शबलशिखण्डिशिखण्डकमण्डितहाटकरत्नकिरीट, हरे,
विलुलितमञ्जुतरालकरञ्जितमञ्जुलफालककान्तिनिधे, ।
मुरहर, कुङ्कुमसङ्कलनाङ्कितपुण्ड्रकमण्डनहास, हरे
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥१॥
ललितविलासविशेषविमोहनचिल्लि,
दयामृतसल्लहरी-
लुलितविभङ्गमभङुरभङ्गि,
तवाङ्गविलोलविलोचनकम् ।
मिलितलसन्मणिकुण्डलमण्डितगण्डतलं च सदा कलये
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥२॥
तिलकुसुमोपमनासिकया परिशोभितमाननतामरसं
विकसितकुन्दविहासिविहासलसन्मधुराधरकान्ततरम् ।
मुनिजनमानसहंसनिरन्तरसेवितमन्तरुदेतु सदा
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥३॥
कलमुरलीमधुरश्रवणामृतपूरकपूरकपूरककम्बुवरं
ललिततनो तव कण्ठमकुण्ठमनोहरहारविहारपदम् ।
गलितभवज्वरतान्तिभरे हृदि शान्तिधरे कलयेय हरे;
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥४॥
विपुलमिदं वनमालिकयाऽञ्चितमञ्जनवर्ण, सुवर्णमणी-
महितविभूषणभूषितपावनवत्सविशोभितवत्सपदम् ।
मनसि चकास्तु मुनिस्तुतविस्तृतकौस्तुभनिस्तुलकान्तियुतम्
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥५॥
कमलगदारिदराङ्कितदोष्कचतुष्कवितीर्णपुमर्थतते
कृशमुदरं निखिलाण्डनिधानमखण्डमहाद्भुतमाकलये ।
अनलसुतप्तसुवर्णसवर्णनवाम्बरसुन्दररूप्, हरे
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥६॥
पृथुकदलीमृदुलोरुवरं, पुरुषार्थसमुद्गकजानुयुगं
शिखिगलकोमलजङ्घमृषीश्वरनम्यनवाम्बुजरम्यपदम् ।
अयि नरकान्तक, कान्तमिदं तवरूपमनन्त, हृदि
स्फुरतात्
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥७॥
जय जय दुर्जयनिर्जरवैरिजयार्जितनिर्जरकीर्तितते ।
जय जय वञ्जुलमञ्जुनिकुञ्जसमञ्जसखेलनलोलमते, ।
जय जय धर्मसमुद्धरणोद्धुर, शर्मविधायककर्मगुरो,
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते! ॥८॥