मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
षडाननं कुङ्कुमरक्तवर्णं म...

श्री सुब्रह्मण्य ध्यानं - षडाननं कुङ्कुमरक्तवर्णं म...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


षडाननं कुङ्कुमरक्तवर्णं महामतिं दिव्यमयूरवाहनं रुद्रस्यसूनुं सुरसैन्यनाथं गुहं सदा शरणमहं प्रपद्ये ॥१॥
कनककुण्डलमण्डितषण्मुखं कनकराजिविराजितलोचनं निशितशस्त्रशरासनधारिणं शरवणोत्भवमीशसुतं भजे ॥२॥
सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभिः दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्यसौख्यप्रदंअम्भोजाभयशक्ति कुक्कुटधरं रक्ताङ्गरागांशुकं सुब्रह्मण्यमुपास्महे प्रणमतां सर्वार्थसंसिद्धिदं ॥३॥
वन्दे शक्तिधरं शिवात्मतनयं
वन्दे पुळिन्दापतिं
वन्दे भानुसहस्रमद्बुदनिभं
वन्दे मयूरासनं
वन्दे कुक्कुटकेतनं सुरवरं
वन्दे कृपाम्भोनिधिं
वन्दे कल्पकपुष्पशैलनिलयं
वन्दे गुहं शण्मुखं  ॥४॥
द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्यसमानतेजसं वन्दे मयूरासनमग्निसम्भवं सेनान्यमद्याहमभीष्टसिद्धये ॥५॥
ध्यायेत् षण्मुखमिन्दु कोटिसदृशं रत्नप्रभाशोभितं बालार्कद्युति षट्किरीटविलसत्-केयूरहारानन्वितं कर्णालङ्कृत कुण्डलप्रविलसत् कण्ठस्थलैः शोभितं काञ्ची कङ्कण किङ्किणीरवयुतं शृङ्गार सारोदयं ॥६॥
ध्यायेदीप्सितसिद्धितं शिवसुतं श्रीद्वादशाक्षं गुहं बाणङ्केटकमङ्कुशञ्चवरदं पाशं धनुःशक्रकं वज्रंशक्तिमसिन्त्रिशूलमभयं दोर्भिर्धृतं शण्मुखं भास्वच्छत्रमयूरवाहसुभगं चित्राम्बरालङ्कृतं   ॥७॥
गाङ्गेयं वह्निगर्भं शरवणजनितं ज्ञानशक्तिं कुमारं सुब्रह्मण्यं सुरेशं गुहमचलदिदं रुद्रतेजस्वरूपं सेनान्यं तारकघ्नं गजमुखसहजं कार्तिकेयं षडास्यं सुब्रह्मण्यं मयूरध्वजरथसहितं देवदेवं नमामि ॥८॥
षण्मुखं द्वादशभुजं द्वादशाक्षं शिखिध्वजं । शक्तिद्वयसमायुक्तं वामदक्षिणपार्श्वयोः ॥९॥
शक्तिंशूलं तथा खड्गं खेटञ्चापंशरं तथा । घण्टां च कुक्कुटञ्चैवपाशञ्चैवतथाङ्कुशं ॥१०॥
अभयं वरदञ्चैव धारयान्तं कराम्बुजैः । महाबलं महावीर्यं शिखिवाहं शिखिप्रभं ॥११॥
किरीटकुण्डलोपेतं खण्डितोद्दण्डतारकं । मण्डलीकृतकोदण्डं काण्डैःक्रौञ्चधराधरं ॥१२॥
दारयन्तं दुराधर्षं दैत्यदानवराक्षसैः । देवसेनापतिं देवकार्यैकनिरतं प्रभुं ॥१३॥
महादेवतनूजातं मदनायुतसुन्दरं । चिन्तये हृदयाम्भोजे कुमारममितेजसम् ॥१४॥
॥इति श्री सुब्रह्मण्यध्यानं समाप्तं ॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP