण्ठभञ्जनभिया कण्ठीरवे विद्रुते ।मेदिन्यामपिभीतिकंपिततनौप्रेमत्वराशालिनाशर्वेणैवनिजाङ्कसीम्निनिहितं पादद्वयं ते जयेत् ॥४८॥पुर्वंदेवि!पदांबुजेन महिषप्रध्वंसनाभ्यासतःपश्चात् कुत्सितसुम्भदैत्यविजयोप्येवंकृतःकिं त्वया?नो चेत् भातिकथं कुसुंभविजयी पादाब्जदेशोऽयमि-त्यालापे गिरिशस्य तद्विजयते मन्दस्मितं देविते ॥४९॥“बिभ्राणेन मनोज्ञयावकरसं मञ्जुध्वनन्नूपुर-श्लेषालंकृतिशालिना नखमणीजातप्रसादश्रिया ।एकैनेव पदेन देवि! महिषध्वंसे महीयस्तरःश्लोकोऽयं रचितस्त्वये” तिविबुधाः संश्लाघनं कुर्वते ॥५०॥त्वं शंभोर्महिषीभवस्यगसुते! तेनोपहासायतेदैत्योऽयंमहिषीभवन्नुपगतःसोऽयं कथं क्षम्यते ।इत्थं नूपुरनिस्वनैरिव वदन् पादस्त्वदीयो रुषा शस्त्रप्रग्रहणात्पुरैव महिषं पिष्णन् परित्रायताम् ॥५१॥देव्या पङ्कशयोऽद्य कोऽपि महिषच्छद्मामहान् कण्टकः पादेनाहत इत्युदूढहसितं सख्या समावेदिते ।सद्यः कण्टकशालिना करतलेनासाद्यपादांबुजं गृह्णन्नार्तिविनोदनाय गिरिशो जीयात् प्रियस्तेशिवे ॥५२॥त्वत्पादाङ्गुलिपल्लवैरगसुते ! देवि! स्वयं पञ्चभिःपञ्चत्वं गमितो महासुर इति स्वात्मानुरूपंकृतं ।एतैरेव नतो जनस्त्रिदशतां नीतो महेशः पुनर्-लक्षत्वं गमितः प्रसूनधनुषो विस्मापनं तत् द्वयम् ॥५३॥ब्राह्मं माघवनं च वाहनमहो मन्दैर्गतैर्निन्दितंधावल्येन नखत्विषां विहसितो वाहोऽपि माहेश्वरः ।इत्थं वाहनवैरितां भजति ते पादस्ततो मन्महेकात्यायन्यमुना न्यघानि महिषः कार्तान्तवाहभ्रमात् ॥५४॥सीमन्तप्रकरेसुरेन्द्रसुदृशां सिन्दूररेखात्मनामाणिक्यद्युतिसंज्ञयैव मकुटीकोटीषु दैत्यद्रुहां ।शंभोर्मूर्ध्निजटाघटारुणरुचिव्याजेन पादप्रभै-वैका ते परिणाममेति करुणामूर्ते! गिरीन्द्रात्मजे! ॥५५॥नो केशः परमाश्रयः सुमनसां पादाब्जरेणुश्च तेनो मन्दारसिता परं स्मितरुचिर्मञ्जीरयोश्च द्वयी ।नो बाहुः कलहं समेत्य जयति त्वद्यानलीलाप्यसौनो शुंभत्तरलाक्षमाननमिदं पादांबुजं चाम्बिके! ॥५६॥नाथे!तावकवाहसिंहचकितास्त्वत्पादमूले नतानूनं बभ्रमुरभ्रमुप्रियमुखादिक्कुंभिवीराश्चिरं ।नोचेदेष कथं तदुन्नतशिरस्सिन्दूरसन्दोहजोरागस्ते चरणांबुजे परिणमन्न्द्यापि विद्योतते ॥५७॥त्वत्पादोयमजाश्रितश्च रुचिरस्पर्शान्वितोयोगिना- मन्तःस्थाकृतिरूष्मभाक्च महिषप्रध्वंसनप्रक्रमे ।एवं खल्वखिलाक्षरात्मकममुं शैलेन्द्रकन्ये कथंभाषन्ते नतवर्गबन्धुमपवर्गालंबनं वा जनाः ॥५८॥उन्मीलन्नखमण्डलीहिमकणः शोणप्रभागैरिकंबिभ्राणः परिशोभमानकटको भूयोवनैकाश्रयः ।गायत्सिद्धवधूनिषेविततलः पादस्त्वदीयःशिवे! राजत्येष हिमाद्रिपादवदिदं युक्तं हिमाद्रेः सुते ॥५९॥दिक्पालैर्दशभिः पृथक्पृथगयंत्वत्पादयोरर्पितोदृश्यो भक्त्यनुराग एव दशधा शोणाङ्गुलिश्रीमिषात् ।पादाभ्यामपि तान् प्रति प्रकटितानूनं प्रसादाङ्कुरादृश्यन्ते नखकान्तिपंक्तिदशकव्याजेन शैलात्मजे ॥६०॥“मेघानां कुलिशस्यचाऽप्रतिहता धाराः क्रमन्तां चिरंनो नश्येन्मददानवारिविभवो नाकस्य नागस्य च ।पुत्रोयं मम सैनिकाश्च दधतां नित्यं जयन्तः सुखं” ।त्वत्पादांबुजपातिनः सुरपतेरित्थंजयन्त्यर्थनाः ॥६१॥“आज्यासक्तकरैर्द्विजन्मभिरहं हूएय, नो दानवैःस्वाहारोचितमस्तु पार्श्वमनिशं तादृक् च हव्यं लभै ।रक्षावानिति भूतिमानिति च मे शब्दप्रसिद्ध्या शिवे!नोपेक्ष्योह” मिति त्वदंघ्रिनमने जीयासुरेग्नेर्गिरः ॥६२॥“त्वद्भक्ताघमबुद्धिपूर्वलिखितं स्याच्चेत् क्षमेथाः शिवे!कान्तस्ते मयि रोषवान्कुरु पुनस्तस्यार्द्रभावं शनैः ।देवि! त्वं महिषाभिहन्त्रि! चकितं त्रायस्व मे वाहनं”कालस्येति जयन्ति ते पदनतौ लोलस्य संप्रार्थनाः ॥६३॥“धर्माचारपरोहमित्यवमतो रक्षोभिरेकान्वयैर्-मह्यं देविविनिन्दितां दिशमदुर्जातिद्विषश्चामराः ।दैवादित्युभयच्युतो विशरणो रक्ष्योह” मित्यादय-स्त्वत्पादप्रणतौ जयन्ति निरृतेरत्याकुलाः प्रार्थनाः ॥६४॥“मत्पुत्र्या मम वा मुकुन्दगृहताभाग्यं न संक्षीयतांमाहं पायिषि कुंभजेन मुनिना कल्पान्तसूर्येण वा ।द्वेधा मे सुरवाहिनीदयितता साधु त्वया रक्ष्यतां”त्वत्पादांबुजपातिनोजलपतेरित्थं जयन्त्यर्थनाः ॥६५॥ “विश्वप्राणमयी त्वमेव मम तु प्राहुर्जगत्प्राणतांसर्वस्यापि सदागतिर्हि भवती मामेवमाहुर्जनाः ।लज्जापादकमीदृशं जननि! नः किं कुर्महे पाहि मा”-मित्येवं पवनस्य ते पदनतौ वाचो जयन्त्याकुलाः ॥६६॥“शंखोल्लासिगलोज्ज्वले! समकरे! प्द्मेन कुन्दस्मितेपादाग्रादृतकच्छपे! मुखहापद्मे! मुकुन्दाश्रिते! ।इत्यस्मन्निधिगात्रि! नीलनयने! चर्चात्मिके पाहि मा”-मित्थं पादनतिः शिवे! विजयते सख्युः कुबेरस्य ते ॥६७॥“सन्नामेषु भवत्पदांबुजनखच्छायां जटासंगिनींगङ्गेत्यालिजना वदन्ति वितथं माभूर्मुधा कोपिनी ।दृष्टिर्मय्ययि! नीयतां परुषमप्येकं वचो दीयता”मीशानस्य भवानि! ते पदनतावित्थं जयन्त्यर्थनाः ॥६८॥“नाभीतोभवमादितस्तव बलात् पश्चादभीतोस्म्यहंत्र्यक्षेण त्रिमुखीकृतोऽपि चतुरास्योऽहं तवैव स्तवैः ।त्वं विश्वात्मतयोपजन्य न पुनः स्रष्टारमाख्याहि मा”मित्थं देवि! जयन्ति ते पदनतौ वाणीपतेर्वाणयः ॥६९॥“आशीरस्ति मुखे विडंबयति मां भूयोऽपि चाशीःस्पृहाभोगाः सन्ति सहस्रधा पुनरहं भोगान् कथं प्रार्थये ।शेषोहं स्पृहयाम्यशेषसुखमित्येतच्च हासास्तदंनाथे चिन्तय सर्व” मित्यहिपतेस्त्वत्पादपातो जयेत् ॥७०॥पार्वत्याः पदमत्रदृश्यमितिवापादे भवत्वेन वा साधुत्वात्तदुपास्तये हिततयापद्यान्यमूनि स्फूटं ।सैषा मुक्तिपुरीगिरीन्द्रतनयाभक्तेन नारायणे-नाबद्धा खलुसप्ततिर्दिशतु वः कल्याणहल्लोहलम् ॥७१॥ N/A References : N/A Last Updated : January 04, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP