मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
हरिर्हरतिपापानि दुष्टचित्...

श्री हरिस्तोत्रम् - हरिर्हरतिपापानि दुष्टचित्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


हरिर्हरतिपापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छताऽपि संस्पृष्टो दहत्येव हि पावकः ॥१॥
स गङ्गा स गया सेतुः स काशी स च पुष्करम् ।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥२॥
वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च ।
यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥३॥
प्रिथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम् ॥४॥
गवां कोटि सहस्राणि हेमकन्यासहस्रकम् ।
दत्तं स्यात् तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥५॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ।
अधीतस्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥६॥
अश्वमेधैर्महायज्ञैः नरमेधैस्तथैव च ।
इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥७॥
प्राणप्रयाणपाथेयं संसारव्याधिनाशनम् ।
दुःखात्यन्तपरित्राणं हरिरित्यक्षरद्वयम् ॥८॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥९॥
हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
आयुष्यं दीर्घमारोग्यं यशोवृद्धिं स गच्छति ॥१०॥
प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम ।
यः पठेत् स नरो याति तद्विष्णोः परमं पदम् ॥११॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP