मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
षडाधारपङ्केरुहान्तर्विराज...

भवानीभुजङ्गम् - षडाधारपङ्केरुहान्तर्विराज...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.

षडाधारपङ्केरुहान्तर्विराजत्
सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
सुधामूर्तिमीडॆ चिदानन्दरूपाम् ॥१॥

ज्वलत्कोटिबालार्कभासारुणांगीं
सलावण्यशृंगारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्येविराजत्
त्रिकोणे निषण्णां भजे श्री भवानीम् ॥२॥

क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।
अजेशाच्युताद्यैः सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि ॥३॥

सुशोणाम्बराबद्धनीवीविराज-
न्महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
वलीरम्ब ते रोमराजीं भजेऽहम् ॥४॥

लसद्वृत्तमुत्तुङ्गमाणिक्यकुंभो-
पमश्री स्तनद्वन्द्वमम्बाम्बुजाक्षि ।
भजॆ दुग्धपूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्नुतास्यम् ॥५॥

शिरीषप्रसूनोल्लसद्बाहुदन्डैर्-
ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषो-
ज्ज्वलद्भिर्लसन्तीं भजे श्री भवानीम् ॥६॥

शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-
धरस्मेरवक्त्रारविन्दां सुशान्ताम् ।
सुरत्नावलीहारताटङ्कशॊभां
महासुप्रसन्नां भजॆ श्री भवानीम् ॥७॥

सुनासापुटं सुन्दरभ्रूललाटं
तवौष्ठश्रियं दानदक्षं कटाक्षम् ।
ललाटे लसद्गन्धकस्तूरिभूषं
स्फुरच्छ्रीमुखाम्भॊजमीड्येऽहमम्ब ॥८॥

चलत्कुन्तलान्तर्भ्रमत्भृङ्गबृन्दं
घनस्निग्द्धधम्मिल्लभूषोज्ज्वलं ते ।
स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा-
विलासोल्लसद्दिव्यमूर्धानमीडॆ ॥९॥

इति श्रीभवानी स्वरूपं तवेदं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ।
स्फुरत्वम्ब डिंभस्य मे हृत्सरोजे
सदा वाङ्मयं सर्वतेजॊमयं च ॥१०॥

गणेशाभिमुख्याखिलैः शक्तिबृन्दैर्-
वृतां वै स्फुरच्चक्रराजोल्लसन्तीम् ।
परां राजराजॆश्वरि त्रैपुरि त्वां
शिवाङ्कोपरिस्थां शिवां भावयामि ॥११॥

त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-
स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यो न कश्चित्प्रपञ्चोऽस्ति सर्वं
त्वामानन्दसंवित्स्वरूपां भजॆऽहम् ॥१२॥

श्रुतीनामगम्ये सुवेदागमज्ञा
महिम्नो न जानन्ति पारं तवाम्ब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमत्र प्रमुग्द्धः किलाहम् ॥१३॥

गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासिमाता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बन्धुर्-
गतिर्मे मतिर्देवि सर्वं त्वमेव ॥१४॥

इतीमां महच्छ्रीभवानीभुजंगं
स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वेदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति ॥१५॥

भवानी भवानी भवानी त्रिवार-
मुदारं मुदा सर्वदा ये जपन्ति ।
न शोकं न मॊहं न पापं न भीतिः
कदाचित् कथंचित् कुतश्चिज्जनानाम् ॥१६॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP