मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
प्रथमं दशकम् त्वत्भक्तवर...

श्री जडभरतचरित्रम् - प्रथमं दशकम् त्वत्भक्तवर...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


प्रथमं दशकम्

त्वत्भक्तवर्यो भरतो महात्मा
निक्षिप्यराज्यं तनयेष्वसक्तः ।
स गण्डकीतीरमवाप राजा
त्वत्पूजनार्थं पुलहाश्रमं ही ॥१॥

तत्रापि स त्वां तुलसीभिरीशं
कृष्णं समर्चन् गुरुवातनाथ ।
ध्यायन् प्रपंचं भवदंगभूतं
निनाय कालं प्रणवं जपंश्च ॥२॥

यज्ञॆश गोविन्द हृषीकनाथ
हेऽनन्त कृष्णाच्युत माधवेति ।
स्वप्नेऽपि राजा भवदीयनामा-
न्यनारतं संकथयन्ननाम ॥३॥

किरीटिनं कुण्डलिनं गदाब्ज-
शंखारिपाणिं नवनीरदाभम् ।
कुन्दाभदन्तं कमनीयगात्रं
पीताम्बरं त्वां मनसाऽस्मरत्स ॥४॥

मन्दारमालापरिवीतकण्ठं
मनोहरं मञ्जुलभाषणं त्वाम् ।
दिव्योर्ध्वपुण्ड्रं बहुरत्नभूषं
मुक्तादिहारं मनसाऽस्मरत्स ॥५॥

नदीतटेऽस्मिन् जपतः कदाचित्
तृषाकुलाऽगात् हरिणी सगर्भा ।
तया हरे वारिणि पीयमाने
जगर्ज सिंहो जनयन् सुभीतिम् ॥६॥

भीत्या मृगी सा सहसोत्पतन्ती
पपात गुल्मेऽथ ममार विष्णो ।
बालं मृगं योनिविनि:सृतं तं
जग्राह राजा कृपया जलोढम् ॥७॥

मात्रा विहीनं परिपालयन् सः
त्वत्पूजनात् भ्रष्टमना भभूव ।
प्राप्तेऽन्तकाले सुतवद्रुदन्तं
पश्यन् मृगं प्राप मृगस्य जन्म ॥८॥

प्राप्तो मृगत्वम् पुलहाश्रमेऽस्मिन्
कालं जरामेत्य चचार भूयः ।
शृण्वन् समाजे च कथाम् मृगत्वं
त्यजन् तदोचे भवदीय नाम ॥९॥

हास्यन् मृगत्वं भरतो महात्मा
भीतस्तु संगात् मनसा स्मरंस्त्वाम् ।
जले स्थितस्सन् हरये नमस्ते
नारायणायेति जगादचोच्चैः ॥१०॥

ततो महाभागवतो महात्मा
राजर्षिवर्यॊ भरतस्तु जातः ।
विप्रान्ववाये भवतः स्वरूपं
ध्यायन् जडोन्मत्तवदास लोके ॥११॥

अनावृतांगो हिमवातवर्षे-
ष्वतीव पीवा मलिनैक वस्त्रः ।
यदृच्छया याचनयाऽपि लब्ध-
मश्नन् समं त्वां मनसाऽस्मरत्सः ॥१२॥

श्री भद्रकाल्यै भवदंघ्रिभक्तं
बलिं प्रदातुं यतते स्म चॊरः ।
दुष्टस्य सा सानुचरस्य देवी
शिरांसि चिच्छॆद महासिनैव ॥१३॥

त्वत्पादभक्तं गुरुवातनाथ
को वा निहन्तुं प्रभवेत्परात्मन् ।
माम् पाहि कारुण्यनिधॆ हरॆ त्वं
त्वद्भक्तवर्यम् कुरु मारुतेश ॥१४॥

 द्वितीयं दशकं

अथेक्षुमत्यास्तु तटे महान्तं
सौवीरसिन्धोरधिपस्समागात् ।
त्वद्ध्यानपूतं जडविप्रमेनं
स्वयानवाहं तरसा चकार ॥१॥

हिंसादिहीनस्य मुनेः स्वदृष्ट्या-
पूतेहि देशे चरणप्रवृत्तिः ।
इत्थं गतेऽस्मिन् शिबिका चचाल
मुक्ताय विष्णो कुपितो नृपोऽभूत् ॥२॥

भ्रातर्नपीवा न युवा जरावा-
नध्वानमेकॊ वहसे हि दीर्घं ।
चिरं न चेमे शिबिकां वहन्ती-
त्युवाच राजा भवदंघ्रिभक्तं ॥३॥

इत्यादिवक्रोक्तिभिरर्दितोऽपि
गर्वेण राज्ञा बहुधा स विप्रः ।
देहे ममत्वाद्यभिमानशून्यः
त्वां संस्मरन्नोत्तरमाह किञ्चित् ॥४॥

पुनश्च याने विषमं गतेऽसौ
जीवन्मृतो मामवमन्यसे त्वम् ।
भजिष्यसे त्वं प्रकृतिं यथा स्वां
कुर्याम् तथेति न्यगदीत्त्वदीयम् ॥५॥

स्थौल्यं कृशत्वं च रुजामयोऽन्ये
देहेन जातस्य हि ते भवन्ति ।
मानेन शून्यस्य न सन्ति राज-
न्नित्याह यॊगी त्वयि बद्धभावः ॥६॥

देहो मयाऽयं बहुशिक्षितोऽस्ति
पुनश्च शिक्षा यदि पिष्टपॆषः ।
स्थितोऽस्म्यहं स्वप्रकृतौ हि राज-
न्नित्यब्रवीत् तं गुरुवातनाथ ॥७॥

श्रुत्वा तु राजा बहुयोगशास्त्र-
सारं महत्त: त्वरयाऽवरुह्य ।
तत्पादमूले निपपात भक्त्या
क्षमापयन् त्वच्चरणैकचित्तम् ॥८॥

कस्त्वं महात्मन् चरसीह गूढः
ब्रह्मंस्तवांसे किल यज्ञसूत्रम् ।
प्रदृश्यते कोह्यवधूतमध्ये
इत्यब्रवीत्तं गुरुवातना ॥९॥

अध्वा च भारश्च तथैव गन्ता
सर्वं तु मिथ्येति किल त्वयोक्तं ।
जलस्य पानेन गता तृषा हि
कथं भवेदित्यवदत् हरॆऽसौ ॥१०॥

कथं नु राजन् व्यवहारमेनं
तत्वेन तुल्यं वदसि ह्यतज्ञः ।
देवादि जन्मानि तु चेतसा स्युः
इत्याह विप्रो गुरुवातना ॥११॥

भ्रातृव्यमेतत् मन एव राजन्
सेवासिना सद्गुरुपादयोस्तत् ।
छिन्धीत्युवाचाथ रहूगणं सः
मां पाहि रोगात् मरुतालयेश ॥१२॥

तृतीयं दशकं

प्रणम्य राजा जडविप्रमेनं
पुनश्च पप्रच्छ मरुत्पुरेश ।
नष्टोऽविवेकोऽमृततुल्यवाचा
तथापि दृश्यं कथमित्यसत्यम् ॥१॥

संसारमिथ्यात्वमथोपदिश्य
प्रपञ्चमिथ्यात्वमुपादिशत्सः ।
त्वद्रूपनिष्ठो भवतः स्वरूपं
सर्वत्र पश्येदविनश्वरं यत् ॥२॥

चरन् पृथिव्यां तव भृत्यवर्गः
सन्दृश्यतेऽस्यापि पदादिकानि ।
अंसॊढयानस्थ रहूगणादि
सर्वं तु दृश्यं ह्यसदाह विष्णॊ ॥३॥

पिण्डः स्वहेतौ पृथिवीत्यवेहि
पृथिवी स्वहेतौ परमाणुनिष्ठ: ।
अज्ञान कॢप्तः स च मारुतेश
तच्चैव चारोपित इत्युवाच ॥४॥

आरोपिताहिस्तु यथाविनश्ये-
द्दीपेन रज्जौ तमसा प्रतीतः ।
ज्ञानेन चाध्यस्त जगच्च नश्ये-
त्त्वमेव भासीत्यवदत् स राज्ञॆ ॥५॥

श्री शंखचक्राब्ज गदाकिरीट-
हारी भवान् मंगल मंगलेशः ।
श्रीवासुदेवस्तु सदा सुपूर्ण-
ज्ञानात्मनास्तीत्यवदत् स भूप ॥६॥

श्रीवासुदेवस्तु जगत्समस्तं
ज्ञानं हरॆ सत्यमिति न्यगादीत् ।
एतच्च नाप्नोति मखादिना हि
विना महत्पादरजॊभिषॆकम् ॥७॥

अहं पुराऽऽसं भरताख्य भूपः
विसृज्य राज्यं हरिपूजनार्थम् ।
वनं गतस्तत्र मृगत्वमाप-
मित्याह भूपं स च मारुते ॥८॥

कृष्णार्चनेन स्मृतिरस्तिमेऽद्य
पुरा मृगत्वेऽपि तदा न नष्टा ।
भीतस्तु संगात् विचरामि राजन्
इत्यब्रवीन्मारुतमंदिरेश ॥९॥

ततस्तु राजा जडविप्रमेनं
स्तुत्वा च नत्वा च मरुत्पुरेश ।
मुहुर्तमात्रॆण तवाभ्यसंगात्
मोहः प्रणष्टस्त्विति चाब्रवीत्सः ॥१०॥

रहूगणोऽयं जडविप्रसंगा-
द्विनष्टदु:खोऽभवदात्तविद्यः ।
किं किं न कुर्यात् महतस्तुसंगः
मां पाहि रोगात् मरुतालयेश ॥११॥

श्री भट्टपादारचितस्तुतौ या
प्रीतिस्तवाभूत् मरुतालयेश ।
अनन्तरामेण मयाकृतेऽपि
स्तोत्रे च जायेत कुरु प्रसादम् ॥१२॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP