मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे| उषसि मागधमंगलगायनै- र्झटि... अन्य देवता स्तोत्रे उमासहस्रम् ॥ श्रीगणेशायनम: । श्रीसरस... श्रीपाद श्रीवल्लभ त्वं सद... अङ्गारकः शक्तिधरो लोहिताङ... अथ कीलकम् ॐ अस्य श्रीकीलक... स्तोत्रदिनमपि रजनी सायं प... नमोऽस्तु नारायणमन्दिराय न... अनंत, वासुकी, शेषं, पद्मन... श्री गणेशाय नमः । ब्रह्मो... श्री यादगिरि लक्ष्मीनृसिं... श्रीमत्पयोनिधिनिकेतनचक्रप... श्रीमत्पयोनिधिनिकेतनचक्रप... सद्गुरुं सच्चिदानन्दं केव... पद्माधिराजे गरुडाधिराजे व... विशुद्धं परं सच्चिदानन्दर... प्रणम्य शिरसा देवं गौरीपु... रविरुद्र पितामह विष्णूनुत... शिव उवाच श्रुणु देवि प्र... श्रीमदनन्त श्रीविभूषित अप... पाण्ड्यभूपतीन्द्र पूर्व प... करिवरानुज कलियुग वरदा वीर... आशानुरूपफलदं चरणारविन्द भ... आशानुरूपफलदं चरणारविन्द भ... लोकवीरं महापूज्यं सर्वरक्... पादारविन्द भक्तलोकपालनैकल... श्रितानन्दचिन्तामणिश्रीनि... अस्य श्री हरिहरपुत्राष्टो... हरिवरासनं विश्वमोहनं हरिध... श्रीदेव्युवाच भगवन् देवदे... भूताधिपं भजे भूताधिपं दिव... पूर्वन्यासः अस्य श्री इन्... करकलितचापबाणां कल्हाराङ्घ... कारणापरचिद्रपा कञ्चीपुरसी... श्रीगुरुचरणसरोजं श्रीकरभव... अनन्तं वासुकिं शेषं पद्मन... हयग्रीव हयग्रीव हयग्रीवेत... ॥ श्रीः ॥ ॐ ब्रह्मर्षिभ्य... करिवरानुज कलियुग वरदा वीर... भूताधिपं भजे भूताधिपं दिव... राजान ऊचुः । गद्यानि । जय... श्रीमदानन्दतीर्थ-भगवत्पाद... कार्तवीर्यार्जुनो नाम राज... कुलाचला यस्य महीं द्विजेभ... ऋषिरुवाच । यमाहुर्वासुदेव... उद्धव उवाच । चेतनं कुरु क... उद्धव उवाच । वन्दे राधापद... श्रीनारायण उवाच । राधा रा... ब्रह्मोवाच । हे मातस्त्वत... राधा रासेश्वरी रम्या कृष्... उद्धव उवाच । वन्दे राधापद... ब्रह्मोवाच । तव चरणसरोजे ... श्री स्कन्द उवाच योगीश्वर... ओङ्कार-नगरस्थं तं निगमान्... ॐ सौं शरवणभवः शरच्चन्द्रा... ॐ श्रीं सौं शरवणभवाय नमः ... ज्ञानशक्तिधरः स्कन्दः देव... पुरहरनन्दन रिपुकुलभञ्जन, ... जय वज्रिसुताकान्त जय शङ्क... षडाननं कुङ्कुमरक्तवर्णं म... विमलनिजपदाब्जं वेदवेदान्त... आदौ विघ्नेश्वर पूजां कृत्... भजेहं कुमारं भवानी कुमारं... शिवयोसूनुजायास्तु श्रितमन... श्रीमन्मेरुधराधराधिप महास... सुब्रह्मण्यं प्रणाम्यहं स... ॐ ह्रीं सां रुद्रकुमाराय ... भक्त सञ्जीवनं भस्म विभूषण... वेङ्कटेशो वासुदेवः प्रद्य... अगणितगुणमप्रमेयमाद्यं सकल... न मन्त्रं नो यन्त्रं तदपि... अनंतसंसारसमुद्रतार-नौकायि... गोविन्दं गोकुलानन्दं गोपा... श्रीविद्ये शिववामभागनिलये... ध्यायेत् हेमांबुजारूढां व... बन्धूकवर्णामरुणां सुगात्र... गौरीं काञ्चनपद्मिनीतटगृहा... अस्य श्री रङ्गराज नामरत्न... नारद उवाच अनायासेन लोकोऽय... नमस्तुलसि कल्याणि नमो विष... राजलक्ष्मीस्थिरत्वाय येथे... मेघाङ्गीं विगताम्बरां शवश... सरस्वति नमस्तुभ्यं वरदे क... भक्तानशोकान्विदधामि शीघ्र... पापिषु प्रथमतो गणनीयं पुण... आसेतुशीतगिरिमध्यनिवासलोका... निदानमनुकम्पायाः पदाधःकृत... ऊँ अस्य श्रीसरस्वतीस्तोत्... गुरुवन्दना- अज्ञानाब्धिनि... रविरुद्रपितामहविष्णुनुतं ... श्वेतपद्मासना देवी श्वेतप... नीहारहारघनसारसुधाकराभां क... मातापितृसहस्राणि पुत्रदार... लोकनाथश्चिदाकारोराजमानः स... ऊँ ह्रीं ऋतं त्वमचलो गुणज... श्रीरामकृष्णप्रणामः स्थाप... सामाख्याद्यैर्गीतिसुमधुरै... घनचेतनमक्रियमादिमजं चिर-न... ब्रह्मरूपमादिमध्यशेषसर्वभ... प्रकृतिं परमामभयां वरदां ... प्रातः स्मरामि जगतो भव-भा... ब्रह्मयुक्तनित्यशक्तिसृष्... नमस्ते सते सर्वलोकाश्रयाय... सुनिर्मलज्ञानसुखैकरूपंप्र... मत्तरोगशिरोपरिस्थितनृत्यम... शंखं चक्रं गदाम् च क्षयित... हृदयकमलमध्ये राजितं निर्व... गुरुर्ब्रह्मा गुरुर्विष्ण... नमस्ते ललिते देवि श्रीमत्... ध्यायेच्चित्तसरोजस्थां सु... कान्तस्ते पुरुषोत्तमः फणि... गुरुतीर्थपयोब्धिपारा कामा... पूज्याय राघवेन्द्राय सत्य... किरातवराह ऋषिः अनुष्टुप् ... महिम्नस्तेऽपारं सकलसुखसार... ध्यानम् अतिमधुरचापहस्तां ... आशीविषविषविषमैः निमिषोन्म... हंसाय भुवनध्वान्तध्वंसाया... श्रीमान् वेङ्कटनाथार्यः क... कस्तूरीपङ्कभास्वद्गलचलदमल... देवा ऊचुः ब्रह्मणे ब्रह्म... नमो हिरण्यगर्भाय ब्रह्मणे... गुरुर्बृहस्पतिर्ज्जीवः सु... मङ्गलो भूमिपुत्रश्च ऋणहर्... चन्द्रस्य शृणु नामानि शुभ... गणेशविष्णुसूर्येशदुर्गाख्... पापानि यानि रविसूनुपटस्थि... श्रितानन्द चिन्तामणि श्री... रत्नावलीनिर्मितशैलशृङ्गवि... हरे राम हरे राम राम राम ह... अद्भुतविग्रह अमराधीश्वर अ... करुणावरुणालय सर्वपते तरुण... श्रीसूर्यध्यानम् रक्तांबु... आयुर्बलं यशोवर्चः प्रजाः ... ग्रहाणामादिरादित्यो लोकरक... जगद्धात्रि नमस्तुभ्यं विष... ब्रह्मादयः सुरगणा मुनयोऽथ... त्वमेकः शुद्धोऽसि त्वयि न... जगदीश सुधीश भवेश विभो परम... श्रीभगवानुवाच – बृंदा रू... वृत्तोत्फुल्लविशालाक्षं व... देवताकार्यसिद्ध्यर्थं सभा... स्वादयन्निह सर्वेषां त्रय... श्रीमान् वेङ्कटनाथार्यः क... नित्यानन्दकरी वराभयकरी सौ... कल्य़ाणरूपाय कलौ जनानां क... श्रियः कान्ताय कल्याणनिधय... वेङ्कटेशो वासुदेवः वारिजा... कमलाकुचचूचुककुङ्कुमतो निय... अंबरगंगाचुंबितपादः पदतलवि... ततो युद्धपरिश्रान्तं समरे... मम न भजनशक्तिः पादयोस्ते ... ऒमित्येतद्यस्य बुधैर्नाम ... कैलासे कमनीयरत्नखचिते कल्... काञ्चीनूपुररत्नकङ्कणलसत्क... मूलाम्भोरुहमध्यकोणविलसत् ... आधारभूते चाधेये धृत... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... शम्भो महादेवदेव शिवशम्भो ... प्रातः स्मरामि परमेश्वर-व... स्फुरत्सहस्रारशिखातितीव्र... वेङ्कटॆशो वासुदेवः वारिजा... श्रियः कान्ताय कल्याणनिधय... अहॊबिलं नारसिंहं गत्वा रा... श्रीमत् पयोनिधिनिकेतन चक्... सप्तप्राकारमध्ये सरसिजमुक... हरिर्हरतिपापानि दुष्टचित्... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... आदित्यादिप्रभृतिकमिदं चक्... न भूमिर्न तोयं न तेजो न व... मन्दस्मितं स्फुरितमुग्धमु... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... सुवक्षोजकुम्भां सुधापूर्ण... शारदा शारदाम्भोजवदना वदना... या कुन्देन्दुतुषारहारधवला... वेदपादस्तवं वक्ष्ये देव्य... मूषिकवाहन मोदकहस्त चामरकर... श्रीविद्ये शिववामभागनिलये... न मन्त्रं नॊ यन्त्रं तदपि... का त्वं शुभे शिवकरे सुखदु... कमाक्षिमातर्नमस्ते कामदान... नित्यानन्दकरी वराभयकरी सौ... आधारभूतेचाधेये धृतिरूपे ध... माणिक्यान्ञ्चितभूषणां मणि... काञ्चीनूपुररत्नकङ्कणलसत्क... अयिगिरिनन्दिनि नन्दितमेदि... माता नृसिंहः पिता नृसिंहः... श्रीमदानन्दतीर्थाय कल्याण... श्रीविद्ये शिववामभागनिलये... वन्दे नवघनश्यामं पीतकौशेय... ईश्वरः परमः कृष्णः सच्चिद... ध्यानम् चक्रं विद्या वर घ... श्रीशं कमलपत्राक्षं देवकी... बुधो बुद्धिमतां श्रेष्ठो ... अनुष्टुप् छन्दः शत्रुनिवा... भगवान् ऋषिः अनुष्टुप् छन्... मेघाङ्गीं विगताम्बरां शवश... अगणितगुणमप्रमेयमाद्यं सकल... सल्लोका विषयविरागिणो यदर्... हृदयकमलमध्ये राजितं निर्व... श्रीरामकृष्णगुरुदेवनिबद्ध... श्री देवी प्रथमं नाम द्वि... (शृङ्गेरि श्रीजगद्गुरु श... करोतु पदविन्यासान्कमलासनक... हेलया रचितचित्रविष्टपां च... भक्तानशोकान्विदधामि शीघ्र... निदानमनुकम्पायाः पदाधःकृत... श्वेतपद्मासना देवी श्वेतप... मातापितृसहस्राणि पुत्रदार... मातः समस्तजगतां परमस्य पु... श्रीरामकृष्णसहधर्मिणी भव्... ब्रह्मयुक्तनित्यशक्तिसृष्... आदिलक्ष्मि नमस्तेऽस्तु पर... ज्ञानानन्दामलात्मा कलिकलु... देवि सुरेश्वरि भगवति गङ्ग... ध्यायेच्चित्तसरोजस्थां सु... १. धनलक्ष्मी: या देवी सर... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... प्रणेतारः रामभद्राचार्याः... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... कस्तूरीपङ्कभास्वद्गलचलदमल... कामाक्षि देव्यंब तवार्द्र... श्री माधवी काननस्थे गर्भ... नमो देव्यै महादेव्यै सिद्... समुन्मीलन्नीलांबुजनिकरनीर... नमःशिवायै गंगायै शिवदायै ... श्रुत्वा गुणान् भुवनसुंदर... नित्यानन्दकरी वराभयकरी सौ... मयि कुरु मङ्गलमंबुजवासिनि... नित्याभूषा निगमशिरसां निस... आदिलक्ष्मीः द्विभुजाञ्च ... माणिक्यवीणामुपलालयन्तीं म... मम न भजनशक्तिः पादयोस्ते ... उषसि मागधमंगलगायनै- र्झटि... श्रीमत् कमलापुर कनकधराधरव... इत्थं नवनीरदनिर्गत-संस्फु... इत्थं दानवेन्द्रः हिरण्यक... काञ्चीनूपुररत्नकङ्कणलसत्क... आधारभूते चाधेये धृतिरूपे ... लीलालब्धस्थापितलुप्ताखिलल... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... सिन्दूरारुणकान्तिमब्जवसति... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... शृंगाद्रिवासाय विधिप्रिया... सुवक्षोजकुम्भां सुधापूर्ण... घोररूपे महारावे सर्वशत्रु... वेदपादस्तवं वक्ष्ये देव्य... लीलालब्धस्थापितलुप्ताखिलल... षडाधारपङ्केरुहान्तर्विराज... माणिक्यान्ञ्चितभूषणां मणि... नमो देव्यै प्रकृत्यै च वि... अष्टौ भुजाङ्गीं महिषस्यमर... श्रीशुक उवाच- विलोक्य दूष... गोविन्दं गोकुलानन्दं गोपा... भवानि स्तोतुं त्वां प्रभव... नन्दः पथि वचः शौरेर्न मृष... श्रीमते निगमान्तदेशिकाय न... नमः पन्नगनद्धाय वैकुण्ठवश... माता नृसिंहः पिता नृसिंहः... वेङ्कटेशो वासुदेवः प्रद्य... श्रीशंभो! मयि करुणाशिशिरा... नमः शिवाय पूर्णाय पूर्णमङ... दैवासुरैर्भावगणैरजस्रं प्... भक्तरक्षात्तदीक्ष, प्रोच्... श्रीसत्यसायिभगवन्, नरकान्... मृत्युञ्जयपुष्पाञ्जलिः कृष्णे गोकुलवासमुज्झितवति... शबलशिखण्डिशिखण्डकमण्डितहा... श्यामाभिरामशरणीकरणीयमूर्त... राजलक्ष्मीस्थिरत्वाय येथे... अद्राक्षमव्याजकृपामपारां ... पापिषु प्रथमतो गणनीयं पुण... श्रीराजमान मुखनिर्गतदिव्य... अनन्तोवासुकिः शेषः पद्मना... ॐकारवेद्यः पुरुषः पुराणो ... नमस्ते सते सर्वलोकाश्रयाय... नमस्ते ललिते देवि श्रीमत्... श्रीपूर्णबोध गुरुतीर्थपयो... पूज्याय राघवेन्द्राय सत्य... इन्द्रः श्लोकः ऐरावतगजा... आशीविषविषविषमैः निमिषोन्म... श्रीनीलकण्ठ गिरिजेश सुरेश... अचिकित्सचिकित्साय आद्यन्त... श्रीमान् वेङ्कटनाथार्यः क... मनः समाधौ परमार्थरङ्गं वि... नमो हिरण्यगर्भाय ब्रह्मणे... उत्थिष्ठ कृष्ण गुरुवायुपु... मङ्गलो भूमिपुत्रश्च ऋणहर्... पञ्चदेवतास्तोत्रम् पाण्ड्यभूपतीन्द्रपूर्वपुण... आशानुरूपफलदं चरणारविन्द- ... भगवत्स्तुतिः सन्मात्ररूपि... ॐ श्रीमदखिलाण्डकोटि ब्रह्... श्रीमदानन्दतीर्थाय कल्याण... हरे राम हरे राम राम राम ह... श्रीमान् वेङ्कटनिथार्यः क... इन्द्रद्युम्न उवाच । यज्ञ... शतानीक उवाच – महामते महाप... जनमेजय उवाच - शरतल्पेशया... अद्भुतविग्रह अमराधीश्वर अ... गतिगञ्जितमत्ततरद्विरदं रद... करुणावरुणालय सर्वपते तरुण... प्रातः स्मरामि तत्सवितुर्... स्कंद उवाच - योगीश्वरो मह... ॐ सर्वे वै देवा देवीमुपतस... दक्षाधःकरपल्लवे लसदसिं दक... आयुर्बलं यशोवर्चः प्रजाः ... दाल्भ्य उवाच- कार्यारंभे... वाणीं जितशुकवाणीं अलिकुलव... जगदीश सुधीश भवेश विभो परम... अहं मद्रक्षणभरो मद्रक्षणफ... स्वादयन्निह सर्वेषां त्रय... ईश्वर उवाच- वृत्तोत्फुल्... स्वादयन्निह सर्वेषां त्रय... श्रीपराशर भट्टार्यः श्रीर... चिदचित्परतत्त्वानां तत्त्... देवो नश्शुभमातनोतुदशधा नि... श्रीवत्सचिह्नमिश्रेभ्यो न... वन्देऽहं वरदार्यं तं वत्स... श्रीशैलेशदयापात्रं धीभक्त... हेमाद्रिशिखराकारं शुद्धस्... ईशानां जगतोऽस्य वेङ्कटपते... कौसल्या सुप्रजा राम पूर्व... भज गोविन्दं भजगोविन्दं गो... दशकम् २४ हिरण्याक्षे पो... प्रथमं दशकम् त्वत्भक्तवर... हारनूपरकिरीटकुण्डलविभूषित... वन्दे मुकुन्दमरविन्ददलायत... पुरस्तात् केशवः पातु चक्र... स्फुरत्सहस्रारशिखातितीव्र... अहोबिलं नारसिंहं गत्वा रा... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... जयति तेऽधिकं जन्मना व्रजः... न भूमिर्न तोयं न तेजो न व... कृपासमुद्रं सुमुखं त्रिने... रुद्रं पशुपतिं स्थाणुं नी... सत्यं ब्रवीमि परलोकहितं ब... हे स्वामिनाथार्तबन्धो भस्... किं नाहं पुत्रस्तव मातुः ... मूषिकवाहन मोदकहस्त चामरकर... कल्याणवृष्टिभिरिवामृतपूरि... कल्लोलोल्लसितामृताब्धिलहर... हारनूपरकिरीटकुण्डलविभूषित... आर्यासाहस्री नीलकन्ठ- वाहनं द्विषद्भुज... हे मातस्त्वत्पदाम्भोजं दृ... षष्टिवर्षसहस्राणि दिव्यान... तव पूजा जगन्मातर्लोकशिक्ष... एवमेव प्रियोऽहं ते प्रमोद... त्वं देवी जगतां माता विष्... तव चरणसरोजे मन्मनश्चरीको ... त्वं देवी जगतां माता विष्... श्री नारद उवाच अनायास... जगद्धात्रि!नमस्तुभ्यं विष... प्रातः स्मरामि हृदि संस्फ... भक्तामर- प्रणत- मौलिमणि- ... हयग्रीव हयग्रीव हयग्रीवेत... ॥ शांतिपाठः ॥ ॐ यो ब्रह... अपासकानां यदुपासनीयमुपात्... मूलेवटस्य मुनिपुङ्गवसेव्य... ॐमित्येतद्यस्य बुधैर्नाम ... ध्यानम् चन्द्रार्काग्नि... शम्भो महादेव देव शिव शम्भ... कैलासे कमनीयरत्नखचिते कल्... एवमारध्य गौरीशं देवं मृत्... श्रीगणेशाय नमः ॥ जय देव... श्रीगणेशाय नमः ॥ एकं ब्... श्रीगणेशाय नमः ॥ ॐ अस्य ... श्रीगणेशाय नमः ॥ विश्वं... श्रीगणेशाय नमः ॥ यं विज्... इंदुकोटि तेजकीर्ण सिंधुभक... यस्य नाम श्रुतेः सद्यो मृ... वेदो नित्यमधीयतां तदुदितं... वेदान्तवाक्येषु सदा रमन्त... निरुपमनित्यनिरंशकेऽप्यखण्... लब्धा विद्या राजमान्या तत... तपोयज्ञदानादिभिः शुद्धबुद... पुरे पौरान्पश्यन्नरयुवतिन... मनोबुद्ध्यहंकारचित्तानि न... अहं नामरो नैव मर्त्यो व द... स्तोष्ये भक्त्या विष्णुमन... किं ज्योतिस्तव भानुमानहनि... सकृच्छ्रवणमात्रेण ब्रह्मज... विदिताखिलशास्त्रसुधाजलधे ... मत्प्रियसखि मज्जिव्हे मय्... स्नातं तेन समस्ततीर्थसलिल... उद्धव उवाच । चेतनं कुरु... श्रीनारायण उवाच । राधा ... ब्रह्मोवाच । हे मातस्त्... ॥ अथ ब्रह्मेशशेषादिकृतम् ... राधा रासेश्वरी रम्या कृष्... महेश्वर उवाच । श्रीजगन्... सनत्कुमार उवाच - किं त्... नमस्तस्मै भगवते चैतन्याय ... महासाहसवृत्त्य स्वरूपलाभः... श्री गणेशाय नमः । श्री ... षडाननं चन्दनलेपिताङ्गं मह... सदा बालरूपाऽपि विघ्नाद्रि... उद्यदादित्य संकाशं उदार भ... ऋषय ऊचुः - सर्वशास्त्रा... देवीचतुःषष्ट्युपचारपूजास्तोत्रम् - उषसि मागधमंगलगायनै- र्झटि... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : devigoddessstotraदेवीस्तोत्र देवीचतुःषष्ट्युपचारपूजास्तोत्रम् (श्रीमच्छंकरभगवत्पादविरचितम्) Translation - भाषांतर उषसि मागधमंगलगायनै-र्झटिति जागृहि जागृहिअतिकृपार्द्रकटाक्षनिरीक्षणैःजगदिदं जगदंब सुखीकुरु ॥१॥कनकमयवितर्दिशोभमानंदिशि दिशि पूर्णसुवर्णकुंभयुक्तम् ।मणिमण्डपमध्यमेहि मात-र्मयि कृपयाशु समर्चनं गृहीतुम् ॥२॥कनककलशशोभमानशीर्षंजलधरलंबि समुल्लसत्पताकम् ।भगवति तव संनिवासहेतोःमणिमयमन्दिरमेतदर्पयामि ॥३॥तपनीयमयी सुतूलिकाकमनीया मृदुलोत्तरच्छदा ।नवरत्नविभूषिता मयाशिबिकेयं जगदंब तेऽर्पिता ॥४॥कनकमयवितर्दिस्थापिते तूलिकाढ्येविविधकुसुमकीर्णे कोटिबालार्कवर्णे ।भगवति रमणीये रत्नसिंहासनेस्मि-न्नुपविश पदयुग्मं हेमपीठे निधाय ॥५॥मणिमौक्तिकनिर्मितं महान्तंकनकस्तंभचतुष्टयेन युक्तंकमनीयतमं भवानि तुभ्यंनवमुल्लोचमहं समर्पयामि ॥६॥दूर्वया सरसिजान्वितविष्णु-क्रान्तया च सहितं कुसुमाढ्यं ।पद्मयुग्मसदृशे पदयुग्मेपाद्यमेतदुररीकुरु मातः ॥७॥गन्धपुष्पयवसर्षपदूर्वा-संयुतं तिलकुशाक्षतमिश्रम् ।हेमपात्रनिहितं सह रत्नै-रर्घ्यमेतदुररीकुरु मातः ॥८॥जलजद्युतिना करेण जाती-फलतक्कोललवंगगन्धयुक्तैः ।अमृतैरमृतैरिवातिशीतै-र्भगवत्याचमनं विधीयताम् ॥९॥निहितं कनकस्य संपुटेपिहितं रत्नपिधानकेन यत्तदिदं जगदंब तेऽर्पितंमधुपर्कं जननि प्रगृह्यताम् ॥१०॥एतच्चंपकतैलमंब विविधैर्पुष्पैर्मुहुर्वासितंन्यस्तं रत्नमये सुवर्णचषके भृंगैर्भ्रमद्भिर्वृतम् ।सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मयाकेशेषु भ्रमरभ्रमेषु सकलेष्वंगेषु चालिप्यते ॥११॥मातः कुंकुमपङ्कनिर्मितमिदंदेहे तवोद्वर्तनंभक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः ।केशानामलकैर्विशोध्य विशदान् कस्तूरिकोदञ्चितैःस्नानं ते नवरत्नकुंभसहितैः संवासितोष्णोदकैः ॥१२॥दधिदुग्धघृतैः समाक्षिकैःसितया शर्करया समन्वितैःस्नपयामि तवाहमादरा-ज्जननि त्वां पुनरुष्णवारिभिः ॥१३॥एलोशीरसुवासितैर्सकुसुमैर्गंगादितीर्थोदकै-र्माणिक्यामलमौक्तिकामृतरसैर्स्वच्छैः सुवर्णोदकैः ।मन्त्रान्वैदिकतान्त्रिकान् परिपठन् सानन्दमत्यादरात्स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमंगीकुरु ॥१४॥बालार्कद्युतिदाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमंमातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।मुक्ताभिर्ग्रथितं सकञ्चुकमिदं स्वीकृत्य पीतप्रभंतप्तस्वर्णसमानवर्णमतुलं प्रावर्णमंगीकुरु ॥१५॥नवरत्नमये मयार्पितेकमनीये तपनीयपादुके ।सविलासमिदं पदद्वयंकृपया देवि तयोर्निधीयताम् ॥१६॥बहुभिरगरुधूपैः सादरं धूपयित्वाभगवति तव केशान् कङ्कतैर्मार्जयित्वा ।सुरभिभिररविन्दैश्चंपकैश्चार्चयित्वाझटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥१७॥सौवीराञ्जनमंब चक्षुषोस्तेविन्यस्तं कनकशलाकया मया यत् ।तन्न्यूनं मलिनमपि त्वदक्षिसंगात्ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥१८॥मञ्जीरे पदयोर्निधानरुचिरां विन्यस्य काञ्चीम् कटौमुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले ।केयूराणि भुजेषु रत्नवलयश्रेणींकरेषु क्रमा-त्ताटङ्के तव कर्णोयो र्विनिदधे शीर्षे च चूडामणिम् ॥१९॥धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थलेमुक्ताराजिविराजमानतिलकंनासापुटे मौक्तिकम् ।मातर्मौक्तिकजालिकाम् च कुचयोः सर्वांगुलीषूर्मिकाःकट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥२०॥मातः फालतले तवातिविमले काश्मीरकस्तूरिका-कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवंपादौ चन्दनलेपनादिभिरहं संपूजयामि क्रमात् ॥२१॥रत्नाक्षतैस्त्वां परिपूजयामिमुक्ताफलैर्वा रुचिरैरविद्धैः ।अखण्डितैर्देवि यवादिभिर्वाकाश्मीरपङ्काङ्किततण्डुलैर्वा ॥२२॥जननि चंपकतैलमिदं पुरोमृगमदोपयुतं पटवासकम् ।सुरभिगन्धमिदं च चतुःसमंसपदि सर्वमिदं परिगृह्यताम् ॥२३॥सीमन्ते ते भगवति मया सादरं न्यस्तमेत-त्सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति ।बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ति-रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥२४॥मन्दारकुन्दकरवीरलवंगपुष्पै-स्त्वां देवि संततमहं परिपूजयामि ।जातीजपावकुलचंपककेतकादि-नानाविधानि कुसुमानि च तेऽर्पयामि ॥२५॥मालतीवकुलहेमपुष्पिकाकाञ्चनारकरवीरकैतकैःकर्णिकारगिरिकर्णिकादिभिःपूजयामि जगदंब ते वपुः ॥२६॥पारिजातशतपत्रपाटलै-र्मल्लिकावकुलचंपकादिभिः ।अंबुजैः सुकुसुमैश्च सादरंपूजयामि जगदंब ते वपुः ॥२७॥लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैःकर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोटितैः ।श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमंगीकुरु ॥२८॥रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोटितै-र्दीपैर्दीर्घतरांधकारभिदुरैर्बालार्ककोटिप्रभैः ।आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथामातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥२९॥मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाःसूपापूपसिताघृतैः सवटकैः सक्षौद्ररंभाफलैः ।एलाजीरकहिंगुनागरनिशाकुस्तुंभरीसंस्कृतैःशाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन् ॥३०॥सापूपसूपदधिदुग्धसिताघृतानिसुस्वादुभक्तपरमान्नपुरःसराणि ।शाकोल्लसन्मरिचिजीरकबाह्लिकानिभक्ष्याणि भुङ्क्ष्व जगदंब मयार्पितानि ॥३१॥क्षीरमेतदिदमुत्तमोत्तमंप्राज्यमाज्यमिदमुज्ज्वलं मधु ।मातरेतदमृतोपमं पयःसंभ्रमेण परिपीयतां मुहुः ॥३२॥उष्णोदकैः पाणियुगं मुखं चप्रक्षाल्य मातः कलधौतपात्रे ।कर्पूरमिश्रेण सकुंकुमेनहस्तौ समुद्वर्तय चन्दनेन ॥३३॥अतिशीतमुशीरवासितंतपनीये कलशे निवेशितम् ।पटपूतमिदं जितामृतंशुचि गंगाजलमंब पीयताम् ॥३४॥जंब्वाम्ररंभाफलसंयुतानिद्राक्षाफलक्षौद्रसमन्वितानि ।सनारिकेलानि सदाडिमानिफलानि ते देवि समर्पयामि ॥३५॥कूश्माण्डकोशातकिसंयुतानिजंबीरनारंगसमन्वितानि ।सबीजपूराणि सबादराणिफलानि ते देवि समर्पयामि ॥३६॥कर्पूरेणयुतैर्लवंगसहितैस्तक्कोलचूर्णान्वितैःसुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः ।मातः कैतकपत्रपाण्डुरुचिभिस्तांबूलवल्लीदलैःसानन्दं मुखमण्डनार्थमतुलं तांबूलमंगीकुरु ॥३७॥एलालवंगादिसमन्वितानितक्कोलकर्पूरविमिश्रितानि ।तांबूलवल्लीदलसंयुतानिपूगानि ते देवि समर्पयामि ॥३८॥ तांबूलनिर्जितसुतप्तसुवर्णवर्णंस्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तं ।सौवर्णपात्रनिहितं खदिरेण सार्धंतांबूलमंब वदनांबुरुहे गृहाण ॥३९॥महति कनकपात्रे स्थापयित्वा विशालान्डमरुसदृशरूपान् बद्धगोधूमदीपान् ।बहुघृतमथ तेषु न्यस्य दीपान् प्रकृष्टान्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥४०॥सविनयमथ दत्वा जानुयुग्मं धरण्यांसपदि शिरसि धृत्वा पात्रमारार्तिकस्य ।मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारंभ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥४१॥अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्यत्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः ।मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तांजननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥४२॥मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभंनानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् ।भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतंछत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥४३॥शरदिन्दुमरीचिगौरवर्णै-र्मणिमुक्ताविलसत्सुवर्णदण्डैः ।जगदंब विचित्रचामरैस्त्वा-महमानन्दभरेण वीजयामि ॥४४॥मार्ताण्डमण्डलनिभो जगदंब योऽयंभक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।पूर्णेन्दुबिंबरुचिरं वदनं स्वकीय-मस्मिन्विलोकय विलोलविलोचने त्वम् ॥४५॥इन्द्रादयो नतिनतैर्मकुटप्रदीपै-र्नीराजयन्ति सततं तव पादपीठम् ।तस्मादहं तव समस्तशरीरमेत-न्नीराजयामि जगदंब सहस्रदीपैः ॥४६॥प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तःकनकमयविभूषः स्निग्धगंभीरघोषः ।भगवति कलितोऽयं वाहनार्थं मया तेतुरगशतसमेतो वायुवेगस्तुरंगः ॥४७॥मधुकरवृतकुंभन्यस्तसिन्दूररेणुःकनककलितघण्टाकिंकिणीशोभिकण्ठः ।श्रवणयुगलचञ्चच्चामरो मेघतुल्योजननि तव मुदे स्यान्मत्तमातंग एषः ॥४८॥द्रुततरतुरगैर्विराजमानंमणिमयचक्रचतुष्टयेन युक्तं ।कनकमयममुं वितानवन्तंभगवति ते हि रथं समर्पयामि ॥४९॥हयगजरथपत्तिशोभमानंदिशि दिशि दुन्दुभिमेघनादयुक्तं ।अतिबहु चतुरंगसैन्यमेतद्-भगवति भक्तिभरेण तेऽर्पयामि ॥५०॥परिघीकृतसप्तसागरंबहुसंपत्सहितं मयांब ते विपुलम् ।प्रबलं धरणीतलाभिधंदृढदुर्गं निखिलं समर्पयामि ॥५१॥शतपत्रयुतैः स्वभावशीतै-रतिसौरभ्ययुतैःपरागपीतैः ।भ्रमरीमुखरीकृतैरनन्तै-र्व्यजनैस्त्वां जगदंब वीजयामि ॥५२॥भ्रमरलुलितलोलकुन्तलाली-विगलितमाल्यविकीर्णरंगभूमिः ।इयमतिरुचुरा नटी नटन्तीतव हृदये मुदमातनोतु मातः ॥५३॥मुखनयनविलासलोलवेणी-विलसितनिर्जितलोलभृंगमालाः ।युवजनसुखकारि चारुलीलाभगवति ते पुरतः नटन्ति बालाः ॥५४॥भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराःस्मितमुखकमलोद्यद्दिव्यलावण्यपूराः ।अनुपमितसुवेषा वारयोषा नटन्तिपरभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥५५॥डमरुण्टिण्डिमजर्झरझल्लरी-मृदुरवद्रगडद्रगडादयः ।झटिति झाङ्कृतझांकृतझांकृतै-र्बहुदयं हृदयं सुखयन्तु ते ॥५६॥विपञ्चीषु सप्तस्वरान्वादयन्त्य-स्तव द्वारि गायन्ति गन्धर्वकन्याः ।क्षणं सावधानेन चित्तेन मातःसमाकर्णय त्वं मया प्रार्थितासि ॥५७॥अभिनयकमनीयैर्नर्तनैर्नर्तकीनांक्षणमपि रमयित्वा चेत एतत्त्वदीयम् ।स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै-र्भगवति भवदीयं मानसं रञ्जयामि ॥५८॥तवदेविगुणानुवर्णनेचतुरा नो चतुराननादयःतदिहैकमुखेषु जन्तुषुस्तवनं कस्तवकर्तुमीश्वरः ॥५९॥पदे पदे यत्परिपूजकेभ्यःसद्योऽश्वमेधादिफलं ददाति ।तत्सर्वपापक्षयहेतुभूतंप्रदक्षिणं ते परितः करोमि ॥६०॥रक्तोत्पलारक्तलताप्रभाभ्यांध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।अशेषबृन्दारकवन्दिताभ्यांनमो भवानीपदपंकजाभ्याम् ॥६१॥चरणनलिनयुग्मं पंकजैः पूजयित्वाकनककमलमालां कण्ठदेशेऽर्पयित्वा ।शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्तेहृदयकमलमध्ये देवि हर्षं तनोतु ॥६२॥अथ मणिमयमञ्चकाभिरामेकनकमयवितानराजमाने ।प्रसरदगरुधूपधूपितेऽस्मिन्भगवति भवनेऽस्तु ते निवासः ॥६३॥एतस्मिन्मणिखचिते सुवर्णपीठेत्रैलोक्याभयवरदौ निधाय हस्तौ ।विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मिन्पर्यंके कनकमये निषीद मातः ॥६४॥तव देवि सरोजचिह्नयोःपदयोर्निर्जितपद्मरागयोः ।अतिरक्ततरैरलक्तकैःपुनरुक्तां रचयामि रक्तताम् ॥६५॥अथ मातरुशीरवासितंनिजतांबूलरसेन रञ्जितम् ।तपनीयमये हि पट्टकेमुखगण्डूषजलं विधीयताम् ॥६६॥क्षणमथ जगदंब मञ्चकेऽस्मि-न्मृदुतलतूलिकया विराजमाने ।अतिरहसि मुदा शिवेनसार्धंसुखशयनं कुरु तत्र मां स्मरन्ती ॥६७॥मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्तांअक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।नानालंकारयुक्तां सुरमकुटमणीद्योतितस्वर्णपीठांसानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥६८॥एषा भक्त्या तव विरचिता या मया देवि पूजास्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व ।न्य़ूनं यत्तत्तव करुणया पूर्णतामेतु सद्यःसानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥६९॥पूजामिमां यः पठति प्रभातेमध्याह्नकाले यदि वा प्रदोषे ।धर्मार्थकामान् पुरुषोऽभ्युपैतिदेहावसाने शिवभावमेति ॥७०॥पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरःपूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ।प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत्वाग्वादिन्याः प्रसादेन वत्सरात्स कवीभवेत्॥ N/A References : N/A Last Updated : January 03, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP