मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
पुरन्दर उवाच- नमः कमलवासि...

श्री महालक्ष्मी स्तोत्रम् - पुरन्दर उवाच- नमः कमलवासि...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

पुरन्दर उवाच-
नमः कमलवासिन्यै नारायण्यै नमो नमः ।
कृष्णप्रियायै सततं महालक्ष्म्यै नमो नमः ॥१॥
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥२॥
सर्व संपत्स्वरूपिण्यै सर्वाराध्यै नमो नमः ।
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥३॥
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ।
चन्द्रशोभास्वरूपायै च रत्नपद्मे च शोभने ॥४॥
सम्पत्यधिष्ठातृ देव्यै महादेव्यै नमो नमः ।
नमो वृत्तिस्वरूपायै वृत्तिदायै नमो नमः ॥५॥
वैकुण्ठे या महालक्ष्मीः या लक्ष्मीः क्षीरसागरे ।
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥६॥
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता
सुरभिः सागरे जाता दक्षिणा यज्ञगामिनी ॥७॥
अदितिर्देवमाता त्वंकमला कमलालया ।
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥८॥
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥९॥
क्रोधहिंसावर्जिता च वरदा शारदा शुभा ।
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥१०॥
यया विना जगत्सर्वं भस्मीभूतमसारकम् ।
जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना ॥११॥
सर्वेषाञ्च परा माता सर्वबान्धवरूपिणी ।
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥१२॥
यथा माता स्तनान्धानां शिशूनां शैशवे सदा ।
तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥१३॥
मातृहीनः स्तनान्धस्तु स च जीवति दैवतः ।
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥१४॥
सुप्रसन्नस्वरूपा त्वं मयि प्रसन्ना भवाम्बिके ।
वैरिग्रस्तं च विषयं देहि मह्यं सनातनी ॥१५॥
अहं यावत् त्वया हीनॊ बन्धुहीनश्च भिक्षुकः ।
सर्वसंपद्विहीनश्च तावदेव हरिप्रिये ॥१६॥
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ।
प्रभावं च प्रतापं च सर्वाधिकारमेव च ॥१७॥
जयं पराक्रमं युद्धे परमैश्वर्यमेव च ।
इत्युक्त्वा च महेन्द्रश्च सर्वैस्सुरगणैस्सह ॥१८॥
प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ।
ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ॥१९॥
सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ।
देवेभ्यश्चवरं दत्वा पुष्पमालां सुमनोहरम् ॥२०॥
केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि ।
ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ॥२१॥
देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः ।
ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद ॥२२॥
दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ।
इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥२३॥
कुबेरतुल्यः स भवेत् राजराजेश्वरो महान् ।
पञ्चलक्षजपेनैव स्तोत्रसिद्धिः भवेन्नृणं ॥२४॥
सिद्ध स्तोत्रं यदि पठेत् मासमेकन्तु सन्ततम् ।
महासुखी च राजेन्द्रो भविष्यति न संशयः ॥२५॥

इति श्रीदेवीभागवते महापुराणे अष्तादशसाहस्र्यां संहितायां नवम स्कन्धे
महालक्ष्म्या ध्यानस्तोत्रवर्णनं नाम द्विचत्वारिंशोऽध्यायः

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP