मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
दाल्भ्य उवाच- कार्यारंभे...

माङ्गल्यस्तवम् - दाल्भ्य उवाच- कार्यारंभे...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


दाल्भ्य उवाच-

कार्यारंभेषु सर्वेषुदुस्स्वप्नेषु च सत्तम ।
अमङ्गल्येषु दृष्टेषु यज्जप्तव्यं तदुच्यताम् ॥१॥
येनारंभाश्च सिद्ध्यन्ति दुस्स्वप्नश्चोपशान्तये ।
अमङ्गलानां दृष्टानां परिहारश्च जायते ॥२॥

पुलस्त्य उवाच -

जनार्दनं भूतपतिं जगद्गुरुं
स्मरन् मनुष्यः सततं महामुने ।
दुष्टान्यशेषान्यपहन्ति साधय-
त्यशेषकार्याणि च यान्यभीप्सति ॥३॥
शृणुष्व चान्यद्गदतो ममाखिलं
वदामि यत्ते द्विजवर्य मङ्गलम् ।
सर्वार्थसिद्धिं प्रददाति यत्सदा
निहन्त्यशेषाणि च पातकानि ॥४॥
माङ्गल्यस्तवम्
प्रतिष्ठितं यत्र जगच्चराचरं
जगत्त्रये यो जगतश्च हेतुः ।
जगच्च पात्यत्ति च यः स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥५॥
व्योमाम्बुवाय्वग्निमहीस्वरूपैः
विस्तारवान् योऽणुतरोऽणुभावात् ।
अस्थूलसूक्ष्मस्सततं परेश्वरो
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥६॥
यस्मात्परस्मात्पुरुषादनन्तात्
अनादिमध्यादधिकं न किञ्चित् ।
स हेतुहेतुः परमेश्वरेश्वरो
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥७॥
हिरण्यगर्भाच्युतरुद्ररूपी
सृजत्यशेषं परिपाति हन्ति ।
गुणाग्रणीर्यो भगवान् स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥८॥
परस्सुराणां परमोऽसुराणां
परो यतीनां परमो मुनीनाम् ।
परस्समस्तस्य च यः स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥९॥
ध्यातो मुनीनामपकल्मषैर्यो
ददाति मुक्तिं परमेश्वरेश्वरः ।
मनोऽभिरामः पुरुषस्य सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥१०॥
सुरेन्द्रवैवस्वतवित्तपांबुप-
स्वरूपरूपी परिपाति यो जगत् ।
स शुद्धशुद्धः परमेश्वरेश्वरो
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥११॥
यन्नामसङ्कीर्तनतो विमुच्यते हि
अनेकजन्मार्जितपापसञ्चयात् ।
पापेन्धनाग्निस्स सदैव निर्मलो
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥१२॥
येनोद्धृतोऽयं धरणी रसातलात्
अशेषसृष्टिस्थितिकारणादिकम् ।
बिभर्ति विश्वं जगतस्समूलं
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥१३॥
पादेषु वेदा जठरे चराचरं
रोमस्वशेषा मुनयो मुखे मखाः ।
यस्येश्वरेशस्य स सर्वदा प्रभुः
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥१४॥
समस्तयज्ञाङ्गमयं वपुः प्रभो-
र्यस्याङ्गमीशेश्वरसंस्तुतस्य ।
वराहरूपी भगवान् स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥१५॥
विक्षोभ्य सर्वोदधि तोयसंभवं
दधार धात्रीं जगतश्च यो भुवम् ।
यज्ञेश्वरो यज्ञपुमान् स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥१६॥
पातालमूलेश्वरभोगिसंहतौ
विन्यस्य पादौ पृथिवीं च बिभ्रतः ।
यस्योपमानं न बभूव सोऽच्युतो
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥१७॥
स घर्घरं यस्य च बृंहितं मुहुः
सनन्दनाद्यैर्जनलोकसंश्रितैः ।
श्रुतं जयेत्युक्तिपरैस्स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥१८॥
एकार्णवाद्यस्य महीयसो महीं
आदाय वेगेन खमुत्पतिष्यतः ।
नतं वपुर्योगिवरैस्स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥१९॥
हतो हिरण्याक्ष महासुरः
पुराणपुंसा परमेण येन ।
वराहरूपस्स पतिः प्रजापतिः
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥२०॥
दंष्ट्राकरालं सुरभीतिनाशकं
कृतं वपुर्दिव्यनृसिंहरूपिणा ।
त्रातुं जगद्येन स सर्वदा प्रभुः
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥२१॥
दैत्येन्द्रवक्षःस्थलदारदारुणैः
करोरुहैर्यः क्रकचानुकारिभिः ।
चिच्छेद लोकस्य भयानि सोऽच्युतो
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥२२॥
दन्तान्तदीप्तद्युतिनिर्मलानि यः
चकार सर्वाणि दिशां मुखानि ।
निनादवित्रासित दानवोह्यसौ
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥२३॥
यन्नामसङ्कीर्तनतो महाभयात्
विमोक्षमाप्नोति न संशयं नरः ।
स सर्वलोकार्तिहरो नृकेसरी
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥२४॥
सटाकरालभ्रमणानिलाहताः
स्फुटन्ति यस्यांबुधराः समन्ततः ।
स दिव्यसिंहो स्फुरितानलेक्षणो
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥२५॥
यदीक्षणज्योतिषि रश्मिमण्डलं
प्रलीनमीषन्न रराज भास्वतः ।
कुतः शशाङ्कस्य स दिव्यरूपधृक्
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥२६॥
अशेषदेवेशनरेश्वरेश्वरैः
सदा स्तुतं यच्चरितं महाद्भुतम् ।
स सर्वलोकार्तिहरो महाहरिः
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥२७॥
द्रवन्ति दैत्याः प्रणमन्ति देवताः
नश्यन्ति रक्षांस्यपयान्ति चारयः ।
यत्कीर्तनात् सोऽद्भुतरूपकेसरी
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥२८॥
ऋक्पावितं यो यजुषा हि श्रीमत्
सामध्वनिध्वस्तसमस्तपातकम् ।
चक्रे जगद्वामनकस्स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥२९॥
यत्पादविन्यासपवित्रतां मही
ययौ वियच्चर्ग्यजुषामुदीरणात् ।
स वामनो दिव्यशरीररूपधृक्
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥३०॥
यस्मिन् प्रयातेऽसुरभूभृतोऽध्वरात्
ननाम खेदादवनिस्ससागरा ।
स वामनस्सर्वजगन्मयस्सदा
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥३१॥
महाद्भुते दैत्यपतेर्महाध्वरे
यस्मिन् प्रविष्टे क्षुभितं महासुरैः ।
सवामनोऽन्तःस्थितसप्तलोकधृक्
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥३२॥
सङ्खैस्सुराणां दिवि भूतलस्थितैः
तथा मनुष्यैर्गगने च खेचरैः ।
स्तुतः क्रमाद्यः प्रचचार सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥३३॥
क्रान्त्वा धरैत्रीं गगनं तथा दिवं
मरुत्पतेर्यः प्रददौ त्रिविष्टपम् ।
स देवदेवो भुवनेश्वरेश्वरो
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥३४॥
अनुग्रहं चापि बलेरनुत्तमं
चकार यश्चेन्द्रपदोपमं क्षणात् ।
सुरांश्च यज्ञांशभुजस्स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥३५॥
रसातलाद्येन पुरासमाहृताः
समस्तवेदाः जलचाररूपिणा ।
स कैटभारिर्मधुहांबुशायी
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥३६॥
निःक्षत्रियां यश्च चकार मेदिनीं
अनेकशो बाहुवनं तथाऽच्छिनत्
यः कार्तवीर्यस्य स भार्गवोत्तमो
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥३७॥
निहत्य यो वालिनमुग्रविक्रमं
निबद्ध्य सेतुं जलधौ दशाननम् ।
जघान चान्यान् रजनीचरानसौ
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥३८॥
चिक्षेप बालश्शकटं बभञ्ज यो
यमार्जुनं कंसमरिं जघान च ।
ममर्द चाणूरमुखान् स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥३९॥
प्रातस्सहस्रांशुमरीचिमण्डलं
करेण बिभ्रद्भगवान् सुदर्शनम् ।
कौमोदकीं चापि गदामनन्तो
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥४०॥
हिमेन्दुकुन्दस्फटिकाभनिर्मलं
मुखानिलापूरितमीश्वरेश्वरः ।
मध्याह्नकालेऽपि स शङ्खमुद्वहन्
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥४१॥
तथाऽपराह्ने प्रविकासि पङ्कजं
वक्षःस्थलेन श्रियमुद्वहन् हरिः ।
विस्तारिपद्मायतपत्रलोचनो
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥४२॥
सर्वेषु कालेषु समस्तदेशे-
ष्वशेषकार्येषु तथेश्वरेश्वरः ।
सर्वैस्स्वरूपैर्भगवाननादिमान्
ममास्तु माङ्गल्यवविवृद्धये हरिः ॥४३॥
एतत्पठन् दाल्भ्य समस्तपापैः
विमुच्यते विष्णुपरो मनुष्यः ।
सिध्यन्ति कार्याणि तथास्य सर्वा-
नर्थानवाप्नोति यथेच्छते तान् ॥४४॥
दुःस्वप्नः प्रशममुपैति पठ्यमाने
स्तोत्रेऽस्मिन् श्रवणविधौ सदोद्यतस्य ।
प्रारम्भो द्रुतमुपयाति सिद्धिमीशः
पापानि क्षपयति चास्य देवदेव: ॥४५॥
माङ्गल्यं परमपदं सदार्थसिद्धिं
निर्विघ्नामधिकफलां श्रियं ददाति ।
किं लोके तदिह परत्र चापि पुंसां
यद्विष्णुप्रवणधियां न दाल्भ्य साध्यम् ॥४६॥
देवेन्द्रस्त्रिभुवनमर्थमेकपिङ्गः
संसिद्धिं त्रिभुवनगां च कार्तवीर्यः ।
वैदेहः परमपदं प्रसाद्य विष्णुं
संप्राप्तस्सकलफलप्रदो हि विष्णुः ॥४७॥
सर्वारम्भेषु दाल्भ्यैतद् दुस्स्वप्नेषु च पण्डितः ।
जपेदेकमना विष्णौ ॥४८॥
शमं प्रयान्ति दुष्टानि ग्रहपीडाश्च दारुणाः ।
कर्मारम्भाश्च सिध्यन्ति पुण्यमाप्नोति चोत्तमम् ॥४९॥
हरिर्ददाति भद्राणि माङ्गल्यस्तुति संस्तुतः ।
करोत्यखिलरूपैस्तु रक्षामक्षतशक्तिभृत् ॥५०॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP