मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
त्वं देवी जगतां माता विष्...

श्री राधायाः परीहारस्तोत्रम् - त्वं देवी जगतां माता विष्...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


त्वं देवी जगतां माता विष्णुमाया सनातनी । कृष्णप्राणाधिदेवि च कृष्णप्राणाधिका शुभा ॥ १॥
कृष्णप्रेममयी शक्तिः कृष्णसौभाग्यरूपिणी । कृष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे ॥ २॥
अद्य मे सफलं जन्म जीवनं सार्थकं मम । पूजितासि मया सा च या श्रीकृष्णेन् पूजिता ॥ ३॥
कृष्णवक्षसि या राधा सर्वसौभाग्यसंयुता । रासे रासेश्वरीरूपा वृन्दा वृन्दावने वने ॥ ४॥
कृष्णप्रिया च गोलोके तुलसी कानने तुया । चम्पावती कृष्णसंगे क्रीडा चम्पककानने ॥ ५॥
चन्द्राक्ली चन्द्रवने शतश्रिङ्गे सतीति च । विरजादर्पहन्त्रि च विरजातटकानने ॥ ६॥
पद्मावती पद्मवने कृष्णा कृष्णसरोवरे । भद्रा कुञ्जकुटीरे च काम्या च काम्यके वने ॥ ७॥
वैकुण्ठे च महालक्ष्मीर्वाणी नारायणोरसि । क्षीरोदे सिन्धुकन्या च मर्त्ये लक्ष्मीर्हरिप्रिया ॥ ८॥
सर्वस्वर्गे स्वर्गलक्ष्मीर्देवदुःखविनाशिनी । सनातनी विष्णुमाया दुर्गा शंकरवक्षसि ॥ ९॥
सावित्री वे! दमाता च कलया ब्रह्मवक्षसि । कलया धर्मपत्नी त्वं नरनारायणप्रसूः ॥ १०॥
कलया तुलसी त्वं च गङ्गा भुवनपावनी । लोमकूपोद्भवा गोप्यः कलांशा हरिप्रिया ॥ ११ ॥
कलाकलांशरूपा च शतरूपा शचि दितिः। अदितिर्देव्माता च त्वत्कलांशा हरिप्रिया ॥ १२॥
देव्यश्च मुनिपत्न्यश्च्ज त्वत्कलाकलया शुभे । कृष्णभक्तिं कृष्णदास्यं देहि मे कृष्णपूजिते॥ १३॥
एवं कृत्वा परीहारं स्तुत्वा च कवचं पठेत् । पुरा कृतं स्तोत्रमेतद् भक्तिदास्यप्रदं शुभम् ॥ १४॥
॥ इति श्री ब्रह्मवैवर्ते श्रीराधायाः परीहारस्तोत्रं सम्पूर्णम् ॥

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP