मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे| रत्नावलीनिर्मितशैलशृङ्गवि... अन्य देवता स्तोत्रे उमासहस्रम् ॥ श्रीगणेशायनम: । श्रीसरस... श्रीपाद श्रीवल्लभ त्वं सद... अङ्गारकः शक्तिधरो लोहिताङ... अथ कीलकम् ॐ अस्य श्रीकीलक... स्तोत्रदिनमपि रजनी सायं प... नमोऽस्तु नारायणमन्दिराय न... अनंत, वासुकी, शेषं, पद्मन... श्री गणेशाय नमः । ब्रह्मो... श्री यादगिरि लक्ष्मीनृसिं... श्रीमत्पयोनिधिनिकेतनचक्रप... श्रीमत्पयोनिधिनिकेतनचक्रप... सद्गुरुं सच्चिदानन्दं केव... पद्माधिराजे गरुडाधिराजे व... विशुद्धं परं सच्चिदानन्दर... प्रणम्य शिरसा देवं गौरीपु... रविरुद्र पितामह विष्णूनुत... शिव उवाच श्रुणु देवि प्र... श्रीमदनन्त श्रीविभूषित अप... पाण्ड्यभूपतीन्द्र पूर्व प... करिवरानुज कलियुग वरदा वीर... आशानुरूपफलदं चरणारविन्द भ... आशानुरूपफलदं चरणारविन्द भ... लोकवीरं महापूज्यं सर्वरक्... पादारविन्द भक्तलोकपालनैकल... श्रितानन्दचिन्तामणिश्रीनि... अस्य श्री हरिहरपुत्राष्टो... हरिवरासनं विश्वमोहनं हरिध... श्रीदेव्युवाच भगवन् देवदे... भूताधिपं भजे भूताधिपं दिव... पूर्वन्यासः अस्य श्री इन्... करकलितचापबाणां कल्हाराङ्घ... कारणापरचिद्रपा कञ्चीपुरसी... श्रीगुरुचरणसरोजं श्रीकरभव... अनन्तं वासुकिं शेषं पद्मन... हयग्रीव हयग्रीव हयग्रीवेत... ॥ श्रीः ॥ ॐ ब्रह्मर्षिभ्य... करिवरानुज कलियुग वरदा वीर... भूताधिपं भजे भूताधिपं दिव... राजान ऊचुः । गद्यानि । जय... श्रीमदानन्दतीर्थ-भगवत्पाद... कार्तवीर्यार्जुनो नाम राज... कुलाचला यस्य महीं द्विजेभ... ऋषिरुवाच । यमाहुर्वासुदेव... उद्धव उवाच । चेतनं कुरु क... उद्धव उवाच । वन्दे राधापद... श्रीनारायण उवाच । राधा रा... ब्रह्मोवाच । हे मातस्त्वत... राधा रासेश्वरी रम्या कृष्... उद्धव उवाच । वन्दे राधापद... ब्रह्मोवाच । तव चरणसरोजे ... श्री स्कन्द उवाच योगीश्वर... ओङ्कार-नगरस्थं तं निगमान्... ॐ सौं शरवणभवः शरच्चन्द्रा... ॐ श्रीं सौं शरवणभवाय नमः ... ज्ञानशक्तिधरः स्कन्दः देव... पुरहरनन्दन रिपुकुलभञ्जन, ... जय वज्रिसुताकान्त जय शङ्क... षडाननं कुङ्कुमरक्तवर्णं म... विमलनिजपदाब्जं वेदवेदान्त... आदौ विघ्नेश्वर पूजां कृत्... भजेहं कुमारं भवानी कुमारं... शिवयोसूनुजायास्तु श्रितमन... श्रीमन्मेरुधराधराधिप महास... सुब्रह्मण्यं प्रणाम्यहं स... ॐ ह्रीं सां रुद्रकुमाराय ... भक्त सञ्जीवनं भस्म विभूषण... वेङ्कटेशो वासुदेवः प्रद्य... अगणितगुणमप्रमेयमाद्यं सकल... न मन्त्रं नो यन्त्रं तदपि... अनंतसंसारसमुद्रतार-नौकायि... गोविन्दं गोकुलानन्दं गोपा... श्रीविद्ये शिववामभागनिलये... ध्यायेत् हेमांबुजारूढां व... बन्धूकवर्णामरुणां सुगात्र... गौरीं काञ्चनपद्मिनीतटगृहा... अस्य श्री रङ्गराज नामरत्न... नारद उवाच अनायासेन लोकोऽय... नमस्तुलसि कल्याणि नमो विष... राजलक्ष्मीस्थिरत्वाय येथे... मेघाङ्गीं विगताम्बरां शवश... सरस्वति नमस्तुभ्यं वरदे क... भक्तानशोकान्विदधामि शीघ्र... पापिषु प्रथमतो गणनीयं पुण... आसेतुशीतगिरिमध्यनिवासलोका... निदानमनुकम्पायाः पदाधःकृत... ऊँ अस्य श्रीसरस्वतीस्तोत्... गुरुवन्दना- अज्ञानाब्धिनि... रविरुद्रपितामहविष्णुनुतं ... श्वेतपद्मासना देवी श्वेतप... नीहारहारघनसारसुधाकराभां क... मातापितृसहस्राणि पुत्रदार... लोकनाथश्चिदाकारोराजमानः स... ऊँ ह्रीं ऋतं त्वमचलो गुणज... श्रीरामकृष्णप्रणामः स्थाप... सामाख्याद्यैर्गीतिसुमधुरै... घनचेतनमक्रियमादिमजं चिर-न... ब्रह्मरूपमादिमध्यशेषसर्वभ... प्रकृतिं परमामभयां वरदां ... प्रातः स्मरामि जगतो भव-भा... ब्रह्मयुक्तनित्यशक्तिसृष्... नमस्ते सते सर्वलोकाश्रयाय... सुनिर्मलज्ञानसुखैकरूपंप्र... मत्तरोगशिरोपरिस्थितनृत्यम... शंखं चक्रं गदाम् च क्षयित... हृदयकमलमध्ये राजितं निर्व... गुरुर्ब्रह्मा गुरुर्विष्ण... नमस्ते ललिते देवि श्रीमत्... ध्यायेच्चित्तसरोजस्थां सु... कान्तस्ते पुरुषोत्तमः फणि... गुरुतीर्थपयोब्धिपारा कामा... पूज्याय राघवेन्द्राय सत्य... किरातवराह ऋषिः अनुष्टुप् ... महिम्नस्तेऽपारं सकलसुखसार... ध्यानम् अतिमधुरचापहस्तां ... आशीविषविषविषमैः निमिषोन्म... हंसाय भुवनध्वान्तध्वंसाया... श्रीमान् वेङ्कटनाथार्यः क... कस्तूरीपङ्कभास्वद्गलचलदमल... देवा ऊचुः ब्रह्मणे ब्रह्म... नमो हिरण्यगर्भाय ब्रह्मणे... गुरुर्बृहस्पतिर्ज्जीवः सु... मङ्गलो भूमिपुत्रश्च ऋणहर्... चन्द्रस्य शृणु नामानि शुभ... गणेशविष्णुसूर्येशदुर्गाख्... पापानि यानि रविसूनुपटस्थि... श्रितानन्द चिन्तामणि श्री... रत्नावलीनिर्मितशैलशृङ्गवि... हरे राम हरे राम राम राम ह... अद्भुतविग्रह अमराधीश्वर अ... करुणावरुणालय सर्वपते तरुण... श्रीसूर्यध्यानम् रक्तांबु... आयुर्बलं यशोवर्चः प्रजाः ... ग्रहाणामादिरादित्यो लोकरक... जगद्धात्रि नमस्तुभ्यं विष... ब्रह्मादयः सुरगणा मुनयोऽथ... त्वमेकः शुद्धोऽसि त्वयि न... जगदीश सुधीश भवेश विभो परम... श्रीभगवानुवाच – बृंदा रू... वृत्तोत्फुल्लविशालाक्षं व... देवताकार्यसिद्ध्यर्थं सभा... स्वादयन्निह सर्वेषां त्रय... श्रीमान् वेङ्कटनाथार्यः क... नित्यानन्दकरी वराभयकरी सौ... कल्य़ाणरूपाय कलौ जनानां क... श्रियः कान्ताय कल्याणनिधय... वेङ्कटेशो वासुदेवः वारिजा... कमलाकुचचूचुककुङ्कुमतो निय... अंबरगंगाचुंबितपादः पदतलवि... ततो युद्धपरिश्रान्तं समरे... मम न भजनशक्तिः पादयोस्ते ... ऒमित्येतद्यस्य बुधैर्नाम ... कैलासे कमनीयरत्नखचिते कल्... काञ्चीनूपुररत्नकङ्कणलसत्क... मूलाम्भोरुहमध्यकोणविलसत् ... आधारभूते चाधेये धृत... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... शम्भो महादेवदेव शिवशम्भो ... प्रातः स्मरामि परमेश्वर-व... स्फुरत्सहस्रारशिखातितीव्र... वेङ्कटॆशो वासुदेवः वारिजा... श्रियः कान्ताय कल्याणनिधय... अहॊबिलं नारसिंहं गत्वा रा... श्रीमत् पयोनिधिनिकेतन चक्... सप्तप्राकारमध्ये सरसिजमुक... हरिर्हरतिपापानि दुष्टचित्... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... आदित्यादिप्रभृतिकमिदं चक्... न भूमिर्न तोयं न तेजो न व... मन्दस्मितं स्फुरितमुग्धमु... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... सुवक्षोजकुम्भां सुधापूर्ण... शारदा शारदाम्भोजवदना वदना... या कुन्देन्दुतुषारहारधवला... वेदपादस्तवं वक्ष्ये देव्य... मूषिकवाहन मोदकहस्त चामरकर... श्रीविद्ये शिववामभागनिलये... न मन्त्रं नॊ यन्त्रं तदपि... का त्वं शुभे शिवकरे सुखदु... कमाक्षिमातर्नमस्ते कामदान... नित्यानन्दकरी वराभयकरी सौ... आधारभूतेचाधेये धृतिरूपे ध... माणिक्यान्ञ्चितभूषणां मणि... काञ्चीनूपुररत्नकङ्कणलसत्क... अयिगिरिनन्दिनि नन्दितमेदि... माता नृसिंहः पिता नृसिंहः... श्रीमदानन्दतीर्थाय कल्याण... श्रीविद्ये शिववामभागनिलये... वन्दे नवघनश्यामं पीतकौशेय... ईश्वरः परमः कृष्णः सच्चिद... ध्यानम् चक्रं विद्या वर घ... श्रीशं कमलपत्राक्षं देवकी... बुधो बुद्धिमतां श्रेष्ठो ... अनुष्टुप् छन्दः शत्रुनिवा... भगवान् ऋषिः अनुष्टुप् छन्... मेघाङ्गीं विगताम्बरां शवश... अगणितगुणमप्रमेयमाद्यं सकल... सल्लोका विषयविरागिणो यदर्... हृदयकमलमध्ये राजितं निर्व... श्रीरामकृष्णगुरुदेवनिबद्ध... श्री देवी प्रथमं नाम द्वि... (शृङ्गेरि श्रीजगद्गुरु श... करोतु पदविन्यासान्कमलासनक... हेलया रचितचित्रविष्टपां च... भक्तानशोकान्विदधामि शीघ्र... निदानमनुकम्पायाः पदाधःकृत... श्वेतपद्मासना देवी श्वेतप... मातापितृसहस्राणि पुत्रदार... मातः समस्तजगतां परमस्य पु... श्रीरामकृष्णसहधर्मिणी भव्... ब्रह्मयुक्तनित्यशक्तिसृष्... आदिलक्ष्मि नमस्तेऽस्तु पर... ज्ञानानन्दामलात्मा कलिकलु... देवि सुरेश्वरि भगवति गङ्ग... ध्यायेच्चित्तसरोजस्थां सु... १. धनलक्ष्मी: या देवी सर... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... प्रणेतारः रामभद्राचार्याः... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... कस्तूरीपङ्कभास्वद्गलचलदमल... कामाक्षि देव्यंब तवार्द्र... श्री माधवी काननस्थे गर्भ... नमो देव्यै महादेव्यै सिद्... समुन्मीलन्नीलांबुजनिकरनीर... नमःशिवायै गंगायै शिवदायै ... श्रुत्वा गुणान् भुवनसुंदर... नित्यानन्दकरी वराभयकरी सौ... मयि कुरु मङ्गलमंबुजवासिनि... नित्याभूषा निगमशिरसां निस... आदिलक्ष्मीः द्विभुजाञ्च ... माणिक्यवीणामुपलालयन्तीं म... मम न भजनशक्तिः पादयोस्ते ... उषसि मागधमंगलगायनै- र्झटि... श्रीमत् कमलापुर कनकधराधरव... इत्थं नवनीरदनिर्गत-संस्फु... इत्थं दानवेन्द्रः हिरण्यक... काञ्चीनूपुररत्नकङ्कणलसत्क... आधारभूते चाधेये धृतिरूपे ... लीलालब्धस्थापितलुप्ताखिलल... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... सिन्दूरारुणकान्तिमब्जवसति... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... शृंगाद्रिवासाय विधिप्रिया... सुवक्षोजकुम्भां सुधापूर्ण... घोररूपे महारावे सर्वशत्रु... वेदपादस्तवं वक्ष्ये देव्य... लीलालब्धस्थापितलुप्ताखिलल... षडाधारपङ्केरुहान्तर्विराज... माणिक्यान्ञ्चितभूषणां मणि... नमो देव्यै प्रकृत्यै च वि... अष्टौ भुजाङ्गीं महिषस्यमर... श्रीशुक उवाच- विलोक्य दूष... गोविन्दं गोकुलानन्दं गोपा... भवानि स्तोतुं त्वां प्रभव... नन्दः पथि वचः शौरेर्न मृष... श्रीमते निगमान्तदेशिकाय न... नमः पन्नगनद्धाय वैकुण्ठवश... माता नृसिंहः पिता नृसिंहः... वेङ्कटेशो वासुदेवः प्रद्य... श्रीशंभो! मयि करुणाशिशिरा... नमः शिवाय पूर्णाय पूर्णमङ... दैवासुरैर्भावगणैरजस्रं प्... भक्तरक्षात्तदीक्ष, प्रोच्... श्रीसत्यसायिभगवन्, नरकान्... मृत्युञ्जयपुष्पाञ्जलिः कृष्णे गोकुलवासमुज्झितवति... शबलशिखण्डिशिखण्डकमण्डितहा... श्यामाभिरामशरणीकरणीयमूर्त... राजलक्ष्मीस्थिरत्वाय येथे... अद्राक्षमव्याजकृपामपारां ... पापिषु प्रथमतो गणनीयं पुण... श्रीराजमान मुखनिर्गतदिव्य... अनन्तोवासुकिः शेषः पद्मना... ॐकारवेद्यः पुरुषः पुराणो ... नमस्ते सते सर्वलोकाश्रयाय... नमस्ते ललिते देवि श्रीमत्... श्रीपूर्णबोध गुरुतीर्थपयो... पूज्याय राघवेन्द्राय सत्य... इन्द्रः श्लोकः ऐरावतगजा... आशीविषविषविषमैः निमिषोन्म... श्रीनीलकण्ठ गिरिजेश सुरेश... अचिकित्सचिकित्साय आद्यन्त... श्रीमान् वेङ्कटनाथार्यः क... मनः समाधौ परमार्थरङ्गं वि... नमो हिरण्यगर्भाय ब्रह्मणे... उत्थिष्ठ कृष्ण गुरुवायुपु... मङ्गलो भूमिपुत्रश्च ऋणहर्... पञ्चदेवतास्तोत्रम् पाण्ड्यभूपतीन्द्रपूर्वपुण... आशानुरूपफलदं चरणारविन्द- ... भगवत्स्तुतिः सन्मात्ररूपि... ॐ श्रीमदखिलाण्डकोटि ब्रह्... श्रीमदानन्दतीर्थाय कल्याण... हरे राम हरे राम राम राम ह... श्रीमान् वेङ्कटनिथार्यः क... इन्द्रद्युम्न उवाच । यज्ञ... शतानीक उवाच – महामते महाप... जनमेजय उवाच - शरतल्पेशया... अद्भुतविग्रह अमराधीश्वर अ... गतिगञ्जितमत्ततरद्विरदं रद... करुणावरुणालय सर्वपते तरुण... प्रातः स्मरामि तत्सवितुर्... स्कंद उवाच - योगीश्वरो मह... ॐ सर्वे वै देवा देवीमुपतस... दक्षाधःकरपल्लवे लसदसिं दक... आयुर्बलं यशोवर्चः प्रजाः ... दाल्भ्य उवाच- कार्यारंभे... वाणीं जितशुकवाणीं अलिकुलव... जगदीश सुधीश भवेश विभो परम... अहं मद्रक्षणभरो मद्रक्षणफ... स्वादयन्निह सर्वेषां त्रय... ईश्वर उवाच- वृत्तोत्फुल्... स्वादयन्निह सर्वेषां त्रय... श्रीपराशर भट्टार्यः श्रीर... चिदचित्परतत्त्वानां तत्त्... देवो नश्शुभमातनोतुदशधा नि... श्रीवत्सचिह्नमिश्रेभ्यो न... वन्देऽहं वरदार्यं तं वत्स... श्रीशैलेशदयापात्रं धीभक्त... हेमाद्रिशिखराकारं शुद्धस्... ईशानां जगतोऽस्य वेङ्कटपते... कौसल्या सुप्रजा राम पूर्व... भज गोविन्दं भजगोविन्दं गो... दशकम् २४ हिरण्याक्षे पो... प्रथमं दशकम् त्वत्भक्तवर... हारनूपरकिरीटकुण्डलविभूषित... वन्दे मुकुन्दमरविन्ददलायत... पुरस्तात् केशवः पातु चक्र... स्फुरत्सहस्रारशिखातितीव्र... अहोबिलं नारसिंहं गत्वा रा... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... जयति तेऽधिकं जन्मना व्रजः... न भूमिर्न तोयं न तेजो न व... कृपासमुद्रं सुमुखं त्रिने... रुद्रं पशुपतिं स्थाणुं नी... सत्यं ब्रवीमि परलोकहितं ब... हे स्वामिनाथार्तबन्धो भस्... किं नाहं पुत्रस्तव मातुः ... मूषिकवाहन मोदकहस्त चामरकर... कल्याणवृष्टिभिरिवामृतपूरि... कल्लोलोल्लसितामृताब्धिलहर... हारनूपरकिरीटकुण्डलविभूषित... आर्यासाहस्री नीलकन्ठ- वाहनं द्विषद्भुज... हे मातस्त्वत्पदाम्भोजं दृ... षष्टिवर्षसहस्राणि दिव्यान... तव पूजा जगन्मातर्लोकशिक्ष... एवमेव प्रियोऽहं ते प्रमोद... त्वं देवी जगतां माता विष्... तव चरणसरोजे मन्मनश्चरीको ... त्वं देवी जगतां माता विष्... श्री नारद उवाच अनायास... जगद्धात्रि!नमस्तुभ्यं विष... प्रातः स्मरामि हृदि संस्फ... भक्तामर- प्रणत- मौलिमणि- ... हयग्रीव हयग्रीव हयग्रीवेत... ॥ शांतिपाठः ॥ ॐ यो ब्रह... अपासकानां यदुपासनीयमुपात्... मूलेवटस्य मुनिपुङ्गवसेव्य... ॐमित्येतद्यस्य बुधैर्नाम ... ध्यानम् चन्द्रार्काग्नि... शम्भो महादेव देव शिव शम्भ... कैलासे कमनीयरत्नखचिते कल्... एवमारध्य गौरीशं देवं मृत्... श्रीगणेशाय नमः ॥ जय देव... श्रीगणेशाय नमः ॥ एकं ब्... श्रीगणेशाय नमः ॥ ॐ अस्य ... श्रीगणेशाय नमः ॥ विश्वं... श्रीगणेशाय नमः ॥ यं विज्... इंदुकोटि तेजकीर्ण सिंधुभक... यस्य नाम श्रुतेः सद्यो मृ... वेदो नित्यमधीयतां तदुदितं... वेदान्तवाक्येषु सदा रमन्त... निरुपमनित्यनिरंशकेऽप्यखण्... लब्धा विद्या राजमान्या तत... तपोयज्ञदानादिभिः शुद्धबुद... पुरे पौरान्पश्यन्नरयुवतिन... मनोबुद्ध्यहंकारचित्तानि न... अहं नामरो नैव मर्त्यो व द... स्तोष्ये भक्त्या विष्णुमन... किं ज्योतिस्तव भानुमानहनि... सकृच्छ्रवणमात्रेण ब्रह्मज... विदिताखिलशास्त्रसुधाजलधे ... मत्प्रियसखि मज्जिव्हे मय्... स्नातं तेन समस्ततीर्थसलिल... उद्धव उवाच । चेतनं कुरु... श्रीनारायण उवाच । राधा ... ब्रह्मोवाच । हे मातस्त्... ॥ अथ ब्रह्मेशशेषादिकृतम् ... राधा रासेश्वरी रम्या कृष्... महेश्वर उवाच । श्रीजगन्... सनत्कुमार उवाच - किं त्... नमस्तस्मै भगवते चैतन्याय ... महासाहसवृत्त्य स्वरूपलाभः... श्री गणेशाय नमः । श्री ... षडाननं चन्दनलेपिताङ्गं मह... सदा बालरूपाऽपि विघ्नाद्रि... उद्यदादित्य संकाशं उदार भ... ऋषय ऊचुः - सर्वशास्त्रा... श्रीशारदास्तोत्रम् - रत्नावलीनिर्मितशैलशृङ्गवि... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddesssharadastotraदेवतादेवीशारदास्तोत्र शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव नृसिंहभारतीस्वामिभिः विरचितः Translation - भाषांतर रत्नावलीनिर्मितशैलशृङ्गविभ्राजदापूर्णसुधाकराभम् ।आकण्ठरक्तांबरसंवृताङ्ग्या मुखाम्बुजं भाति जगज्जनन्याः ॥१॥आकण्ठमानम्रजनानुरागो ममेति लोकस्य विबोधनाय आकण्ठरक्तांबरसंवृताङ्गी पद्मोत्थजाया प्रतिभाति नूनम् ॥२॥एवं सर्वजगन्त्यप्युत्सङ्गे संनिधाय रक्षामि ।इति बोधनाय जगतामङ्के बालं दधासि मातस्त्वम् ॥३॥शिशुमिव पदनतलोकं परिरक्षामीति बोधनायैव ।अङ्के निधाय बालं भातीयं पङ्कजातभवदयिता ॥४॥स्थालीपुलाकाख्यनयेन मातर्जगन्ति सर्वाण्यपि पालयामि ।इत्येतदर्थस्य विबोधनाय बालं निजाङ्के विदधासि किं त्वं ॥५॥एकमेवाम्बरं वाणि विरूपं च वदन्ति हि ।नवाम्बराणि धत्से त्वं सुरूपाणि कथं वद ॥६॥आकाशवत्सर्वगतश्च नित्य इत्यादि वेदेऽम्ब किलाम्बरस्य ।प्रत्नत्वमेकत्वमपि प्रसिद्धं कथं नवत्वं समभूदमुष्मिन् ॥७॥पुराणवस्त्राणि न धारयामि नवाम्बराण्येव तु धारयामि ।इति प्रबोधाय जनस्य नूनं नवाम्बराण्येव दधाति वाणी ॥८॥भवन्तु विजरामराः पदसरोजनम्रा इति प्रकृष्टदययाविधेः सखि सरोजतुल्यानने करस्थकलशामृतंनतजनाय दातुं स्वयं महार्हमणिनिर्मितं चषकमम्ब धत्से किमु ॥९॥त्यक्ष्यामि नैव रागं कालत्रितयेऽपि नम्रवर्गेषु ।इतिबोधनाय वाणी रक्तसुमानां त्रयं धत्ते ॥१०॥हंसैरेव परैः सेव्या नाहमन्यैर्जनैरिति ।प्रबोधनकृते मातर्हंसं वाहं करोषि किम् ॥११॥हंसे हि शब्दे किमु मुख्यवृत्त्या स्थिताहमेवेति विबोधनाय ।विभासि हंसे जगदम्बिके त्वमित्यस्मदीये हृदये विभाति ॥१२॥हंसोऽप्यहंसइति बोधमवाप्य मुक्तिंप्राप्तः परस्तव पदाम्बुजसंश्रयाद्यत् ।तस्मात्तवाम्ब पदयुग्ममयं मुमुक्षु-र्हंसः समाश्रयति वाहनतामवाप्य ॥१३॥विरिञ्चिहृदयांबुजप्रमददानसूर्यप्रभेविचित्रगतिचातुरीप्रथितपादपङ्केरुहे ।करोति किमयं सदा गमनचातुरीप्राप्तयेमरालकुलनायकस्तव पदाब्जसेवां मुदा ॥१४॥हंसो बाह्यान्धकारप्रदलनचतुरो ह्यह्नि मोदप्रदायीपद्मानामेव मेऽन्तःस्थिततिमिरततेर्वारयित्र्याश्च रात्रौ ।अप्यामोदप्रदात्र्या नतहृदयसरोजातपङ्क्तेरधस्ता-द्भूतो हीत्येव बोधं रचयितुमिव किं हंसमारोहसीशे ॥१५॥कर्तुमात्मनि सार्थां किं वृषेन्द्रः पुर एतु नः ।इत्यादिकां श्रुतिं वाणि पुरस्तात्कुरुषे वृषम् ॥१६॥वृषभो वृषभो नो चेत्कथं तव पदाम्बुजम् ।वाणि सेवितुमर्हः स्यात्तस्माद्वृषभ एव हि ॥१७॥वृषं पुरस्तात्कुरुषे किमद्य वृषप्रदानाय नमज्जनेभ्यः ।द्रुतं पयोजन्मभवप्रमोदपयोधिराकाशशिबिम्बपङ्क्ते ॥१८॥पशुपः शिवोऽयमिति तं विहाय किं वाक्ततिप्रदामाशु ।पशुतानिवृत्तयेऽयं वृषभस्त्वां सेवते मातः ॥१९॥शार्दूलचर्म परिवीक्ष्य भवाङ्गसंस्थंभीतः पलाय्य तव सन्निधिमागतः किम् ।उक्षाधिपः सरसिजासनधर्मपत्नि ब्रूह्यद्य संशयनिमग्नमतेर्ममाशु ॥२०॥पुनरुपनयनं पुंसो वृषाधिरोहे न कामिन्याःदर्शयति तत्स्त्रियोऽपि हि वृषभारूढा त्रिनेत्रेयम् ॥२१॥नीलकण्ठस्य सार्वज्ञ्यमूलं त्वत्पादसेवनम्इतिसंबोधयन्नीलकण्ठस्त्वां सेवते किमु ॥२२॥शिखीमुण्डी जटीत्याद्याः सर्वे त्वत्सेवका इति द्योतनायशिखी किं वा मातस्त्वामेव सेवते ॥२३॥निशम्य संप्रेषितवान्मयूरमुद्धर्ष इत्येव पितुष्वसुः किम् ।षडाननो ब्रूहि गिरां सवित्रि नम्रस्य संदेहयुजो ममाशु ॥२४॥किं वर्णयामि तव सुन्दरतां मनुष्योयत्सुन्दरत्वमभिवीक्ष्य मयूरपक्षी ।हित्वा विरूप इति षण्मुखमाशु मात-र्वासं करोति तव पादसरोजमूले ॥२५॥दृष्ट्वा त्वदीयकचसंततिनीलमेघंसर्वर्तुषूदयनमेत्य मयूर एषः ।नित्यप्रहर्षदतया विरहासहिष्णुर्नूनं त्वदङ्घ्रिनिकटेस्थितिमातनोति ॥२६॥के का न पूजयेयुस्त्वां भुवनेऽस्मिन्महोत्सवे वाणि ।इतिनाम्नैव हि वक्तुं भाति त्वत्संनिधौ केकी ॥२७॥शिखिसूर्यचन्द्रमुख्यानहमेवास्थाय पालयामीदम् ।जगदिति निबोधनार्थं वागीश्वरि भासि शिखिनमास्थाय ॥२८॥शंभौ सन्ति शशाङ्कसूर्यशिखिनो नेत्रापदेशात्सदासागर्भ्यं त इमे निरीक्ष्य गिरिजानाथस्य मातस्त्वयि ।वक्त्रारक्तपटीसुवाहमिषतः सेवां सदा कुर्वतेमोदादेव हि ते न चात्र विशयः कश्चिद्गिरां देवते ॥२९॥केकातोऽपि मनोहरेण वचसा त्वन्निर्जितः केक्ययंपादाम्भोजयुगं प्रपन्न इति मच्चित्ते विभात्यम्बिके ।जेतुः पादयुगप्रपत्तिरथवा देशान्तरावस्थिति-र्युक्तं चान्यतरज्जितस्य विबुधाः प्राहुर्यतो भारति ॥३०॥शिखिवच्छुद्ध एवेति नाम्नैवाह यतः शिखी ।तस्मात्त्वद्वाहता चास्य युक्तैव विधिवल्लभे ॥३१॥मुक्ताहारमिमं जगज्जननि ते शुभ्राहिबुद्ध्या किमु ।ग्रीवास्थं ह्यहमग्रहीद्भुजगभुग्भोक्तुं ततो लब्धधीः ।नायं सर्प इति स्वमोहमधुनापह्नोतुमेवात्यज-न्नैवालंकृतिलक्ष्यतः परमहो धत्ते बुधः पूर्ववत् ॥३२॥आद्या मत्स्यमयी तनुर्मधुरिपोः कौर्मं द्वितीयं वपुस्तद्युग्मंत्वमिहाम्ब नेत्रपदयोर्व्याजेन धत्से यतः ।तस्माच्चक्रयुगं तवोरसि कुचव्याजेन भात्यम्बिकेतस्मादेव खगेश्वरश्च सततं त्वां सेवते मोदतः ॥३३॥विष्णौ वीक्ष्य जडाधिवासमथ च स्वाऽमित्रशायित्वमप्यण्डोद्भूतपतिर्विहायतमिमं विज्ञानरूपामयम् ।त्वामेवाद्य निषेवते खलु मुदावाग्देवियुक्तं च तत्को वा शत्रुसहासिकां हि सहते लोकेषुविद्वज्जनः ॥३४॥भूताकाशचरेट्त्वमेव भुवने सिद्धं हि का तेन मेवृद्धिश्चाभवदित्यवेत्य खगराण्णूनं गिरां देवते ।हार्दाकाशचराधिपत्यमपि मे भूयादितीच्छावशात्तत्प्राप्त्यैतव पादपङ्कजयुगीसेवां करोत्यादरात् ॥३५॥विनतातनूद्भवत्वं प्रकटं प्रभवेद्विनत्यैव ।इति बुद्ध्या खगराट् किं विनतस्त्वत्पादपद्मयोर्वाणि ॥३६॥मानसविहरण्शीलां देवीं त्यक्त्वान्यदेवतासेवा ।नैवोचितेति खगराट्वहति त्वां तादृशीं नूनम् ॥३७॥सुवर्णनीकाश भवत्प्रतीकककान्तेः परिष्वङ्गत एव सार्था ।सुवर्णतेत्यात्मन आकलय्य खगेट् करोत्यम्ब तवाङ्घ्रिसेव्घ्रिसेवाम् ॥३८॥आगत्य कालाहिधिया हि वेणीं ग्रहीतुकामः खगराण्णिरीक्ष्य ।निह्नोतुमिच्छत्ययमम्ब नैजां भ्रान्तिं त्वदङ्घ्रेः परिसेवनात्किम् ॥३९॥लोके ह्येकः पक्षः शुक्लश्चान्यश्च कृष्ण एवेह ।द्वावपि शुक्लौ पक्षौ धत्ते गरुडः किमम्ब तव वाहः ॥४०॥हस्तान्तरस्थपरशुं शंभोर्भूषार्थमागतान्नागान् ।दृष्ट्वा भीतो हरिणश्चरणं शरणं जगाम तव वाणि ॥४१॥धत्ते कुरङ्गं विधुरेष पूर्णो मदास्य चन्द्रस्तमधःकरोति ।इत्येतयोर्भेदविबोधनाय कुरङ्गमम्ब त्वमधः करोषि ॥४२॥समाश्रयेयं यदि पुष्करस्थमब्जं तदा स्यात्पतनं हि दर्शे ।ममेति मत्वा मृगशाबकोऽयं पदाब्जमेवाश्रयते तवाम्ब ॥४३॥शुक्लादौ शशिनं स्वकीयशरणं पूर्णं विचिन्वन्मृगोवाण्यास्यं तव वीक्ष्य हृष्टहृदयः पूर्णो मया चन्द्रमाः ।प्राप्तश्चेति तवाङ्घ्रिसंनिधिमसावागत्य वेगात्ततोनास्मिन्नस्ति ममावकाश इति किं तिष्ठत्ययं भारति ॥४४॥पुरा तव पदाम्बुजं हरिण एष संपूज्य योजगत्प्रभुशिरःस्थिते शशिनि संस्थितिं प्राप्तवान् ।किमद्य हृदिसंस्मरंस्तव पदाब्जसेवाफलंमहोत्सवदिदृक्षया चरण्संनिधिं प्राप्तवान् ॥४५॥पिबेयुरपि मां सुरा यदि वसामि चन्द्रे तदे-त्यऽपायरहितं पदं जिगमिषुश्चिरं संचरन् ।अपायवचनोज्झितं तव पदाब्जयोरन्तरंविलोक्य मृगशाबको वसति तत्र वाग्देवि किम् ॥४६॥भक्ताज्ञानमहेभा मद्वाहनसंनिरीक्षणादेव ।निर्यान्त्विति सहसा किं सिंहं वाहं करोषि मातस्त्वम् ॥४७॥लालयति वाणिकिं त्वां पञ्चास्यः स्कन्धमारोप्य ।युक्तमिदं भ्रातॄणां सोदर्या लालनं लोके ॥४८॥विष्ण्वर्धत्वात्पालकत्वं ममास्ते संहर्तृत्वं नैजमेवास्ति किं तु ।स्रष्टुर्भावो वाणि नास्तीति मत्वा तत्प्राप्त्यै त्वांसेवते पञ्चवक्त्रः ॥४९॥तवाम्बराभावशशीयशृङ्गनीकाशमध्यत्वमयं निशम्य ।वलग्नकार्श्याध्ययनाय किं वा पदाब्जसेवां विदधाति सिंहः ॥५०॥नताय पादाम्बुजयोर्जनाय राजाधिराजत्वविधित्सया किम् ।सिंहासनं त्वं वद दातुमम्ब सिंहं सदा संनिधिगं करोषि ॥५१॥वने जातः सिंहः पुनरपि दरीवासनिरतःस्वसाम्यं यत्र स्यात्सततवसतिं तत्परिसरे ।चिकीर्षन्भ्रान्त्वा किं तव पदवनेजेनतमनोगुहावासेदृष्ट्वा वसतिमकरोत्तत्परिसरे ॥५२॥नाथस्यापि ममानिवेद्य हरिणः सेवां कथं प्रातनोवाग्देव्याश्चरणाब्जयोरितिरुषा सारङ्गबालं भृशम् ।कृत्वा शीघ्रपलायनोत्स्ववपरं सेवांकरोत्यादरादृश्येशः स्वयमित्यवैमि करुणावारांनिधे शारदे ॥५३॥कृत्वा शीघ्रपलायनोत्सवपरं सेवां करोत्यादरादृश्येशःस्वयमित्यवैमि करुणावारांनिधे शारदे ।कुरङ्गवेगस्तव दृष्टपूर्वस्तुरङ्गवेगं परिपश्य वाणिइतीव गर्वादधिगम्य मातस्तुरंगमस्त्वां परिसेवते किम् ॥५४॥तुरंगवच्चञ्चलमम्ब चित्तं बद्ध्वा दृढं भक्तिगुणेन शीघ्रम् ।स्थिरं करोमीति गुणैस्तुरङ्गं नियम्य किं बोधयसे जनांस्त्वम् ॥५५॥त्वमश्वपूर्वां श्रियमानताय ददासि तूर्णं त्विति बोधनाय ।तुरंगमग्रे विदधासि मातरितीवमन्ये वद किं तथैव ॥५६॥उन्नम्य पादद्वितयं तुरंगो वदन्नितीवास्ति गिरां सवित्रि ।विलंघ्यतां किं सरिदीश्वरोऽयमुत्प्लुत्यगच्छेयमथाम्बरं वा ॥५७॥पदे पदे दानववश्यता मे भवेच्छचीनाथसमीपवासे ।उच्चैःश्रवा इत्यधिगम्य मातस्तवांघ्रिसेवां प्रकरोति किं वा ॥५८॥अश्वो वाहनतां न याति दिविषद्वृन्दस्य वेदा इति प्राहुस्तंच निशम्य रोषसहितस्त्वत्संनिधिं प्राप्य किम् ।मिथ्या कर्तुमहो तदीयवचनं देव्यास्तवांबानिशंवाहत्वं कुतुकी जगाम तुरगाधीशो गिरां देवते ॥५९॥विहङ्गं कुरङ्गं तुरङ्गं च वाहंविधायाशुगं श्रान्तिमासाद्य किं त्वम् ।गजं मन्दगं वाहमद्यातनोषि प्रणम्रस्य मे ब्रूहि वाचामधीशे ॥६०॥नतेष्टदानाय सदा जलार्द्रकरांबुजा त्वं यत एव वाणितस्मादिभोऽप्येषतवांघ्रिसङ्गाद्दानांबुसंसिक्तकरो विभाति ॥६१॥केचित्प्राहुरनैपुणास्तु कुचयोः साम्यं हि कुम्भस्थलेशुण्डायामथवोरुतौल्यमिभराडिच्छंस्तवागादिति ।नैतत्संभविता तनौ कठिनता यस्मात्ततः शारदेमन्ये ह्युत्सवसेवनाय हरिणा संप्रेषितः स्यादिति ॥६२॥मम कौशिकवाहनता स्याद्धर्यश्वस्य सेवने किमिति ।शुक्लेभस्तववाहः समभून्मातर्न सन्देहः ॥६३॥जम्भारौ कौशिकत्वं ह्यथ च तदनुजे वीक्ष्य सम्यग्घरित्वंत्यक्त्वा ह्रीसाध्वसाभ्यामयमिभकुलराट् तौ शरच्चन्द्रशुभ्रः ।इन्द्रोपेन्द्रादिसेव्यामपि सकलसुराराध्यपादारविन्दांत्वामेवातिप्रमोदात्कमलजदयिते सेवते नूनमेतत् ॥६४॥मत्पादाब्जप्रणम्रं नरमतितरसा सेवते चेभमुख्यालक्ष्मीर्हस्ताग्रराजद्वरकनकमयस्रग्धरेत्येव बोधम् ।कर्तुं हस्ताग्रराजद्वरकनकसरं नागराजं प्रधत्सेवाणि प्रब्रूहि किं त्वं कमलजहृदयाम्भोजसूर्यप्रभे मे ॥६५॥एकः शुकः प्रसिद्धोऽस्ति पाराशर्यसुतः किल ।शुकोऽपरस्तु को ब्रूहि शारदे प्रणताय मे ॥६६॥एकं शरीरं परिगृह्य पूर्वभवे शुकोऽयं कृतवान्विचारम् ।मोक्षाय नालं स इतीह देहद्वयं गृहीत्वा किमु सेवते त्वाम् ॥६७॥दन्तेषुकिं दाडिमबीजबुद्ध्या तवाधरे बिम्बधियाऽथवाऽयम् ।शुकः कुतस्त्वन्निकटे चकास्ति संदेहयुक्ताय वदाशु मातः ॥६८॥श्रुत्वा तवाम्ब निनदं किल कीरडिम्भःकण्ठे तवास्ति शुक इत्ययमाकलय्य ।इच्छन्विनिर्गमनमस्यबहिस्तवाद्यहस्ताम्बुजे स्थिरतया वसतीति मन्ये ॥६९॥क्षुधातुरः कश्चन कीरडिम्भस्तृषार्दितोऽन्यश्च तयोर्हि मातः ।एकस्तु कर्णोत्पलमत्तुमिच्छत्यन्यः करस्थामृतपानकामः ॥७०॥पादनम्रपुरुषान् किं बोधयितुं लज्जया गिरां देवि ।अपिधाय नैजरूपं धत्से पुरुषाकृतिं ब्रूहि ॥७१॥प्रसवित्र्यां हि सुतानां नैव भवेत्साध्वसं कदाचिदपि ।मत्त्वेति बोधनकृते गुरुवररूपं दधासि किं मातः ॥७२॥सर्वात्मकत्त्वमथवा बोधयितुं स्वस्य सर्वलोकानाम् ।स्वीकुरुषे किं पौरुषमम्बुजसंजातमानिनि ब्रूहि ॥७३॥झषौ स्वजातिदोषं किमबलस्वकुलाशनम् ।मातर्निवेदनायाक्षिव्याजात्कर्णसमीपगौ ॥७४॥अशक्नुवंस्तोतुमहीश्वरस्त्वन्मुखस्य सौन्दर्यमयं जगाम ।रसातलं वक्त्रसहस्रतां च निनिन्द कञ्जातभवस्य जाये ॥७५॥अशक्नुवन्तस्तवसुन्दरत्वं स्तोतुं महेशाग्निभवाब्जजाताः ।निनिन्दुरास्येषु हि पञ्चकत्वं षट्त्वं चतुष्ट्वं च गिरां सवित्रि ॥७६॥नीलोत्पलोत्थः खलु नीलमेघो नम्रास्यमध्यात्कविताप्रवाहम् ।प्रवर्तयत्याशु वदन्ति चैनं मातस्तवाक्षिप्रभवं कटाक्षम् ॥७७॥नीलोत्पले त्वन्नयने हि मातस्तदुत्थमेघः करुणाकटाक्षः ।स नम्रवक्त्रात् कविताप्रवाहं प्रवर्तयत्याशु न संशयोऽत्र ॥७८॥मालाविभात्यम्ब तवाद्य कण्ठे क्वचिच्चरक्ता क्वचिदच्छवर्णा ।बिम्बाधरस्य प्रभया हि नासामणेश्च कान्त्येति वितर्कयामि ॥७९॥अक्षीणो नतचित्तसंस्थिततमोनिर्वापणेऽपि क्षम-श्चाङ्केनाप्ययुतस्तवास्यरजनीनाथो गिरां देवते ।क्षीणेनाङ्कयुजा बहिःस्थिततमोमात्रापनोदक्षमेणाब्जेनायमहोकथं स लभतां साम्यं जगन्मातृके ॥८०॥देवानामनिमेषताद्य सफला जाता तवाम्बानिशंवक्त्राब्जस्य निरीक्षणात्सुरपतेस्तद्वत्सहस्राक्षता ।गौरीशस्य दशाक्षता कमलजस्याष्टाक्षताभारतिक्रौञ्चारेर्द्विषडक्षतापि फलयुग्जातेति जानीमहे ॥८१॥अस्याब्जस्य समाश्रये मम भवेन्मोदो रजन्यां परंनैवाह्नीत्यत एव चम्पकसुमेनालोच्य नीलोत्पले ।सेवेते तव वक्त्रपद्ममनिशं नेत्रापदेशान्मुदारात्रौ वासरमध्यमेऽपि सुखदं वाग्देवि न द्वापरः ॥८२॥चन्द्रः सौहार्दमिच्छंस्तव मुखशशिना प्राप्य वृद्धिं वलर्क्षेपक्षे प्राप्येषदम्ब प्रहृषितहृदयश्चाभवत्पूर्णिमायाम् ।दृष्ट्वाथ त्वन्मुखेन्दुं मृगशिशुरहितं स्वं च चिह्नेन युक्तंलज्जायुक्तस्ततोऽयं प्रतिदिवसमहो क्षीणतां याति कृष्णे ॥८३॥दृष्टंवाग्देवताया वदनसरसिजं येन भूमौ कदाचिच्छृङ्गाद्रौतस्य वक्त्रात्सरसपदयुता वाक्ततिर्निःसरेद्धि ।नीहाराद्रेर्गुहातः सुरवरतटिनी यद्वदाश्वप्रयत्ना-न्निर्गच्छत्येव तद्वन्न हि खलु विशयोऽस्माकमत्रास्ति कश्चित्त् ॥८४॥एकापि नानाविधरूपधर्त्रीत्येतादृशार्थस्य विबोधनाय ।वेण्यां भुजङ्गो नयने कुरङ्गी मध्ये च सिंही प्रतिभासि किं त्वम् ॥८५॥कम्बौ पद्मं भाति बिम्बं हि तस्मिन्मल्लीपङ्क्तिश्चापि नीलोत्पले द्वेसर्वं ह्येतद्भाति हैम्यां लतायां शैले चास्मिन्पश्यतैतद्विचित्रम् ॥८६॥विराजते कश्चनवारिराशिर्मीनेन युक्तो न हि कम्बवोऽत्र ।कम्बूपरिस्थस्त्वयमेव मातः सनेत्रमास्यं तव चैनमाहुः ॥८७॥अकलङ्कः किमु चन्द्रः किं वा सद्यः प्रफुल्लमम्बुभवम् ।सौन्दर्ययुतवपुष्मद्वक्त्रं किं वा तवाम्ब न हि जाने ॥८८॥भुजगी वा तव वेणी किं वा करपद्मपुष्परसलोभात् ।आगतमधुलिट्पटली जानीमो नैव विधिकान्ते ॥८९ ॥नागेन्द्रकुम्भावुत हेमकुम्भौ किमम्ब कोकौ तव किं कुचौ वा ।विवेक्तुमत्रास्तिन नोऽद्य शक्तिस्त्वमेव मातर्वद धातृजये ॥९०॥पयोजौ कूर्मौ वा सुरवरशिरोभूषणमणीतरू वा कल्पाद्यौ नतजनचयाभीष्टवरदौ । पदे वा मातस्ते न तदिति विवेक्तुं हि विभवोवयं तस्माच्छीघ्रं वद कमलजातप्रियतमे ॥९१॥निर्गत्यशैलमध्यात्कुहरं काचिद्गता भुजंगी ।तां शंसन्ति हि सुधियो मातस्तव नाभिरोमालिम् ॥९२॥सरस्या जातेयं न हि खलु कलिन्दाख्यगिरितःसमुद्रं नो याता ह्यपि तु वरशैलद्वयगता ।विभातीत्थं काचित्त्वयि खलु गिरां देवि यमुनावदन्त्येनां नाभिप्रसृततनुजालिं कविवराः ॥९३॥किं तत्पयोजयुग्मं रम्भास्तम्भौ ततो व्योम ।तत्र सरः समृणालं तदुपरि शैलौ ततः पयोजातम् ॥९४॥दृष्टं वाग्देवते ते सरसिजयुगलं पादयुग्मं हि रम्भास्तम्भावूरुद्वयंतत्तदुपरि गगनं मध्यभागो हि नूनम् ।मन्ये नाभिः सरः स्यात्तदुपरि कलये रोमपङ्क्तिं मृणालंशैलद्वन्द्वं कुचौ स्यात्तदुपरि कमलं त्वास्यमेवेति मन्ये ॥९५॥मां द्रष्टुमाकाशगतं हि मर्त्या वक्त्रोन्नतेः क्लेशयुता भवेयुः ।इतीव मत्वा धरणीं गतोऽयमम्बास्यलक्ष्यात्तव पूर्णचन्द्रः ॥९६॥तवास्यलक्ष्याद्धरणीं गतस्य सुधांशुबिम्बस्य निषेवणाय ।मुक्तासराणां मिषतः समागात्ताराततिर्वाग्जननीति मन्ये ॥९७॥शारदे तव दाम्बुजयुग्मं ये स्मरन्ति मनुजा भुवि लोके ।श्रीमतां च विदुषां धुरि गण्यास्ते भवन्ति न हि तत्र विचारः ॥९८॥वाताहताब्धिलहरीततितौल्यभाजोवाचः प्रयत्नमनपेक्ष्य मुखारविन्दात् ।वादेषु यत्करुणया प्रगलन्ति पुंसांवाग्देवता भवतु वाञ्छितसिद्धये सा ॥१००॥यस्त्वामिन्दुनिबद्धदिव्यमकुटां शुक्लाम्बरालंकृतांमुद्रापुस्तकमालिकामृतघटान्संबिभ्रतीं ध्यायति ।तस्यास्यात्सरसा सुवर्णघटिता सालंकृता वाक्तति-स्तूर्णं निःसरति प्रयत्नरहिता निःसंशयं भारति ॥१०१॥अनायासादास्यादमरतटिनीपूरसदृशी ततिर्वाचामाशु प्रसरति शिशोरप्यनुदिनम् ।कृपालम्बापाङ्गे कृशतरवलग्नेऽकृशकुचे न संदेह्यत्राहं सरसिजभवप्राणदयिते ॥१०२॥कदाचिदपि यो नरस्तव पदाम्बुजं भक्तितोविभावयति शारदे हृदयपङ्कजे तस्य हि ।व्रजेयुरपि दासतां नृपवर्गस्तथा वाक्ततिःसुधाशितटिनीसखी वदनपद्मतो निःसरेत् ॥१०३॥जडोऽपि जगदम्बिके तव कृपायुतं वीक्षणं प्रपद्यसुरनायकं जयति सत्वरं संपदा ।मुखाम्बुजनिरर्गलप्रविगलद्वचोवैखरीविनिर्जितसुरापगास्मयभरश्च संजायते ॥१०४॥शिवे त्वदङ्घ्रिपङ्कजप्रणम्रवाग्झरीजिता तुषारशैलगह्वरं जगाम जह्नुकन्यका ।ततस्ततोऽपि तावकप्रणम्रकीर्तितर्जिताशिवस्य शैलकन्यका जटाख्यदुर्गमाविशत् ॥१०५॥के वा न कुर्युर्भुवि काव्यमम्ब शब्दार्थविज्ञानयुजश्चिराय ।चित्रं त्वदङ्घ्रिं परिसेवते यो जयेत्स वाचस्पतिमाशु वाग्मिः ॥१०६॥पञ्चास्यषण्मुखचतुर्मुखनागराजाः स्तोतुंन तेऽम्ब चरितं प्रभवन्ति किंचित् ।एकाननः कथमहं तव शक्नुयां तत्स्तोतुं तथापि चपलं प्रसहस्व सूनोः ॥१०७॥यावद्वाचां सवित्रि प्रणतजनवचोदानबद्धादरे तेपादाम्भोजं प्रणन्तुं कलयति धिषणां जन्ममूकोऽपि लोकः ।तावद्देवेन्द्रदत्तप्रवरमणिगणाबद्धपीठस्य मध्यादुत्थायाशुप्रधावत्यमरगुरुरहो मामयं जेष्यतीति ॥१०८॥मुक्ताहारमिषाज्जगज्जननि ते सेवां करोत्यादराद्देवानांसरिदित्यहो मकरराडालोच्य सेवां स्वयम् ।कर्तुं हारमिषेण कम्बुसदृशे कण्ठे विभातीति मच्चित्तेभाति पुनर्वदन्तु चतुराः किं तं न जानाम्यहम् ॥१०९॥पापीयानिति संजहासि करुणावारांनिधे शारदेसर्वाघौघपयोधिबाडवशिखे त्वं मामनाथं यदि ।तर्ह्येतादृशपापकोटिसहितं सर्वैश्च दूरीकृतंको वा मां परिपालयेत्कमलजप्राणप्रिये ब्रूहि मे ॥११०॥( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव- नृसिंहभारतीस्वामिभिः विरचितः)भक्तिहीन इति मां जहासि किं मातरद्य जलजासनप्रिये ।संत्यजन्तु भुवि तर्हि मातरस्तद्वदेव निजकुक्षिजान्सुतान् ॥१११॥विरिञ्चिहरिशङ्करप्रभृतिनिर्जराग्र्यार्चितेप्रणम्रजड्तातमस्ततिविभेदसूर्यप्रभे ।नमत्सुरसतीकचप्रविलसत्प्रसूनस्रव-न्मरन्दतटिनीप्लवत्पदसरोरुहे पाहि माम् ॥११२॥ज्वारादिनिखिलामयान्करुणया गिरामम्बिकेनिवारय विभावरीपतिसमानवक्त्राम्बुजे ।स्वरादिभुवनाधिपप्रणतपादपाथोरुहे करादृतसुधेऽनिशंदिश सुखं जनानां मुदा ॥११३॥पद्मासनस्थे सरसीरुहोत्थजाये वस त्वं ह्रुदये सदा मे ।तेनाहमाशाः सकलाः जयेयं न तत्र संदेहलवोऽस्ति मेऽम्ब ॥११४॥यं देववर्याः समुपासते हि तं देहिनामिष्टदमाशु मातः ।मन्देतराप्यं सुजडः कथं वा विन्देयमङ्घ्रिं तव वाक्सवित्रि ॥११५॥समस्तवस्तून्यपि सन्ति मातस्त्वत्संनिधौ किं तु न मन्मनोऽस्ति ।तत्र प्रमाणं जनिरेव मेऽद्य तदप्यतस्त्वं कुरु संनिधौ ते ॥११६॥लोकप्रसिद्धाब्धिततेस्तु मानमाहुर्द्विलक्षाधिक योजनानि ।नाद्राक्ष्म नाश्रौष्म भवत्कृपाब्धेर्मानं पयोजातभवस्य जाये ॥११७॥न पूजिता त्वं कुसुमैर्मनोज्ञैर्न संस्तुता हृद्यपदैश्च पद्यैः ।न संस्मृता हृत्कमलेऽपि जातु तथापि मातर्दयसे जनेऽस्मिन् ॥११८॥नैवाहमानीय सुमानि दिव्यान्याराधनं तेऽकरवं कदापि ।तथापि मातः सहजानुकम्पायुतैः कटाक्षैः परिपाहि मां त्वम् ॥११९॥ये प्राणरोधप्रमुखान्प्रयत्नान्कुर्वन्ति लोकाः स्वसमीहिताय ।ते नैव जानन्ति परं प्रणामं तवाम्ब कल्पद्रुमबद्धसख्यम् ॥१२०॥अव्याजकारुण्यमयि प्रसीद सुव्याहृतीनां ततिमाशु यच्छ ।नव्यानि काव्यानि करोमि मातः क्रव्यादवैरिप्रमुखामरेड्ये ॥१२१॥तिष्ये युगे सङ्घगता हि शक्तिरितीव सम्यक्परिचिन्त्य देव्याः ।नासासदृक्षत्वमहोऽधिगन्तुं मालात्वमापुः खलु चम्पकानि ॥१२२॥चम्पकसुमानि मातर्नूनं नासासदृक्षतां गन्तुम् ।सततं मालाव्याजात्सेवन्ते पङ्कजातभवजाये ॥१२३॥अव जगदम्ब सदा मां सवमुख्यकर्मभिस्तुष्टे ।नवनवकवित्वदानप्रवणे कञ्जातजन्मसुकृतमये ॥१२४॥करुणापूरितनयने वरुणादिदिगीशसेव्यपदपद्मे ।अरुणाधरजितबिम्बे तरुणाब्जमुखि प्रदेहि मम सौख्यम् ॥१२५॥स्फुर जगदम्ब सदा मे मानसपद्मे सरोजभवजाये ।वरदाननिरतपाणे वीणापाणेऽधरे शोणे ॥१२६॥राकाचन्द्रसदृक्षं तव मुखपद्मं हृदम्बुजे स्मरताम् ।कविता चेटीभूयात्तत्राम्ब न मेऽस्ति संदेहः ॥१२७॥कन्यां कुलशैलपतेर्मान्यां मुरवैरिमुख्यदेवततेः ।नौकां भवाम्बुराशेर्नौम्यहमनिशं शशाङ्कशिशुशीर्षाम् ॥१२८॥कांचन काञ्चनगर्वन्यक्कारधुरीणदेहकान्तिझरीम् ।कमनीयकवनदात्रीं कमलासनसुकृतसन्ततिं कलये ॥१२९॥तनुजितगाङ्गेयरुचिः करधृतरुद्राक्षमालिकाकुम्भा ।तनुतात्तामरसासनजाया जाड्यौघवारणं शीघ्रम् ॥१३०॥मन्मूर्तिनीकाशतनुं सृजाशु प्रविश्य तस्यां कुरु वासमत्र ।व्याख्यानपीठे जगतां सुखाय चिराय मातर्वचसां सवित्रि ॥१३१॥ममास्यमद्ध्यादपशब्दयुग्वाङ् न निःसरेद्वाणि कृपापयोधे ।स्वप्नेऽपि लीलार्थकृतेषु जल्पेष्वपि प्रपन्नावनबद्धदीक्षे ॥१३२॥यां तुष्टुवुः श्रुतिशतैर्मुनिसार्वभौमाः पाशापनोदचतुरां परमेष्ठिपत्नीम् ।तां तुच्छसर्वविषयेषु विरक्तिदात्रीं श्रीशारदां कलितचन्द्रकलां नमामि ॥१३३॥ये त्वत्पदाम्बुजसमर्चनलब्धहर्षा रोमाञ्चगद्गदगिरः स्रवदक्षिपद्माः ।ते पावयन्ति धरणीं स्वपदाब्जसङ्गान्नास्त्यत्र कोऽपि विशयो वचसां सवित्रि ॥१३४॥चन्द्रश्चकोरालिमयं करैः स्वैः करोति तृप्तां सितपक्ष एव ।तवास्यचन्द्रस्तु नमच्चकोरान्करोति मातः सततं हि तृप्तान् ॥१३५॥आगच्छत मत्पादौ प्रणमत भजतेष्टनिखिलसंपत्तीः ।इति नम्रांस्त्वरयसि किं प्रसारितेनाम्ब हस्तपद्मेन ॥१३६॥वाणी वीणां हस्तपद्मे निधाय स्वीयं भावं दर्शयत्यम्बिकासौ ।स्थित्वा केक्यां भावमप्यन्यदीयं सर्वात्मत्वद्योतनायेति मन्ये ॥१३७॥पीताम्बराद्याः सुरनायका मे पदाग्रनम्रा इति बोधनाय ।पादाग्रलम्बि प्रदधासि मातः पीताम्बरं किं वद धातृजाये ॥१३८॥आदर्शमब्जावसतिः कदापि नास्तीति लोकप्रचुरः प्रवादः ।किमन्यथाकर्तुमिमं करोषि पादाब्जमादर्शकृतप्रचारम् ॥१३९॥आदर्शवत्स्वच्छतरेषु चित्तेष्वेवांघ्रिपद्मं मम भाति सम्यक् ।इत्यर्थमावेदयितुं नतानामादर्शवृत्तिं प्रकरोषि पादम् ॥१४०॥सकृत्प्रणन्तॄनपि भक्तलोकाननेकधा किं प्रणतान्विभाव्य ।तदानुगुण्येन फलानि दातुमादर्शमङ्घ्रेः सविधे दधासि ॥१४१॥लब्धप्रतिष्ठः परिपूर्णचन्द्रे करोमि वासं कथमर्धचन्द्रे ।एवं कलङ्कः परिचिन्त्य नीलरत्नापदेशात्किमु भाति शीर्षे ॥१४२॥कमलासनस्य पत्युर्ध्यानात्सततं पतिव्रते किमिदम् ।कमलासनत्वमागाः स्वयमपि वाचां सवित्रि मे ब्रूहि ॥१४३॥सतां हृदब्जेषु वसाम्यजस्रमित्यर्थमावेदयितुं जनानाम् ।पद्मे निवासं प्रकरोषि मातः किं पद्मयोनेर्दयिते वदास्मै ॥१४४॥हस्तेनादाय शीघ्रं नतहृदयसरोजातमीशे गिरां किंचाञ्चल्यं तत्र दृष्ट्वा बहुलमथ निजं ह्यासनत्वं प्रकल्प्य ।अध्यास्ते स्थैर्यसिद्ध्यै परमिह भवती भर्तृयुक्ता ह्यजस्रंमातुः पुत्रेषु पूर्णा प्रभवति करुणा हेतुशून्यैव वाणि ॥१४५॥रथस्थितां मां मनुजा जगत्यां पश्यन्ति ये भक्तियुतान्तरङ्गाः ।मनोरथावाप्तिरशेषतः स्यात्तेषामपि द्योतयितुं रथस्था ॥१४६॥पद्मासनस्थितौ मम पादयोः स्फुटता भवेन्नैव ।नम्रजनानामिति किं तिष्ठसि पादौ विवृण्वाना ॥१४७॥उपविष्टायास्तन्द्री कदाचिदपि मे नतावने प्रभवेत् ।इति तिष्ठसि किमु नम्रांस्तन्द्राहीनाऽवितुं गिरां देवि ॥१४८॥मत्पादाम्बुजसेवकानतिजवात्संसारवारांनिधे-राकृष्योद्धरणं विधेयमधुनेत्युत्थाय पद्मासनात् ।यो वा कस्श्चिदिहैत्य जन्मजलधौ मग्नोऽहमस्मीत्यतोमां रक्षेति समाह्वयेदिति मुदा तिष्ठस्यहो वाणि किम् ॥१४९॥आकर्षति यथायांसि ह्ययस्कान्तमणिर्द्रुतम् ।तथैव त्वन्मुखांभोजं नतचित्तानि शारदे ॥१५०॥धातुः पुण्यततिः काचिद्वाचां धाटीं ददातु मे ।यां दृष्ट्वा लज्जितो भूयात्सुराचार्योऽपि तादृशीम् ॥१५१॥कटाक्षजितनीलाब्जा करिकुम्भनिभस्तनी ।करोतु मम कल्याणं कमलासनकामिनी ॥१५२॥कञ्जभवपुण्यराशेकम्रस्मितजितचकोरबन्धुचये ।कंस(ज)मदमर्दनचणे कञ्चनपुरुषार्थमर्थयन्नौमि ॥१५३॥मतिजितसुरगुरुगर्वान्प्रकुर्वतीं शीघ्रमेव पदनम्रान् ।कलये हृदि जगदम्बां करपद्मलसत्सुधाकुम्भाम् ॥१५४॥उन्नम्योन्नम्य सन्ध्यादिचन्द्रराजतपात्रकम् ।यामिनीकामिनी ताराकुसुमानि चिनोति किम् ॥१५५॥तीरात्तीरं चरन्ती कमलजदयिता पोतवर्येण मोदा-त्कारुण्याक्रान्तचेता नतनरनिकरं बोधयत्येनमर्थम् ।संसारापारसिन्धुं मम पदसरसीजातविन्यस्तबुद्धी-न्भक्त्याख्येनोडुपेन द्रुतमिह मनुजांस्तारयामीति नूनम् ॥१५६॥वनजासनवरमानिनि सम्यक्कर्तुं किमासनं पत्युः ।वनजानि पत्रपुष्पाण्यानयसे कक्षपाणिपद्मैस्त्वम् ॥१५७॥ग्रामीणपुष्पवृन्दं दृष्ट्वा दृष्ट्वानुघस्रमम्ब किमु ।वनजानि पुष्पवर्याण्यानयसे किंविधानीति ॥१५८॥अवनरतायाः किमु मम पदे पदे नैव भवति वनगमनम् ।इत्येकदैव वनजान्यानयसे कक्षमध्येन ॥१५९॥दण्डधृद्भयनिवारणेच्छुभिर्दम्भमोहमुखदोषवर्जितैः ।दण्डितेन्द्रियचयैर्निषेविते दन्तितुल्यगमनेऽव शारदे ॥१६०॥वाचामीशः प्रभवति यदालोकमात्राज्जडाग्र्योनाकाधीशः प्रभवति तथा रङ्कवर्योऽपि लोके ।तच्चन्द्राब्जप्रमुखनिबिडाहंकृतेर्भेददक्षंनित्यं वक्त्रं हृदयकुहरे भावयामि त्वदीयम् ॥१६१॥अतिचपलं मम हृदयं तव रूपं चातिसूक्ष्ममिति निगमाः ।कथमम्ब मामकीनं मन एतद्वेत्तु तावकं रूपम् ॥१६२॥ऐंकारस्तव बीजं वदने मम वसतु सर्वदा वाणितेनाहं सकलार्थान्क्षिप्रं संसाधयामि नो विशयः ॥१६३॥ ॥इति श्रीशारदास्तोत्रं संपूर्णम् ॥ N/A References : N/A Last Updated : February 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP