सर्पबाधानिवृत्तिकरश्लोकाः - अनन्तोवासुकिः शेषः पद्मना...
देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.
अनन्तोवासुकिः शेषः पद्मनाभश्च कम्बलः ।
धृतराष्ट्रः शंखपालः तक्षकः कालियस्तथा ॥१॥
एतानि नव नामानि नागानां च महात्मनां ।
सायंकाले पठेन्नित्यं प्रातःकाले विशेषतः ॥२॥
नर्मदायै नमः प्रातः नर्मदायै नमो निशि ।
नमोऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः ॥३॥
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् ।
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥४॥
यो जरत्कारुणा जातो जरत्कारौ महायशाः ।
आस्तिकः सर्पसत्रे वः पन्नगान् योऽभ्यरक्षत ॥५॥
तं स्मरन्तं महाभागाः न मां हिंसितुमर्हथ ॥६॥
सर्पापसर्प भद्रं ते दूरं गच्छ महायशाः
जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मरन् ॥७॥
N/A
References : N/A
Last Updated : January 04, 2019
TOP