आर्यासाहस्री
श्री वेङ्कटरामभट्टः विरचिता आर्यासाहस्री.
सर्व १००८ श्लोक आर्यावृत्तमध्ये असून, मुळाक्षरांच्या क्रमाने सुरूवात आहे.
वेङ्कटरमणभट्टः
॥ आर्यासाहस्री ॥
अतिसुखिनि सुन्दराङ्गि श्रितजनमन्दारवल्लरि श्यामे ।
भारति कमलजजाये विद्यां बुद्धिं समुज्ज्वलां दिश मे ॥१॥
असदशसम्पद्भरिते शुभगुरुराजत्वकीर्तिबोधमयि ।
श्रीमातरखिलमातः स्तोतारं मां पुनीहि हे ललिते ॥२॥
अखिलजनमोदहेतोर्देवीश्वरि हे शिवे महाराज्ञि ।
मायाप्रकटितरूपे रूपत्रयभाविते नमो ललिते ॥३॥
अतिगुरुमहिमापूर्णे राज्ञां साम्राज्यदायिनी त्वमसि ।
गतिमतिदात्रि नमस्ते नादश्रीर्नादकोविदे पाहि ॥४॥
अमतांशुमौलिजाये ! हेमासनसुस्थिता महाकल्पा ।
सुखिनि सुखास्पदधाम्नि प्रणमन्तं त्वां सदैव मां पाहि ॥५॥
अमलकरचित्कलाञ्चज्योतिर्मुख्याङ्कुरात् समुद्भूते ।
भूरिमहिम्ना भरिते देवि सुरानन्ददात्रि मां पाहि ॥६॥
असुरगणमखिलमनिशं हन्तुं जातासि देवकार्यार्थम् ।
अहमिति धीरूपाग्नेः कण्डाद्ब्रह्माण्डजननि मां पाहि ॥७॥
अयुताधिकरविदीप्ते पूर्वाम्बुधिशैलतुङ्गशिखराग्रे ।
उद्यद्भानुसहस्रप्रभया विभ्राजिते नमो ललिते ॥८॥
अखिलामरजनयित्री सुगुणैः स्वैरेव शोभितं ललितम् ।
पाशं दधासि या त्वं सा त्वं मामम्ब पालयेरनिशम् ॥९॥
अयि परुषपाशहस्ते पुण्ड्राङ्कुशराजमानकरकमले ।
पुरुषार्थदायिपाणे भारति वाग्देवते नमो ललिते ॥१०॥
अतिसुखदरूपमनिशं दधती हस्तेङ्कुशं सदा महसा ।
विभ्राजमानमूर्ते ललिते मामम्ब सन्ततं पाहि ॥११॥
अमलज्ञानाकारे मानसरूपेक्षुदण्डकोदण्डे ।
ग्रन्थिषु धृतषट्चक्रे ललिते मामम्ब सादरं पाहि ॥१२॥
अभिनवचम्पकसुमसमनासादण्डेभिराममुखकमले ।
शुभकरि करुणामूर्ते मातर्ललिते नमोस्तु ते सततम् ॥१३॥
अरुणरुचिपूरमज्जद्ब्रह्माण्डाखण्डमण्डलोल्लसिते ।
करुणामसृणापाङ्गे मातर्मां पाहि सन्ततं ललिते ॥१४॥
अयि नीलकेशपाशे चाम्पेयाशोकललितपुन्नागैः ।
सौगन्धिकेन रचितं माल्यं दधतीं नमामि देवि त्वाम् ॥१५॥
अतिरुचिरपद्मरागप्रत्युप्तस्वर्णरचितकेयूरे ।
दरहासभूषितास्ये मातर्मां देवि सन्ततं पाहि ॥१६॥
अतिसुरभिमगमदाञ्चत्फाले कोटीरमञ्जुलाभरणे ।
दुष्टसुरारिवधाय व्यापतनानाविधायुधे शिवे पाहि ॥१७॥
अमलतरसुन्दराननमन्दिरमाङ्गल्यतोरणभृकुटि ।
सुभ्रूगणपरिवारे धीरे मां पाहि सन्ततं ललिते ॥१८॥
अतिदुर्भरतरजघने दरलीलासक्तमीनरुचिराक्षि ।
अयि सुन्दराङ्गि मातर्मातस्त्वां चिन्तये सदा हदये ॥१९॥
अमलतरतारकालिज्योतिर्न्यक्कारिनासिकाभरणे ।
कुमुदवनबन्धुवदने गुणवति मां पाहि ते नमो ललिते ॥२०॥
असुरकम्बकदम्बप्रसवसुकर्णावतंसवत्कर्णे ।
कमलापतिसहजाते जाते प्रीता भवाम्ब मयि ललिते ॥२१॥
अमलतररुचिमहोज्वलताङ्कीभूतरविशशङ्कयुते ।
अमरकुलसेविताङ्घ्रे नित्यं मां पाहि वत्सले ललिते ॥२२॥
अमलसुधाकरलाञ्छनसन्निभमगनाभिपङ्कवत्फाले ।
कमलजवदननिवासे तावकमङ्घ्रिद्वयं मुदा वन्दे ॥२३॥
अमलतरपद्मरागादर्शतिरस्कारकारिसुकपोले ।
अतुलास्यहास्यलास्ये कमलाक्षि त्राहि जनमिमं सरले ॥२४॥
अभिनवविद्रुमशोभापरिभविदन्तच्छदेन सङ्कलिते ।
शुभगुणगणसंवलिते श्रीपतिवन्द्येम्ब पाहि मां ललिते ॥२५॥
अतिविमलसाधुविद्याप्राङ्कुररूपद्विजद्विपङ्कियुते ।
मतिमति विधिहरिमान्ये त्वं कुरु कारुण्यमयि मयीह भृशम् ॥२६॥
अमलतरनागवल्लीकर्पूरक्रमुकसौरभादेव ।
आह्लादयन्त्यशेषाशांस्त्वं जयसि शोभया देवि ॥२७॥
अमतस्यन्दिवचोभिस्त्रपयन्ती कच्छपीं निजां वीणाम् ।
मधुरालापैरपि पिकमम्बुजनयने त्वमेव मां पाहि ॥२८॥
अनलाक्षमात्मरमणं मन्दस्मितपूरलीनहदयं तम् ।
विदधास्यजस्रमाराद् धीरा त्वं पाहि शैलजे सततम् ॥२९॥
असदृशनिजचिबुकश्रीशोभितकम्बुद्युतिस्फुरत्कण्ठि ।
कुसुमायुधमदहारिणि मातर्मां पाहि विजितकलकण्ठि ॥३०॥
अमलेन्दुधरनिबद्धश्रीमन्माङ्गल्यसूत्रवत्कण्ठि ।
कमलाक्षाब्जजवन्द्ये पार्वति माङ्गल्यदात्रि मां पाहि ॥३१॥
अनघकनकाङ्गदाढ्ये श्रीमद्भुजदण्डमण्डिते महिते ।
कनकगिरिचापधर्तुर्भर्तर्वाचि स्थितेम्ब मां पाहि ॥३२॥
अनघमणिघटितहेमग्रीवाचिन्ताकमौक्तिकाभरणे ।
विनयनतमस्तकं मां पालय दीनं च शमय मदमोहौ ॥३३॥
अभिमतनिजपतिहर्षस्फुरितानर्घाश्मनिस्तुयोरोजे ।
अभिजनपूजितचरणे नतिरियमयि तेस्तु चरणयोर्देवि ॥३४॥
अवनम्रनाभिरूपावालजरोमालिफलककुचयुगले ।
अवहितभुवनत्राणे शम्भोः प्राणाधिकेम्ब मां पाहि ॥३५॥
अवहितरोमावल्या सूचितवल्लद्वलग्नशुभदेशे ।
अविनयमम्ब मदीयं जहि सुरसन्तोषभाग्यमयकोशे ॥३६॥
अतिघनवक्षोरुहयोर्वहनायाबद्धवलिमहादशने ।
गतिरसि मतिरसि सततं मम माता त्वमेव मां पाहि ॥३७॥
अरुणारुणकौसुम्भश्रीमद्वासःश्रियाढ्यकटिभागे ।
कुरु मां तव करुणायाः पात्रं गोत्रं मनश्च पावय मे ॥३८॥
अगणितमणिकिङ्किणिकारशनादाम्ना विराजतेद्रिसुते ।
नगवरकुलमणिदीपे दिश मम काव्याङ्गनाकपामम्ब ॥३९॥
अनलाक्षपाणिपद्मद्वयवेद्या परुषसुरभिललिताङ्गी ।
जनयित्री लोकानां मयि कुरु करुणां स्वभावसुरभितनो ॥४०॥
अनघद्युतिमाणिक्यस्फुरितकिरीटाभजानुयुग्मयुते ।
अनुनय मयि कुरु वाणि त्वयि तु मयि त्वं दयस्व हे ललिते ॥४१॥
अहिरिपुमणिकतमन्मथतूणीराकारजानुयुगलाढ्ये ।
महितगुणराजमाने मम मनसि त्वं वसाम्ब हरवेद्ये ॥४२॥
अतिपीनगूढगुल्फे मतिमति मत्याश्रये सतां सततम् ।
कतिनां समितिषु कुरु मां सुमतिं सम्भावितं च हे ललिते ॥४३॥
अयि कमठपष्ठविजयिप्रपदद्वयराजमानपदकमले ।
नियतिनियामकजाये सपदि कपां धेहि मयि निजे ललिते ॥४४॥
अरुणनखदीप्तिमज्जज्जनहदयध्वान्तनाशसुप्रीते ।
करुणामसणापाङ्गे जननि त्वामाश्रयाम्यहं सततम् ॥४५॥
अयि पदयुगलज्योतिर्न्यक्कृतपाथोजवनरुचे महसा ।
नियमितदीप्तिमदे त्वं जयसि हि दीप्त्यास्व मयि तथा महसा ॥४६॥
अविरतमपि शिञ्जाने मणिमयपादाङ्गदे दधानेम्ब ।
भवभयहारिणि तारिणि संसाराम्भोनिधेः सदा पाहि ॥४७॥
अनुपमहंसवधूटीं जित्वा गत्या विराजमानेम्ब ।
अनुचरचरचरमेनं तव शिवजाये पुनीहि मामम्ब ॥४८॥
अभिनवहेमसवर्णे देवि महारूपशेवधे सविधे ।
जयति च सवर्णसिंही त्वं मां पायाश्च सिंहसंहनना ॥४९॥
आभरणराजिकान्त्या निजतनुदीप्त्यावतारुणच्छाया ।
सौभगपरिपूर्णा त्वं सुभगं कुरु मां दयासुधावष्ट्या ॥५०॥
आपादमौलिदेशादनवद्याङ्गाङ्गबन्धुरे सुकरे ।
श्रीपादशोभमाने जननि त्वामेव याम्यहं शरणम् ॥५१॥
आपादमौलिविलसन्नानाभूषावलीप्रभाच्छन्ने ।
आपादमौलिसुषमापिहिते मां पाहि सन्ततं ललिते ॥५२॥
आशाम्बरवामाङ्के वाल्लभ्यादेव सानुरागमपि ।
आरोपितनिजमूर्ते दुर्गे देवि त्वमेव मां पाहि ॥५३॥
आददति ये पवित्रे हदये तेषां सदा शिवा भासि ।
मोदयसि सन्ततं त्वं तानेवानेकभाग्यदा जयसि ॥५४॥
आधिव्याधिविहीने स्वाधीनात्मप्रिये प्रभावेण ।
अधिगतभुवनध्याने साधीयो मे हितं त्वया ललिते ॥५५॥
आधिनिवारिणि नमतां साधुनुते मेरुशृङ्गमध्यस्थे ।
साधूपकारशीले साधय मत्कार्यमुत्तमं ललिते ॥५६॥
आकाशान्तःकलया निहितश्रीनगरनायिके गौरि ।
साकारभाग्यरूपे रूपगुणोद्योगभेदवति जयसि ॥५७॥
आपादितसकलाशे श्रीसखि चिन्तामणिप्रिये महादेवि ।
वासोरुचिसंवलिते दासे मयि ते दयस्व हे ललिते ॥५८॥
आर्ये विधिहरिरुद्रेश्वररूपब्रह्मपीठमारूढे ।
नार्यवतारिणि भद्रे मारवधूटीप्रिये नमो ललिते ॥५९॥
आपाटलसरसीरुहकान्तारान्तःस्थिते गुणोल्लसिते ।
श्रीपादजितसरोजे शरणं भव मे भवे भवे ललिते ॥६०॥
कार्याकार्याभिज्ञे शौर्यश्रीमत्कदम्बवनवासे ।
आर्यानन्दिनि मायाकार्यानन्दान्वितेम्ब मां पाहि ॥६१॥
आश्रितपालनचतुरे पीयूषाम्भोधिमध्यगेहस्थे ।
आश्रितसुरपरिवारे दशशतपत्राब्जपीठगे पाहि ॥६२॥
आनतभक्ताभीष्टं मानयितुं दातुमसि च कामाक्षी ।
दीनानाथशरण्ये मानय मामम्ब सादरं ललिते ॥६३॥
आराधयन्ति ये त्वां तेषामानन्ददायिनी नित्यम् ।
नारीकिरीटशोभाराधितचरणेम्ब पाहि मां ललिते ॥६४॥
आनतसुरमुनिबन्दैरनवरतस्तूयमानपदकमले ।
दानवनाशिनि तुभ्यं नतिरियमास्तां जयाम्ब हे ललिते ॥६५॥
आर्ये भण्डवधोद्यतशक्तिचमूभिस्समावते देवि ।
कार्येषु मे सहाया कार्यप्रज्ञाप्रदास्व मयि ललिते ॥६६॥
आश्रितसम्पत्करणीशक्त्यारूढेभसेविते समरे ।
आश्रितसुरपरिवारे धीरे मामम्ब पाहि हे ललिते ॥६७॥
आरूढवाजिसेनावारितकोट्यश्वसेनया सहिते ।
आपीतासवमत्ते चित्ते ते मे नुतिस्सदा भवतु ॥६८॥
आरुह्य चक्रराजस्यन्दनमखिलायुधानि परिगह्य ।
वीरावेशकराले वैरिषु समरेषु कोपने जय हे ॥६९॥
आरुह्य गेयचक्रस्यन्दनमेकं च सेव्यमानेम्ब ।
श्यामलया मन्त्रिण्या समरससमरे नमोस्तु ते ललिते ॥७०॥
आरुह्य च किरिचक्रस्यन्दनमनघं धुरि प्रतिष्ठितया ।
दण्डाधिपवाराह्या शक्त्या सहिते जयाम्बिके ललिते ॥७१॥
आक्रम्य दिव्यशक्त्या वह्निप्राकारमध्यमभ्येत्य ।
ज्वालामालिन्या त्वं जयसि रुचा समरभूतले ललिते ॥७२॥
आराकाचन्द्रकलिकावद्धिप्रदशक्तिवद्धिसन्तुष्टे ।
उत्साहवद्धिहेतोः शक्तीनां त्वं जयाम्बिके ललिते ॥७३॥
आक्रम्य भण्डपुत्रानखिलान् हत्वा जयेन सन्तुष्टे ।
बालाविक्रममुदिते समरे दुर्गांब ते नमो ललिते ॥७४॥
आसुरविषङ्गदैत्यं मन्त्रिण्यम्बावधीद्रणे येन ।
श्यामज्याङ्कितहस्ते तुष्टे युद्धेन ते नमो ललिते ॥७५॥
आर्ये भण्डभ्रातश्यामलयासीद्धतोंब ते समरे ।
मुदिता त्वमभूर्मातः सुररिपुहनत्यम्ब ते नमो ललिते ॥७६॥
आस्यालोकनमात्रात् पत्युर्विघ्नेशमसज एव त्वम् ।
मायामसुरानपि तानवधीर्विघ्नेश एव कुशलतया ॥७७॥
आसुरमायाविघ्नान् विघ्नेशोनाशयत्तदा ते हि ।
आनन्दयदपि भवतीं यस्ते पुत्रो हि तेन ते ललिते ॥७८॥
आर्ये भण्डविमुक्तान् बाणानखिलान्निजाशुगेनैव ।
सत्वरमखण्डयस्त्वं तस्मात्तुभ्यं नमो नमो ललिते ॥७९॥
आयोधने नियोद्धुं सिद्धे भण्डे कराङ्गुलीभ्यस्त्वम् ।
नारायणावतारानसजत् सहसैव ते नमो ललिते ॥८०॥
आर्या पाशुपताग्निज्वालाभस्मीकतासुरे समरे ।
मूलाधारज्वाला सेयं ननु ते नमो नमो ललिते ॥८१॥
आनीलकोमलाङ्गि श्रीललिते श्रीनिकेतने सवने ।
सौजन्यादिगुणानां त्वं मे सद्बुद्धिमनुगहाणाम्ब ॥८२॥
आसुरबलमवधीस्त्वं कामेशास्त्रेण भण्डदैत्यं तम् ।
फालानलेन गिरिशो मदनमिवाजेयमम्बिके ललिते ॥८३॥
आसुरभण्डवधात् त्वामजहरिशक्रादिदेवता अचलाः ।
भक्त्या शशंसुरम्बां वन्दे त्वामस्तु ते नमो ललिते ॥८४॥
अद्भुतकलावतारे हरनयनप्लुष्टमदनजीवातो ।
आश्रितजनततिसुगमे श्रीदेवि त्वं दयस्व मयि दीने ॥८५॥
इभवदनजननि ललिते शुभकरि परिपूर्णचन्द्रनिभवदने ।
अभयङ्करि जगतां मां देवि त्रायस्व सादरं तमिमम् ॥८६॥
इनशशिपावकनयने कण्ठान्नीचैर्नितम्बपर्यंतम् ।
आकटितटमपि कण्ठान्मध्यमकूटावते नमो ललिते ॥८७॥
इभराजमन्दगमने दढशक्त्याधारशोभिते महिते ।
अभयप्रदकरपद्मे पद्मास्ये पाहि मां मुदा ललिते ॥८८॥
इभराजवाहना त्वं शुभकरमन्त्रात्मिका त्वमेवासि ।
अभयं दिश मे मातः शुभमपि सततं नमोस्तु ते ललिते ॥८९॥
इदमम्ब मन्त्रराज्यं विविधं भागत्रयेण ते भाति ।
आकट्याकन्धरमामस्तकमित्याश्रयाम्यहं तु त्वाम् ॥९०॥
इदमजकतजगदासीत् कुलरूपेणास्थिता श्रिया जयसि ।
हदयनिवासिनि नमतां जलजाक्षि त्वामहं भजे सततम् ॥९१॥
इहकुलपालिनि जगतां सष्टिव्यापारपालिनी त्वमसि ।
महिताम्नायनुतां त्वां शिरसा वन्दे नमोस्तु ते ललिते ॥९२॥
इहकुलहदयनिलीना विहिताशेषक्रियाकलापासि ।
महतामाश्रयदात्री त्वं मे शरणं भवानिशं ललिते ॥९३॥
इदमखिलमेव विश्वं हदये वहसीक्षसे सदा दयया ।
मायातत्त्वमिदं ते गहनाद्गहनं नमो नमो ललिते ॥९४॥
इदमम्ब विश्वतस्ते त्वयि च त्वं चात्र परमकुलरूपा ।
इह कुण्डलिनीपीठा कौलिन्याख्ये नमोस्तु ते ललिते ॥९५॥
इदमम्ब विश्वमखिलं संयोज्यैवात्मनाहिता भवसि ।
हदि करुणामयि मयि ते करुणापातोस्तु ते नमो ललिते ॥९६॥
इह जगति वर्तमाना लीलालीनेव वर्तसे सततम् ।
महितागमनुतचरणे दीनमपायान्निवारयेर्ललिते ॥९७॥
इह ननु समतायुक्ता जीवब्रह्मद्वयेन चाद्वैता ।
विहिताचारविधारे भावय मामात्मनन्दनं ललिते ॥९८॥
इह तु समन्वयितात्मा योगक्षेमाय मुक्तियत्नाय ।
महतामाश्रयरूपे भोगिमहावेणि ते नमो ललिते ॥९९॥
इह भवसि देवि मूलाधारे हि श्रीस्त्वमेव ते प्रभया ।
विहिता चक्रावलिरपि विलसति योगिप्रियाय जय माये ॥१००॥
इह मूलचक्रमध्ये ब्रह्मग्रन्थिच्छिदेव या त्वमसि ।
महिता सा मयि दयतां ब्रह्मवधूटीप्रिया सदा ललिता ॥१०१॥
इह मणिपूरोदयिनी सा त्वं चानाहताश्रया भवती ।
सहिता प्रणवमहिम्ना सात्त्विकरूपे नमोस्तु ते ललिते ॥१०२॥
इदमप्यनाहताब्जं श्रयसि त्वं चोन्नतं च हरिचक्रम् ।
भित्वानाहतचक्रे चक्रेश्वरि ते नमो नमो ललिते ॥१०३॥
इह षट्चक्रजगत्यामाज्ञाचक्राब्जवासिनी भवसि ।
विदितसमस्तविचारे धीरे मातर्नमोस्तु ते ललिते ॥१०४॥
इह तावदम्ब चक्रे त्वं भास्याज्ञाभिदे कतावासा ।
अयि जयसि लोकमातर्जंभारिप्रार्थिते नमो ललिते ॥१०५॥
इह दशशतदलकमले ग्रन्थीन् भित्वा स्थितोपरिष्टात् त्वम् ।
अहितासुरमदनाशिनि जय जय मातर्नमो नमो ललिते ॥१०६॥
इभपतिगतिमतिसमरे देवि सुधासारवर्षिणीन्दुमुखि ।
अभियातदैत्यन्त्रि श्रीमति मातर्नमोस्तु ते ललिते ॥१०७॥
इदमिह सहस्रपत्रं तव पीठं कल्पितं हि सरसिरुहम् ।
इदमारुह्य मनोज्ञं त्वं पीयूषं सतोभिवर्षसि हि ॥१०८॥
इच्छानुरूपकार्ये जीवब्रह्मैकताविधानकरि ।
अच्छस्मितमुखि सदये हदये भव मे नमोस्तु ते ललिते ॥१०९॥
इह चक्रषट्कमूलं मूलाधारं च तत्र कुण्डलिनी ।
आस्ते कण्डलितङ्गी सा त्वं भवसीति ते नमो ललिते ॥११०॥
इनकरविकसितसरसिजललितमणालीयसूत्रसूक्ष्मकटि ।
दिनकरकोटिसमाने जलजमुखि श्रीर्नमोस्तु ते ललिते ॥१११॥
इह भवसि शिववधूस्त्वं मदनवधूटी त्वमेव जातासि ।
नाम्ना प्रपञ्चमाता मातस्त्वामेव चिन्तये सततम् ॥११२॥
इह भवसि भावना त्वं हदये हदयेपि भावनागम्या ।
भावनयानुगतेन ध्यानेन त्वं सतां भवेस्सुलभा ॥११३॥
इह भवसि भववने त्वं परशुर्दावानलोथवा त्वं हि ।
महितकलावति गिरिजे भूयो भूयो नमांसि ते ललिते ॥ ११४॥
इह सकलमङ्गलानां विहिता कर्त्रीति कारणं च तथा ।
महिताम्नायस्तवने विहिता माङ्गल्यमन्दिरे त्वमसि ॥११५॥
इह भवसि भद्रमूर्तिः शिवजायासि त्वमेव जगति शिवा ।
अहिभूषणतनुहारिणि भव भयहारिण्यसि त्वमेव शिवे ॥११६॥
इह भक्तभाग्यधात्री भक्तप्रीता त्वमेव भवसि ननु ।
वहसि शिवभारमखिलं भक्तनिधे ते नमो नमो ललिते ॥११७॥
इह भक्तिरेव शुद्धा भवति कता प्रिया हि सुजनेन ।
विहगेशवाहनेड्ये मातस्तुभ्यं नतिर्मया विहिता ॥११८॥
इष्टादिकर्मगम्या तुष्टै ते सैव यदि कता विमला ।
इष्टार्थदात्रि भजतां तुष्टा मय्यस्व सन्ततं ललिते ॥११९॥
इष्टेतराणि सकलान्यष्टभुजैस्त्वं निवारयेर्ननु ते ।
अहितबलानि सदा त्वं नैजबलेनैव हन्तुमुदितासि ॥१२०॥
इष्टां सर्वेषां नः सृष्टिस्थितिनाशभयतमोहरणम् ।
इष्टां प्रदातुमीशे मुक्तिं मे देहि तां त्वमेवाम्ब ॥१२१॥
इष्टं वितरस्यर्थं नवरात्रान्ते त्वमेव देवानाम् ।
नादज्ञानदवाण्या सेवितचरणे नमोस्तु ते ललिते ॥१२२॥
इह दृश्यमानरूपो भूमूर्तिः शङ्करस्तदर्धाङ्गी ।
त्वमसि हि महिमापूर्णा हैमवति त्राहि मां त्वमेवाम्ब ॥१२३॥
इह चामुत्र च सुखदे महितगुणाढ्ये मुरारिसहजाते ।
सहजारुणमुखकमले जहि मम पापानिसञ्चितान्यम्ब ॥१२४॥
इष्टार्थदानशीले तुष्टा नमतां सपर्यया सतम् ।
इष्टप्रियासि सा त्वं पुष्टिं तुष्टिं च वितर मे ललिते ॥१२५॥
इच्छारागद्वेषान् अभिहत्यात्मन्यशेषसुजनेच्छाम् ।
यच्छसि तुष्ट्या त्वं मेभीष्टानर्थान् प्रदेहि हे ललिते ॥१२६॥
इभवदनजननि साध्वि श्रीमत्सम्पूजिते जितामित्रे ।
प्रभवसि त्वं तापार्तं त्रातुं जनमम्ब निजकृपापाङ्गैः ॥१२७॥
इभवदनवन्द्यमाने शारदपूर्णेन्दुराजमानास्ये ।
त्रिभुवनजननि दयालो कारुण्यं ते सदास्तु मयि दासे ॥१२८॥
इष्टप्रदात्रि धात्रि त्रिनयनहदयप्रिये सदा ललिते ।
तुष्टस्वान्तसरोजे गुणमयि मां पाहि किन्नरोद्गीते ॥१२९॥
इष्टा हि तेम्ब शान्तिः स्वान्ते शान्तिप्रदासि ननु नमताम् ।
शातोदरि दरहासस्फुरदास्येन्दो नमोस्तु ते ललिते ॥१३०॥
इह च परत्राधारं कमपि विनाधारमात्मनोभ्येत्य ।
त्रिपुटीरहितासि त्वं ब्रह्मैवासीति भावयामि त्वाम् ॥१३१॥
इह च परत्र विशुद्धे चित्ते वाचि क्रियाकलापेषु ।
भुवननिरञ्जनचित्ते चित्तागारे वसाम्ब मे ललिते ॥१३२॥
इह शतपत्रसुपत्रे पतितं वारीव वर्तमाना त्वम् ।
विहरसि सत्तासत्ताभवविषये त्वं तथैव मां पाहि ॥१३३॥
इह परिशुद्धात्मा त्वं सत्यज्ञानाग्निदग्धतिमिरासि ।
अज्ञानमन्धकारं जाने तेनासि विरहिता ललिते ॥१३४॥
इह च परत्र च नाशो न हि ते निहिता पदे स्थिरे सततम् ।
विहितविधायकधात्रा मित्रामित्रादिभेदरहितासि ॥१३५॥
इष्टाकारविहीना ब्रह्मसरूपासि भावनातीता ।
इष्टजनतुष्टिदात्री ब्रह्माणी त्वं रमापि भवसीह ॥१३६॥
इच्चारूपोद्वहने शक्तापि त्वं भवेनुरक्तापि ।
व्याकुलतारहितासि श्रेयस्करि ते नमो नमो ललिते ॥१३७॥
इष्टगुणत्रयरहिते तुष्ट्या लक्ष्म्या च तेजसा कलिते ।
अष्टविधायुधहस्ते दुष्टघ्नी त्वं सदांब मां पाहि ॥१३८॥
इह जगति शान्तरूपा कातरतारहितमानसा सततम् ।
वहसि विचित्राकारा नाकारेणापि विरहिता भवसि ॥१३९॥
इह चामुत्र च नित्या भङ्गुरता ते कदापि नैवास्ति ।
विद्या कालातीता भङ्गासितचारुकुन्तले पाहि ॥१४०॥
इह च विकारविहीना निश्चलचित्तासि कामरहितासि ।
विहससि कामविकारानहितानां त्वं ममापि मातासि ॥१४१॥
इहपरभेदविरहिता त्वं सुधया सिञ्चस्यशेषलोकमपि ।
देहानपि तनुभाजां मधुरालापे त्वमेव मां पाहि ॥१४२॥
इच्छोपाधिविहीने मुक्त्या सत्यात्मनापि सङ्गते महिते ।
स्वच्छायाञ्चद्वसने भक्त्याश्लिष्टं कुरुष्व मां ललिते ॥१४३॥
इच्छाविकारहीने स्वच्छायाच्छाद्यमानभुवनतले ।
स्वच्छाययाभिरामे स्वच्छात्मानं विधेहि मामम्ब ॥१४४॥
इह च परत्र च चिन्तारहिते द्वैताभिमानहीनेंब ।
अहितविनाशिनिकान्ताक्रान्तस्वान्ते नमोस्तु ते ललिते ॥१४५॥
इष्टाधारविहीने तुष्टात्माधारसङ्गते महिते ।
पुष्टिः कतनतकष्टिश्रेष्ठे नित्यं नमोस्तु ते ललिते ॥१४६॥
इच्छार्जितपदकमले नित्यविशुद्धे सदाहवे सिद्धे ।
शिष्याभीष्टदहस्ते नित्यं वस मे हदम्बुजे शुद्धे ॥१४७॥
इच्छारूपिणि मातर्नित्यविबुद्धे स्वभावपरिशुद्धे ।
इच्छामि विश्वमातस्तव करुणापाङ्गपातमिह देवि ॥१४८॥
इष्टिपरितुष्टचित्ते दुष्टाविद्यातमोविनिर्मुक्ते ।
तुष्टा मयि भव चित्तेभीष्टं मे देहि करुणया युक्ते ॥१४९॥
इच्छानुकूलवेषे सततं चोङ्काररूपिणी त्वमसि ।
अच्छाम्बरपरिधाने चिन्तितफलदात्रि ते नमो ललिते ॥१५०॥
इदमिति निश्चितरूपं तुभ्यं प्रादान्न कोपि ननु रूपम् ।
तत्त्वमपावतरूपा प्रणतिस्तुभ्यं निरन्तरं भवतु ॥१५१॥
इह तु न भवति कलङ्कस्त्वयि तव वदनेन्दुमण्डले नापि ।
अहिता नासि सतां त्वं त्वं तव रूपेण निर्जितेवासि ॥१५२॥
इह भवति नान्तरायो नोपाधिर्नापि नैजवेषो वा ।
विहितागमपरतन्त्रा जगती विहिता त्वया नमो ललिते ॥१५३॥
इह भवति तव नियन्ता नैकोपीशानमेकमपहाय ।
श्रेयस्यथवा श्रेयानम्ब श्रेयो न हि त्वदत्रापि ॥१५४॥
ईशान्नाशासेहं दैवीं सम्पत्तिमन्वहं दधतीम् ।
ऐहिकमथवामुष्मिकसौख्यं प्राप्तुं मनस्सतर्कं मे ॥१५५॥
ईशानासि सुराणां विषयाशानाशकारिणी त्वमसि ।
ईशार्धाङ्गहरा त्वं श्रीशाद्यमरालिसेविता जयसि ॥१५६॥
ईशापि सर्वजगतां मदरहिता मानिनी त्वमेवासि ।
ईशानाज्ञाधीना हदयसरोजाधिरूढकरुणासि ॥१५७॥
ईश्वरि जगतामाशाधीशाभीष्टप्रदायिनी त्वमसि ।
ईश्वरकार्यकरी त्वं पाशान्मामाशु मोचयेरेव ॥१५८॥
ईश्वरनियमितसरणौ चिन्तारहिताभिवर्धयस्व शमे ।
आयुश्चेष्टापूर्तप्रणयिनि कुरु मङ्गलानि च मे ॥१५९॥
ईश्वरसममहिमाढ्ये न्यूनाधिकसाम्यभेदवद्भिन्ना ।
धीश्वरि वागीश्वरि मे मानसरङ्गे रमस्व धीनुन्ना ॥१६०॥
ईश्वरि दारसुतादिप्रापञ्चिकविषयमोहरहितासि ।
शाश्वतसुखदात्री त्वं शाश्वति जहि मे शुचं नमो ललिते ॥१६१॥
ईशप्रियकरि ललिते पुत्रकलत्रादिमोहपाशकरी ।
शाश्वतसुखदात्री त्वं शाश्वतसुखमेव देहि मे गिरिजे ॥१६२॥
ईक्षेथा न ममत्वं त्वं ममतारहितमानसा भवसि ।
अभिमानहीनहृदये सदया हृदयेन गिरिसुते जयसि ॥१६३॥
ईहाभिमानममताबोधनविच्छेदकारिणी त्वमसि ।
देहाभिमानमुक्ता मुक्ताताटङ्कमण्डिता जयसि ॥१६४॥
ईक्षणरसनाश्रोत्रत्वङ्निसाग्राह्यपापनिर्मुक्ता ।
राक्षसबलमिव पापं नाशयसीहाम्ब ते नमो ललिते ॥१६५॥
ईशाननयनदहनज्वालादग्धस्मरा सकरुणासि ।
पापविनाशकरी त्वं पुण्यमयी चासि ते नमो ललिते ॥१६६॥
ईश्वरि कोपविहीने शाश्वतशान्तिप्रसादसङ्कलिते ।
शश्वन्नमतामिष्टं शाश्वतमसकृत् प्रदातुमर्हा त्वम् ॥१६७॥
ईश्वरि कोपदवाग्निप्रशमकरी त्वं समस्तजन्तूनाम् ।
शाश्वतशान्तिसुखे मे वितर दयापाङ्गभङ्गि हे ललिते ॥१६८॥
ईशार्धाङ्गसुयोगादन्याशापाशविरहिताभिहिता ।
क्लेशापायविहीना भवसि भवाम्भोधितारिणी त्वमसि ॥१६९॥
ईहारहिता भवती लोभवतां लोभनाशिनी भवसि ।
देहिषु दयसे सततं त्वमिहामुत्रापि भाग्यदा भवसि ॥१७०॥
ईतिभयनाशिनी त्वं संशयरहितासि साधुनिवहेषु ।
भूतेशहदयदयिते संशयभूतं जहि त्वमखिलेषु ॥१७१॥
ईशो न देवनामा कोपि न सत्यं न धर्म इति नैव ।
दोषैकदर्शिनां त्वं प्रतिवदतां चाशयं निवारयसि ॥१७२॥
ईशो ब्रह्म तथा त्वं कथिता जन्मादिबन्धरहितासि ।
केसरिकिशोरि समरे हिमगिरिकान्तारचारिणी त्वमसि ॥१७३॥
ईश्वरगहिणी भूत्वा जननं मरणं च देहिनां कुरुषे ।
शाश्वतसुखेच्छुकानां शरणं सा त्वं महात्मनां भवसि ॥१७४॥
ईश्वरि जगतां हृदये भ्रान्तिविकल्पादिभावनारहिता ।
ऐश्वर्यदानशीले नमतां प्रालेयशैलजे भवसि ॥१७५॥
ईशानवल्लभा त्वं दोषविहीना च बाधया रहिता ।
क्लेशानुपशमय त्वं भवभीतानां भवाश्रयं देहि ॥१७६॥
ईशार्धदेहघटिता क्लेशकरद्वैतभावनारहिता ।
द्वेषासूयारहिता क्लेशापायघ्नि पालय त्वं माम् ॥१७७॥
ईश्वरतत्त्वाभिज्ञा ज्ञातव्यार्थप्रकाशिका सदया ।
ईश्वरि विध्यण्डानां भेदमतिघ्नि प्रियं सतां देहि ॥१७८॥
ईश इव नाशरहिते शाश्वतसुखदात्रि देहिनां भजतां ।
ईशानतोषहेतो शश्वच्छश्वन्नमोस्तु ते ललिते ॥१७९॥
ईशानवल्लभात्वान्मृत्युं सर्वासुहारिणं जेतुं ।
ईशा त्वमेव नूनं मृत्युं जयसि त्वमेव मे शरणम् ॥१८०॥
ईहामोहविहीने क्रियया रहिता च कर्मणा जगते ।
देहानिव वहसि त्वं शक्तित्रयमप्यवश्यमेव ननु ॥१८१॥
ईरयसि दातुमखिलं सुजनं नादातुमीहसे दानम् ।
कस्मादपि भुवि तस्मात् परिजनरहितेव भाससे ललिते ॥१८२॥
ईश्वरि निरुपमरूपे निरुपमशौर्यॆऽम्ब निस्तुलाभिख्यो ।
ईश्वरकतचिरतपसामनुपमफलरूपिणी त्वमसि ॥१८३॥
ईक्षणचिकुरसुनीले नीलाकाशोपमे रमे देवि ।
राक्षसमर्दनधीरे बाले बालेन्दुराजिते पाहि ॥१८४॥
ईश्वरि निरपाया त्वं दारयसीहार्थिसम्भवापायम् ।
ईश्वरभक्तिमतां ते चरणं शरणं सदा स्थिरं देवि ॥१८५॥
ईश्वरि रूपगुणेषु व्यत्ययरहिते हिते सतां सततम् ।
कोपि कदाचिदपायो न भवति कस्माच्च तेम्बिके ललिते ॥१८६॥
ईश्वररविगणनाथश्रीनाथैस्त्वं हि सेविता सुजनैः ।
धीराराधनसुलभा भवसि खलानां तु दुर्लभा त्वमसि ॥१८७॥
ईतिमयजटिलसंसतिविहितव्यवहारपाशमुच्छिद्य ।
पश्यति यस्स तु भवतीं तदितरजनतातिदुर्लभा त्वमसि ॥१८८॥
ईश्वरदुरितनिहन्त्री त्वमसि च दुर्गा च दुर्गमा भवसि ।
दुर्गैकसेवकानां सात्त्विकरूपा नमोस्तु ते ललिते ॥१८९॥
ईतय इव हृदि नानाशोकावेगा भवन्ति कतिनां च ।
इह जगति देहभाजां लोकानां तान्निवारयेस्त्वं हि ॥१९०॥
ईप्सितवैदिकमपि तत्सुखमिह यत्पारमार्थिकं सत्यं ।
ईप्सितसेवाकर्त्रे सा त्वं दत्से हि पाहि मां ललिते ॥१९१॥
ईश्वरि दुष्टारीणां भीषणरूपा त्वमेव सम्भवसि ।
दुर्लभरूपे दुर्गे दुर्गमदुर्गाद्विमोचयेरम्ब ॥१९२॥
ईशानासि हि जगतां लोकायतिकाद्यधर्ममार्गस्थान् ।
नाशयितुमम्ब दुर्गे सकलदुराचारनाशमपि कुरुषे ॥१९३॥
ईश्वरि दोषविहीने शाश्वतसौभाग्यदात्रि सावित्रि ।
शाश्वतिकसम्पदं त्वं करुणारक्षां च देहि मे ललिते ॥१९४॥
ईश्वरि करुणापूर्णे सर्वज्ञा त्वं च चक्रराजस्था ।
सृष्टिस्थितिलयमर्मज्ञात्री धात्री च नस्सदा भवसि ॥१९५॥
ईड्ये सतां गुणाढ्ये मातः कारुण्यवारिधे भजताम् ।
करुणापाङ्गपयोदैः प्लावय दीनान्तरङ्गवसुधां च ॥१९६॥
ईश्वरि सदशाधिकतारहिता सहिता च करुणया सततम् ।
जगति भवत्या सदशी व्यक्तिर्नहि कापि दृश्यते ललिते ॥१९७॥
ईश्वर्याद्या शक्तिर्जगतां त्वं तावदखिलभीतिहरा ।
युक्त्या शक्तिसमष्ट्या जयसि त्वं देवि तेजसा रुचिरा ॥१९८॥
ईश्वरि मङ्गलमूर्ते कात्यायनि सर्वमङ्गले ललिते ।
पात्रं कुरु करुणायास्तव मां मातर्नमामि ते चरणम् ॥१९९॥
उडुराजसुन्दरास्ये सन्मतिदात्री प्रणामनिरतानम् ।
मडरमणि हसितलास्यस्फुरदाननचन्द्रिके नमो ललिते ॥२००॥
उडुराजचूडदयिते ब्रह्माण्डग्रामशासने रसिके ।
मडनाट्यमार्दवेड्ये ब्रह्मानन्दप्रदे नमो ललिते ॥२०१॥
उरगाधिपधतवसुधाद्यखिलधरालोकशासने दक्षे ।
सरसीरुहदलनयने मातस्तुभ्यं नमो नमो ललिते ॥२०२॥
उरगेशकेशपाशे सकलालङ्कारशोभिते ललिते ।
द्विरदारिवाहने ते चरणं सर्वात्मना भजे सततम् ॥२०३॥
उपरि तथोच्चैर्जगतां शासकवर्गे त्वया समं महिता ।
शासितुमपरा नास्ति त्वय्ययत्तानि सकलभुवनानि ॥२०४॥
उपनतसकलसुतन्त्रे विस्तारिणि विश्वमण्डलस्यापि ।
तपनीयभूषणाढ्ये सा त्वं सर्वत्र पाहि मां सततम् ॥२०५॥
उन्मग्नमग्नचित्ते संसाराम्भोनिधौ मनस्सु सताम् ।
मुक्तिस्थितिमति सततं माहेश्वरि ते नमो नमो ललिते ॥२०६॥
उपमानविरहिता त्वं सकलब्रह्माण्डनायिका भवसि ।
माहेश्वरि मयि करुणां कुरु हे मातङ्गवंशजे ललिते ॥२०७॥
मडविजयकारिणि त्वं निजविजयादेव ते नमो ललिते ॥२०८॥
उज्ज्वलतेजोराशे न भवत्युपमा जगत्त्रयेपि तव ।
प्रज्वलति कीर्तिलक्ष्मीस्तव सौन्दर्यं तथा महालक्ष्मि ॥२०९॥
उपवीणयितुमलभ्ये मायावत्तं च दुर्गमं भुवने ।
अपहतसुमनोहदये भूयो भूयो नमोस्तु ते जननि ॥२१०॥
उज्वलरूपवती त्वं ब्रह्माण्डव्यापिनी महारूपा ।
प्रज्वालयसि च धाम्ना ब्रह्माण्डं ते नमो नमो ललिते ॥२११॥
उमया रमया वाण्या सहितैः सम्पूजिते सुराधीशैः ।
हरिहरपरमेष्ठिभिरपि नित्याराध्यासि ते नमो ललिते ॥२१२॥
उपनतपातकनिवहं भजमानानां निवारयेरम्ब ।
उपमातीतमपीदं क्रूरं पापं ममापि जहि जननि ॥२१३॥
उपवर्णयन्ति मायां ज्ञानं कवयोपि सत्प्रशंसन्ति ।
जगतीकारणमायामाये चानन्ददे नमो ललिते ॥२१४॥
उर्वीधरवरजाता त्रिभुवनसारा पयोधिगम्भीरा ।
गर्वितसुररिपुनाशिनि सुभगा सा त्वं नमोस्तु ते ललिते ॥२१५॥
उत्तमशक्तिगरिष्ठे मेरोः पृष्ठे सदा कृतावासे ।
उत्तमगुणवति गिरिशप्रेयसि मां पाहि हे महाशक्ते ॥२१६॥
उत्तमचरिताराध्ये त्रिभुवनसंमोहनाकते महिते ।
चित्तजरमणीकोटिप्रतिमे मां त्वं तु दारकं पाहि ॥२१७॥
उत्तमकमलभवाण्डव्यापिनि सौभाग्यसङ्गते सततम् ।
निजवरभुवनागारे रममाणे ते नमो नमो ललिते ॥२१८॥
उज्वलपिङ्गमहोभी राजितमूर्ते श्रिया युते सततम् ।
प्रज्वालय मयि देवि ज्ञानमहादीपमम्ब हे ललिते ॥२१९॥
उत्तमदेहविभागज्योतिः स्तोमेन दीपयस्यखिलम् ।
जगदिदमम्बुजनयने नयनेनेक्षस्व मामिमं चपलम् ॥२२०॥
उन्माद्यदिन्द्रियाणां जगतां बलमेकमर्दयेस्त्वं हि ।
त्रातुं जगतीं प्रबला धर्मेणेहासि कोविदा ललिते ॥२२१॥
उद्धतदैत्यनिषूदिनि निजबलपरिवद्धिकारिणी त्वमसि ।
सिद्धसुरस्तुतपादे पादे प्रणतं पुनीहि मां ललिते ॥२२२॥
उत्तमबुद्धिमती त्वं सर्वज्ञासि त्वमेव सिद्धिरपि ।
उत्तमफलदात्री त्वं नित्यं नमतां नमोस्तु ते ललिते ॥२२३॥
उत्तमबुद्ध्या सिद्ध्या साधितसंसाररक्षणा त्वमसि ।
कमलमुखि कामदात्रि त्रिभुवनजननि त्वमेव मां पाहि ॥२२४॥
उत्तमयोगिजनेश्वरि सकलामरबन्दशक्तिसंसिद्धे ।
हरिहरविरिञ्चिरूपे शक्तिनियन्त्रि त्वमेव मां पाहि ॥२२५॥
उज्वलरूपिणि नानामुद्राभिज्ञे समस्तबलमूले ।
कर्मक्रियाश्रयत्वं वहसि त्वं देवि ते नमो ललिते ॥२२६॥
उपधीनखिलानसुरैर्विहितानुन्मूल्य विजयिनी त्वमसि ।
बीजाक्षरवरमन्त्रज्ञानाधारे नमो नमो ललिते ॥२२७॥
उद्धतसमस्तविश्वं यन्त्रगणं शक्तिदानपरिपुष्टम् ।
उद्धरसि यन्त्रदूरे यन्त्राधारेम्ब ते नमो ललिते ॥२२८॥
उपगतषोडशवर्णैः स्वररूपैरेव च ते कलाः सकलाः ।
ब्रह्माण्डपालनाय ख्याता जाता हि ते नमो ललिते ॥२२९॥
उत्तमतत्त्वज्ञानप्रदमनुविद्यास्वरूपिणी त्वमसि ।
विद्याकारे हद्ये जगतामाद्ये नमोस्तु ते ललिते ॥२३०॥
उडुपतिमण्डलममतापूरमयं तेन सिञ्चसि क्षोणिम् ।
भवसि हि चन्द्राभिख्या विद्या त्वं ते नमो नमो ललिते ॥२३१॥
उर्व्यादिपञ्चभूतख्यातमहारत्नपीठमध्यगते ।
ब्रह्माण्डमेव पीठं प्रणवसहस्रारपङ्कजं ननु ते ॥२३२॥
उत्तम ओङ्कारस्थे प्रेताख्याताध्वरक्रमाराध्या ।
उत्तमफलदासि त्वं वैश्वानरवर्गसेविता शुद्धा ॥२३३॥
उज्ज्वलमूर्तिं साक्षादम्ब त्वामेव पूजयेत् देवीम् ।
भैरव एव शिवोपि प्रथमोऽभूत्तेन ते नमो ललिते ॥२३४॥
ऊरीकृतनिजकार्यारम्भे नाट्यप्रिये महादेवे ।
नटति सति साक्षिणी त्वं करुणामूर्ते नमोस्तु ते ललिते ॥२३५॥
ऊहातीताकारे कामेशार्धाङ्गयोगविख्याते ।
त्रिभुवनपालिनि जननि प्रीता त्वं देहि मेम्ब कल्याणम् ॥२३६॥
ऊर्ध्वं नीचैर्मध्ये लोकास्सन्ति त्रयोपि ते वपुषि ।
भवनानि वा पुराणि त्वं पुरसुन्दर्यसीह मे जननी ॥२३७॥
ऊहेयस्वरवर्णैः षोडशपूजाश्चतुर्भिरिह गुणिता ।
उपचाराश्च सपर्यास्ता आधत्सेम्ब ! मातकारूपे ॥२३८॥
ऊहापोहो नायं षोडशवर्णाः स्वराः स्वतन्त्राश्च ।
निजभेदसङ्गतास्ते षष्टिकलास्ते चतुष्कलासहिताः ॥२३९॥
ऊरीकताक्षराणां योगादासन् हि शक्तयः सकलाः ।
योगिन्योमूर्नित्यं त्वामेवार्चंति ते नमो ललिते ॥२४०॥
ऊनेतरदथवा सम्पूर्णं चन्द्रस्य मण्डलं यत्त्वम् ।
तन्मध्यवासिनीति ज्योत्स्ना ख्यातासि ते नमो ललिते ॥२४१॥
ऊरीकतसुरसुन्दररूपालङ्कारशोभिते ललिते ।
दूरीकुरु मे दुरितं सकलं सकलात्मिका त्वमेवासि ॥२४२॥
ऊरीकृतनिजकार्ये ! साधितकार्या च सा त्वमेवासि ।
दूरीकृतभवबाधा त्रिभुवनसाम्राज्ञिकासि सा त्वमेवाम्ब ॥२४३॥
ऊरीकृतामतास्ये ! चारुस्मितचारुचन्द्रिकोल्लास्ये ।
दारक इति मां पाहि त्वं ननु विश्वप्रसूतिका जयसि ॥२४४॥
ऊर्ध्वमधस्ताद्देहे सन्ति हि चक्राणि यत्सहस्रारम् ।
चक्रं शिरसि तदेतद्भवनं श्रीदेवि त्वं भवेर्हि तत्रैव ॥२४५॥
ऊहातीतचरित्रे पर्वतराजस्य पुत्रि गायत्रि ।
प्रतिदेहवासिनी त्वं चैतन्यं चासि विश्वरूपा च ॥२४६॥
ऊर्ध्वमयूखैर्भास्वान् हिमवति कमलानि यानि बोधयति ।
तैरर्चंति हि मुनयस्त्वामनिशं देवि ते नमो ललिते ॥२४७॥
ऊरुद्वयेन रम्भां जित्वा त्वं विश्वराज्यसर्गेपि ।
सा रम्भा ननु नारी त्वं तावत्पुरुषकारसम्पन्ना ॥२४८॥
ऊर्जस्विपञ्चपीठान्यनवद्यान्यम्ब ते विराजन्ते ।
प्रेयांसि तानि तं च त्वत्पादाम्भोजपावितान्यम्ब ॥२४९॥
ऊर्जस्वि पञ्चकं ते विधिहरिरुद्रप्रभेदसञ्जातम् ।
त्रयमिदमपि तव पीठं ब्रह्मत्वं तावदेकमेवं हि ॥२५०॥
ऋतमम्ब ते स्वरूपं चिद्वा चैतन्यमेकमेवं हि ।
चिन्मय्यसि च तथा त्वं तव भासा त्वं विराजसे नितराम् ॥२५१॥
ऋतमेव ते प्रियं तत् पदमानन्दाय ते त्वमेव तथा ।
ब्रह्मानन्दाकारे सारसगमने त्वमेव मां पाहि ॥२५२॥
ऋषिमतमेव ज्ञानं विज्ञानं चानुभूतिसञ्जातम् ।
तदसि हि तद्द्वयरूपा त्वामेवं तावदाश्रये ललिते ॥२५३॥
ऋतमसि नित्यं चिन्त्या ध्यानं ध्याता च निश्चितं ध्येयम् ।
त्रिपुटीति चासि या त्वं सा त्वं मां पाहि ते नमो ललिते ॥२५४॥
ऋतरूपासि ऋतं तत् जीवयसि त्वं तदेव रक्षसि च ।
धर्माधर्मविदूरे मदगजगमनेम्ब पाहि मां ललिते ॥२५५॥
ऋतमिह विश्वं जाग्रत् जातं तद्रूपमेव ननु देवि ।
प्रणवस्यादिरकारस्त्वं भवसि त्वं भवानि मां पाहि ॥२५६॥
ऋतमम्ब जाग्रदिति यः कालो जीवस्य कार्यकालो हि ।
कालस्सोपि तवाम्ब स्फुरति हि रूपं नमोस्तु ते ललिते ॥२५७॥
ऋतवाणि देवि ललिते तैजसरूपे मुदैकमरकन्दे ।
ऋतधारिवेदमाता मातास्माकं त्वमेव ननु ललिते ॥२५८॥
ऋक्षाधिपसमवदने रूक्षासुरनाशकारिणी त्वमसि ।
सुप्तावस्थारूपे जागृहि चागरय चेतनान् सकलान् ॥२५९॥
ऋतवादिसेव्यमाने प्रणवे तावन्मकार एवासि ।
तन्मुख्यजीवरूपे श्रीदेवि त्वामहं सदा वन्दे ॥२६०॥
ऋषिहृदयमात्रवेद्ये मुक्तावस्थात्रये त्रयीवेद्ये ।
मगराजवाहने त्वां जीवन्मुक्तिस्वरूपिणीं वन्दे ॥२६१॥
ऋतुराजार्चितपादे वदनाम्बुजचारुताकतामोदे ।
सर्वावस्थारहिते ललिते मां पाहि सामभिर्गीते ॥२६२॥
ऋतमवलम्ब्य सदा त्वं जगतां सृष्टिं करोषि रजसैव ।
त्वमपि चतुर्मुखरूपा रक्षसि भुवनं नमोस्तु ते ललिते ॥२६३॥
ऋषिभिरशेषैरमरैराराधितपादपङ्कजे ललिते ।
निर्मितजगतीमेकां गोपायसि देवि ते नमस्सततम् ॥२६४॥
ऋतुपतिरिव स च नैजं जगदिदमखिलं च रक्षसि त्वं हि ।
तेन च सात्त्विकरूपा गोविन्दासीर्नमो नमो ललिते ॥२६५॥
ऋतपरिपन्थितमो यत् तेन युता त्वं जगद्विनाशाय ।
प्रभवसि हि रुद्ररूपा दीनजने त्वं तु वत्सला भवसि ॥२६६॥
ऋतमपहाय समस्तं भूतग्रामं ततस्तमोरूपे ।
स्थापयसि रुद्ररूपा परुषेव त्वं तिरोहितं कुरुषे ॥२६७॥
ऋतगर्भलीनमेतत् भुवनं तावत् तिरोहितं कुरुषे ।
अणुकणकणमध्ये त्वं भूतानीमानिपुनरपि स्रष्टुम् ॥२६८॥
ऋतमयविधिहरिरुद्रा यावन्न भवन्ति तावदेव त्वम् ।
भवसि जगदीश्वरी वा नित्या सकला शिवात्मिका भवसि ॥२६९॥
ऋतमसि हरिहररूपा श्रीदेवि त्वं कलात्मिका भवसि ।
सा त्वं सदाशिवा वा भवसि भवानी नमोस्तु ते ललिते ॥२७०॥
ऋतमवलम्ब्य जयेस्त्वं जगदिदमखिलं तथानुगृह्णासि ।
नतजनमपि निजकरुणापात्रं कुरुषे नमोस्तु ते ललिते ॥२७१॥
ऋतबलवति गिरितनये सृष्टिव्यापारयोश्च विश्वलये ।
उपसंहारे निरता त्वमसि तथानुग्रहेपि निष्णाता ॥२७२॥
ऋतमतमेव हि सततं भवति च विश्वं तदेव पालयसि ।
उपजीवसीव मन्ये त्वमसि सदा भानुमालिनो मध्ये ॥२७३॥
ऋततपसि वर्तमाना भैरवदयितासि भैरवी त्वं हि ।
ऋतमिह पालय सा त्वं शाश्वति नित्यं नमोस्तु ते ललिते ॥२७४॥
ऋतशक्तिकामसम्पत्सहिता गर्भे जगत्त्रयाकलिता ।
ऋक्षशतमालिनी त्वं विविधाकारा भवेर्नमो ललिते ॥२७५॥
ऋतजगदुदयनिदानेदानेनूनेवनेषु निष्णाते ।
सृष्टिलयभूतगमना विद्याविद्याविदम्ब मां पाहि ॥२७६॥
ऋतहेमगर्भगर्भे चिच्छक्तेस्त्वं भवेर्महापूर्वा ।
वाणीति तासु मूर्तित्रयजायास्तथैव सञ्जाताः ॥२७७॥
ऋतशिवसुन्दररूपे शमितसुरस्तोमहदयसन्तापे ।
कमलोदरसहजाते त्रिभुवनगीतेम्ब ते नमो ललिते ॥२७८॥
ऋतचिच्छक्तिरभून्ननु ता एव श्रीरुमेति वाणीति ।
लक्ष्मीर्विधिरिति रुद्रो वाणी गौरी हरितो जाताः ॥२७९॥
ऋतकार्याणि विधातुं वाणीं ब्रह्मा रमां हरिः प्राप ।
त्वां ललितामिह शर्वः सा मां पाहि त्वमेव हे ललिते ॥२८०॥
ऋतमपि भुवनं भ्राता रक्षति भगिनी त्वमस्य किं कुरुषे ।
दुर्गासि दुर्गतिं त्वं संहरसि त्वमेव हरयोषा ॥२८१॥
ऋतमपि जगदुदयति ते नयनाम्भोजे विकस्वरे जाते ।
मुकुलितवदने तस्मिन्मीलति चक्षुष्क्रिया त्वदालम्बा ॥२८२॥
ऋतमयदशशतवदना दशशतनयना च सा त्वमेवासि ।
ऋतमिह किं न तु जाने जानामि त्वां हि केवलं मायाम् ॥२८३॥
ऋतमथवानतमास्तामगणितनयना त्वमेव ननु भवसि ।
मतमभिमतमितरेषां किं वा स्यादत्र सा प्रमाणं त्वम् ॥२८४॥
ऋतमंब सप्तमादपि लोकान्नीचैः पदं तवोल्लसति ।
त्वमसि च वरशतचरणा करुणाभरणे त्वमंब मां पाहि ॥२८५॥
ऋतविधिकीटावधिकब्रह्माण्डैकप्रसूस्त्वमेवासि ।
अतुलितकरुणाभरणे ब्रह्ममयि त्वां भजे सदा मनसा ॥२८६॥
ऋतवर्णाश्रमभेदानकरोस्त्वं देवि लोककुशलाय ।
हितमवधत्तां लोकः सोयं नैजं तथा कुरुष्वांब ॥२८७॥
ऋतवेदवर्गवाणी ता अप्याज्ञास्तवैव ननु देवि ।
का तव वागितरा स्यान्मान्या न स्यादुपेक्षणीया वा ॥२८८॥
ऋतपुण्यपापफलदा दाक्षायणि सा त्वमेव भवसि नृणाम् ।
इति यदि कारय पुण्यं मा कारय पापलेशमप्यम्ब ॥२८९॥
ऋतमम्ब श्रुतिरेषा वनिता ख्यातेति तच्छिरोदेशे ।
पतति तव पादपद्मं सास्त्याज्ञाकारिणी तवादेशे ॥२९०॥
ऋतवच्छ्रुतिरमणीनां सीमन्तेषूल्लसन्ति लीलास्ते ।
धूलिकणास्सिन्दूरं धृतमिव तव पादपद्मरजसां च ॥२९१॥
ऋतसकलागमसंहतिशुक्तिसुसम्पुटकराजमाना सा ।
मुक्तारूपवती त्वं रमयसि तास्त्वां च ताश्च रमयन्ति ॥२९२॥
ऋतजीवजीवनार्थो मोक्षस्सायुज्यमम्ब के ते वा ।
वितरसि तत् तद्वा त्वं प्रियशतजीवेषु भवसि यदि देवि ॥२९३॥
ऋतदेशसमयसुस्थितिभेदवशासि देवि परिपूर्णा ।
सततमपि जगति सकला सर्वत्रापि त्वमम्ब मां पाहि ॥२९४॥
ऋतमस्ति मह्यमेतद्विश्वं विश्वंभरासि सुखभोक्त्री ।
इति ननु भावयसि त्वं भुंक्षे सौख्यं जगच्च भोजयसि ॥२९५॥
ऋतमवति भुवनमखिलं भुवनार्तानामधीश्वरी त्वमसि ।
पतितोद्धारिणि हरिणीचञ्चलनेत्रे सदाशिवे पाहि ॥२९६॥
ऋतलोकलोकजननी सकलब्रह्माण्डशासिका त्वमसि ।
गतिमतिरूपिणि जगतां त्वां तां वन्दे त्वमेव मे शरणम् ॥२९७॥
ऋतमिव चाधिविहीना यासि त्वं सैव जन्मरहिता त्वम् ।
इति सति का च्युतिरथवा भवति तवाप्यम्ब पाहि मां च त्वम् ॥२९८॥
ऋतमिदमम्ब विधाता तज्जनकस्त्वां सदा निषेवेते ।
सकलश्रुतिततिवचनं स्यादिति मन्येम्ब पाहि मां ललिते ॥२९९॥
ऋतविषयबोधदात्री धात्री जगतोपि वल्लरीगात्री ।
मतिशक्तिवर्धिनी त्वं पात्रीकुरु मां तवार्चनापात्रे ॥३००॥
ऋतमूलरूपमेव प्रणवं शंसन्ति पण्डिताश्चान्ये ।
अपि नादवेदरूपा त्वामेवाहं नमामि तां ललिताम् ॥३०१॥
ऋतमस्ति भाति चेष्टं रूपं नामेति पञ्चके नाम्नाम् ।
रूपेण विरहिता त्वं ब्रह्मण एवासि रूपमयि धाम्ना ॥३०२॥
ऋतहितकर एवैको ह्रीङ्कारस्तेऽम्ब भवति बीजेषु ।
भवसि च सा त्वं वर्णस्स च बीजं वा त्वमेव बीजेषु ॥३०३॥
ऋभवः स्तुवन्ति हि त्वां सति सत्प्रीत्यात्मिकां वरां देवीं ।
ह्रीङ्कारबीजरूपां रूपेणानन्दकारिणा सहिताम् ॥३०४॥
ऋभुनुतदिव्यचरित्रे मात्रे तुभ्यं नमो नमो जगतां ।
ह्रीम्बीजपूज्यमाने मानेनाम्बास्तु ते नतिस्सततम् ॥३०५॥
ऋभुमनुजदनुजमूर्तिषु मस्तकदेशेषु राजते यद्वा ।
शुभकरसहस्रपत्रं तत्र त्वं हर्षवर्षिणी जयसि ॥३०६॥
ऋभुगणकतनुतिमुदिते हेयोपादेयवर्जितेऽप्यजिते ।
विभुरिति न हि ते नियतो नरसुरदैत्येषु कोऽपि हे ललिते ॥३०७॥
ऋभुपतिनरपतिदानवपतिगणसम्पूज्यमानपदयुगले ।
अभिवादनपटुहृदयप्रतिफलिताकारशोभिते नम ओम् ॥३०८॥
ऋभुगणनरगणदानवगणराज्यानां त्वमेव साम्राज्ञी ।
अभिहितचरितासीति त्रिभुवनसंसारधूर्वहे धीरा ॥३०९॥
ऋभुपतिदयिताराध्ये ऋभुवनितानां च देवि ते मध्ये ।
ताभिरपि विदितहृदयश्श्रीकाभिस्त्वां भजे मनोमध्ये ॥३१०॥
ऋभुनरदानवजङ्गमहदयानां चान्यजीविहदयानाम् ।
अभिमतरञ्जनकारिणि शुभमयहदये सदाम्ब मां पाहि ॥३११॥
ऋभुवनिताहितकारिणि शुभमयनरयोषिदर्चनप्रीते।
अभयादीप्सितदात्री श्रीमति भजतां कपालिनि त्राहि ॥ ३१२॥
ऋभुपतिनिजपतिकमलानाथाम्भोजासनादिहृदयानि ।
मानवहृदयान्यारात् रञ्जयसि त्वं तथा च रमणी त्वम् ॥३१३॥
ऋक्षपतिपक्षभाजां हृदयानन्दं यथा कला कुरुते ।
इक्षुक्षीरसुरास्ते ताः स्वारस्यं वितन्वते मनसि ॥३१४॥
ऋणभयनाशिनि नृणां रणरणिकानां च मानसे विरसे ।
अणिमादिसिद्धिहेतो रणदुज्वलचारुमेखले पाहि ॥३१५॥
ऋभुवनिताभिर्वलयिता श्रीरूपेण या नन्दयति सर्वान् ।
अपि मम गृहमानन्दय प्रह्वीकतनमनमत्र हे ललिते ॥३१६॥
ऋणभारकतमतितापं मनसः शमयसि त्वं देवि ।
यो ध्यायति त्वां नित्यं तं सुखयसि पूर्णेन्दुवक्त्रभासुरया ॥३१७॥
ऋषिकुलमोदा भवती मनसा मन्त्रैकदर्शिनी त्वमसि ।
रतिरूपासि सवित्री लोकानां त्वं पुनीहि मां ललिते ॥३१८॥
ऋषयोपि पाशबद्धा दयितासहिता रतिप्रिया भुवने ।
विषयाकृष्टमनस्काः तेषां बोद्ध्री त्वमेव ननु भवसि ॥३१९॥
ऋषिमानससरसीरुहवनहंसी त्वं ततस्सतां मार्गे ।
रक्षाकरीह भूत्वा गमयसि मातर्नमोस्तु ते ललिते ॥३२०॥
ऋषिजनमारकराक्षसनाशकरी त्वं बभूविथा ज्ञानम् ।
शमयितुमायुधहस्ता दुर्गे देवी तथा दयादुर्गा ॥३२१॥
ऋषिजनमानसमनिशं यस्यां रमते तथैव दयसे त्वम् ।
तन्मानसानि रमयसि परमब्रह्मरूपिणी त्वमसि ॥३२२॥
ऋतुधर्मशालिनीनां वनितानां त्वं करोषि सुखबोधम् ।
धर्मं पातिव्रत्यं त्वमसि सदा रमणलम्पटा देवि ॥३२३॥
ऋषिहृदयकामिता त्वं काम्या देवैश्च सकलजन्तूनाम् ।
विषयपराङ्मुखमनसां सुलभासुलभा सविषयिणां त्वमसि ॥३२४॥
ऋषभादिस्वरगेया कामकलाबोधिनी महादेवि ।
वृषवाहहृदयवेद्ये मातर्ललिते नमोऽस्तु ते देवि ॥३२५॥
ऋभुपत्युपवनसम्भवनीपद्रुमकुसुमसौरभप्रीते ।
अभिमतमधुमैरेये धूतापाये नमोऽस्तु ते ललिते ॥३२६॥
ऋतमयि मायातीते मायाप्रच्छन्नकान्तिमत्काये ।
प्रतिहतदुरितनिकाये कल्याणी त्वं नमोऽस्तु ते ललिते ॥३२७॥
ऋभवः प्रभवः केचित् जगतीकन्दं न जानते तेऽपि ।
शुभमयि भवतीं तस्मात्त्वं मां प्रणतं पुनीहि जगदम्ब ॥३२८॥
ऋतमूलविश्ववल्लीकन्दस्त्वं भवसि मूलरूपा वा ।
कन्दस्सोऽपि शरीरे वस्तिविभागे विराजसे नृणाम् ॥३२९॥
ऋतमवसि कुण्डलिन्यां कन्दो देहेऽस्ति यस्त्वमेवासि ।
फणिनीहासि च सा त्वं का मे गतिरत्र वा विना भवतीम् ॥३३०॥
ऋतमेव तावदेतत् करुणारससागरा त्वमेवेति ।
अत एव देवि भुवनं स्नेहं सौख्यं च भावयेस्त्वं हि ॥३३१॥
ऋक्षाधीश इहास्ते षोडश धृत्वा कलाविकारी च ।
षोडशकलाश्चतुर्भिर्गुणिता धृत्वा निरामया त्वमसि ॥३३२॥
ऋतनुन्नसाधुविद्यानन्दानन्दप्रदा कलालापा ॥
श्रुतिपेयगीतिरसिका त्वं तावद्देवि ते नमो ललिते ॥३३३॥
ऋक्षपतिकोटिकान्ता कान्तारारामचारिणी ललिता ।
रक्षितसुरनरभुवना त्वं तावन्मातराश्रितान् पाहि ॥३३४॥
ऋक्षपतिकोटिनिर्मितिकारणकान्त्या स्फुरन्महारूपे ।
वक्षोजभारनम्रे कम्रे कम्रत्वबन्धुरे पाहि॥ ३३५॥
ऋतपथ्यकारिणी या सुरवनकादम्बसम्भवा मदिरा ।
सा तव मानससुखदा प्रीता त्वं पाहि मामिमं ललिते ॥३३६॥
ऋतमनतमुभयमेतद्दिनकररजनीशशासनीयतया ।
वारुण्ये त्वं द्विविधा प्रेम्णा प्रथमां निषेवतां भवती ॥३३७॥
ऋभवोपि सिन्धुलब्धां कपया ते देवि तां निषेवन्ते ।
दिव्यामेव सुधां तत्प्रियममतं पातुमिच्छसि त्वं हि ॥३३८॥
ऋभुषु च वरुणः प्रेयानमराणां मनुजदानवानां च ।
वरुणप्रियममतं तद्विद्यारूपं तव स्वरूपमपि ॥३३९॥
ऋभुवरुणसेव्यमाना नाडी नाडीश्वरी भवेत्तस्याम् ।
जीवन्मुक्तानन्दा भवसि त्वं देवि ते नमो ललिते ॥३४०॥
ऋभुषु नरेषु च द्विषद्वैरिषु या या विराजमानास्ताः ।
विद्या अतीत्य विद्या त्वं जगदधिकासि ते नमो ललिते ॥३४१॥
ऋतबोधिवेदमार्गौद्वावेवाद्यो भवाय भवमुक्त्यै ।
मार्गो द्वितीय एव त्वं तद्वेद्यासि ते नमो ललिते ॥३४२॥
ऋभुरिपुशुंभनिशुंभौ हत्वा त्रातुं त्वमेव विंध्यगिरौ ।
निवससि नवनववेषा ख्याता सर्वत्र ते नमो ललिते ॥३४३॥
ऋभुनरसुररिपुलोकान् अभयप्रदपाणिपल्लवैरेव ।
त्वमसि ननु पालयित्री मातेवाम्ब स्तुते नमो ललिते ॥३४४॥
ऋतवेदसोदरीणां इच्छाज्ञानक्रियाख्यशक्तीनाम् ।
त्वमसि हि माता ख्याता कमलोदरभगिनी ते नमो ललिते ॥३४५॥
ऋतपालिनि हरिमाये वैष्णवशक्ते समस्तभरणपटुशक्ते ।
मूलप्रकते मातः त्वं मे जगतां च ते नमो ललिते ॥३४६॥
ऋतमात्रवेदशक्ते स्वेच्छामात्रेण सकलकार्यरते ।
अतिदैवतनिजशक्ते कृतिनिपुणे ते नमो नमो ललिते ॥३४७॥
ऋतनिगमवेद्यरूपे क्षितिजलपवनाग्निगगनमयरूपे ।
धूताखिलविधपापे मातस्तुभ्यं नमो नमो ललिते ॥३४८॥
ऋषिमनुनुतगुणरत्ने क्षितिजलदहनादिदेहिचररूपे ।
मतिमन्मानसहंसी पाहि त्वं मां नमो नमो ललिते ॥३४९॥
ऋतजातभूतजातज्ञातनाकानामीश्वराधीनम् ।
मातेव जातपोतान् पालयसि त्वं नमोऽस्तु ते ललिते ॥३५०॥
ऋतमथवानतमास्तां वद्धिं तनुषेनतं क्षयं तनुषे ।
इति जगति त्वं द्वयमपि कुरुषे मातर्नमोस्तु ते ललिते ॥३५१॥
ऋतवैरिकालदैत्यं क्षततनुमुक्तासुपञ्चकं कर्तुम् ।
काली त्वमभूर्बालं क्षेत्रपमवितुं नमो नमो ललिते ॥३५२॥
ऋतमेव विजयि विजयं क्षतिरहितं विदधती त्वं हि ।
ऋतवेद्यपादपद्मे विजये मातर्नमो नमो ललिते ॥३५३॥
ऋतधर्मपालिनी त्वं मितलोकासि त्वमेव सरसासि ।
ऋतवत्यसि हदि शुचितां विमले मातर्नमो नमो ललिते ॥३५४॥
ऋतमेव वन्द्यमखिलै रजसो दूरं च यत्तमोदूरम् ।
अत एव दुर्गमा त्वं वन्द्ये सेव्ये नमो नमो ललिते ॥३५५॥
ऋतजन्मभाग्यधात्री श्रुतिविद्वद्वृंदवत्सले सकले ।
नुतिपरजनताहृदयोल्लासिनि मातर्नमो नमो ललिते ॥३५६॥
ऋतमयपदयुगयुगलां वाचं वाचंयमत्वमपि वेत्सि ।
बोधय बोधाद् विमलां ऋतवाचं मां नमो नमो ललिते ॥३५७॥
ऋतवादिनि ऋतशीले नरनाथे वामकेशि हे सुभ्रु ।
मेनाहिमगिरिबाले हरिवाहिनि ते नमो नमो ललिते ॥३५८॥
ऋतसिंधुगर्भजाते ऋतपालिन्यम्ब हे महामाये ।
श्रुतिगेयचारुपादे ऋतगेये ते नमो नमो ललिते ॥३५९॥
ऋतपूर्णदहनगर्भे सततं त्वं वससि विश्वमहिगर्भे ।
ऋतमणिशोभितकण्ठी सुतनो नित्यं नमो नमो ललिते ॥३६०॥
ऋतमयि सकलापेक्षाव्रततेस्संपूर्णफलरूपे ।
ऋतभक्तकल्पलतिके ऋतगर्भे ते नमो नमो ललिते ॥३६१॥
ऋतमपि नयसि हि चित्तं व्रतरतिरथवा न वर्तते यस्य ।
अतिकृपणत्वमवश्यं तनुषे त्वं पासि ते नमो ललिते ॥३६२॥
ऋतविमलमानसानां अज्ञानध्वान्तविहितदृष्टीनाम् ।
पाशविमुक्तिं मुक्तिं कुरुषे त्वं देवि ते नमो ललिते ॥३६३॥
ऋतवेदविमुखमार्गानतिकलुषीभूतमानसानधर्मान् ।
प्रतिपन्थिनस्समस्तान् अवधीस्त्वं ते नमो नमो ललिते ॥३६४॥
ऋतविदितमात्मतत्त्वं स्मृतिनिहितं धर्ममोक्षयोर्मार्गम् ।
भजतां स्वरूपिणी त्वं द्विजमुनिवन्द्ये नमोऽस्तु ते ललिते ॥३६५॥
ऋतमतबाधात्रयमपि नितरामभ्येत्य दग्धहृदयानाम् ।
आनन्दकारिणी त्वं प्रतिजहि पापानि ते नमो ललिते ॥३६६॥
ऋभुभवबाधाः काश्चिन्नरकतिजाताश्च तास्समासाद्य ।
तप्तानानन्दयसि त्वं तन्मां पाहि ते नमो ललिते ॥३६७॥
ऋतमजरममतमाह श्रुतिरिति वद्धत्वविरहिता तरुणी ।
मतिमलहारिणि मातस्त्वं मे मां पाहि ते नमो ललिते ॥३६८॥
ऋतवचनदानपूजानिरताराध्ये तपस्विगुरुजाये ।
नतिरतमनुजप्रीते मातर्मां पाहि ते नमो ललिते ॥३६९॥
ऋतमयसुषुम्निकाये मध्यं चाध्यास्य शोभिताकारे ।
तनुमध्येऽम्ब सुदायो नुतिरेषा ते नमो नमो ललिते ॥३७०॥
ऋतलोकपूज्यमाने निजतनुमहसा तमोगुणघ्ने त्वम् ।
लसदाभा व्यतिकरिणी ज्ञानान्दप्रदे नमो ललिते ॥३७१॥
ऋतशुद्धबोधरूपे स्वयमेवात्मप्रभासमुल्लसिते ।
नियमितनियतिकलापे धृतिमति वरदे नमो नमो ललिते ॥३७२॥
ऋतमिति तच्चेत्यनुभववेद्यब्रह्मस्वरूपिणी त्वमसि ।
अतिचतुरमतिसुगम्ये गम्ये यमिनां नमो नमो ललिते ॥३७३॥
ऋतसहजदीप्तिरूपे शुद्धज्ञानस्वरूपिणी त्वमसि ।
मतिमपि दिश मे ज्ञानं ज्ञानानन्दे नमो नमो ललिते ॥३७४॥
ऋतविमुखानां तेषां सुरनरगन्धर्वमुख्यभेदानां ।
आनन्दाधिकमेकं वहसि हि हर्षं नमो नमो ललिते ॥३७५॥
ऋतमहितापानन्दादाकाशेऽन्तर्गता विशुद्धसत्त्वमयी ।
सैव परापरकलिता शिवसोपानं त्वमेव ननु ललिते ॥३७६॥
ऋतमत्यगम्यरूपा प्रकृतेश्चिद्रूपशोभिता माता ।
इति भवसि देवि जगतां पाहि त्वं मां नमो नमो ललिते ॥३७७॥
ऋतमयि पश्यन्ती त्वं नाम्ना शब्दार्थभावनारूपा ।
योगविशारदवेद्या ध्येया तेषां नमो नमो ललिते ॥ ३७८॥
ऋतगुणमयदृग्दृश्या सुकृतफलितेऽथ साधकाराध्या ।
भवसि परदेवता त्वं भूयो भूयो नमोऽस्तु ते ललिते ॥३७९॥
ऋतमेव वैखरीति त्वां नादज्ञानिनो वदन्त्यम्ब ।
नादब्रह्म ब्रह्मज्ञानानन्दे नमो नमो ललिते ॥३८०॥
ऋतवेदगोचरा त्वं तन्मात्राद्गेयमध्यमारावा ।
साकारासि तथा त्वं मध्यमरूपे नमोऽस्तु ते ललिते ॥३८१॥
ऋत इव जगति च भक्तस्वान्तसरोवारिमध्यचरहंसि ।
ऋतपथचरहृद्गम्ये देवि त्वं पाहि ते नमो ललिते ॥३८२॥
ऋतशिवहरिविधिपञ्चप्राणाख्यनाडिका त्वमेवासि ।
तेन हि ते बलिनस्ते कार्ये सिद्धा नमो नमो ललिते ॥३८३॥
ऋतमर्मवेदिनी त्वं कतमिहे कार्यं नभिस्तु जानासि ।
नुतिमपि नमतां विहितां तामेकान्ते नमो नमो ललिते ॥३८४॥
ऋतमिह भजतां मार्गे प्रेयसि चरतां मनोज्ञकृतपूजाम् ।
पूर्णामादाय त्वं वितरसि फलमम्ब ते नमो ललिते ॥३८५॥
ऋतपथगामिनि सततं शृङ्गाराम्भोधिसारसम्पूर्णे ।
चंचत्कलास्वरूपे शृङ्गाराख्ये नमोऽस्तु ते ललिते ॥३८६॥
ऋतमिव विजयिनि सततं नतजनहृदयारविन्दमध्यस्थे ।
प्रथितप्रहरणहस्ते मातस्तुभ्यं नमो नमो ललिते ॥३८७॥
ऋतजालन्धरमुद्रावर्तिनि सङ्घातपीठमारूढे ।
मतिमन्मानसहंसी त्वं जय मातर्नमो नमो ललिते ॥३८८॥
ऋतमूलप्रणवङ्कितमोड्याणाख्यं विराजते पीठम् ।
तव तावदास्थिता तत्पीठं महितं नमोऽस्तु ते ललिते ॥३८९॥
ऋतमयि पराख्यशक्त्या मूलाधारस्थकुण्डलिन्या च ।
देवि त्वमेव तेजोबिन्दुश्रीपीठवर्तिनी जयसि ॥३९०॥
ऋतमेव गार्हपत्यं दक्षिणनामा क्रमात्त्रिचक्रेषु ।
आहवनीयो गूढो यागस्त्रियुतेन सेविता त्वमसि ॥३९१॥
ऋतमिह चान्तर्यागस्त्रिषु चक्रेषु त्रिधा स्थितेष्वेव ।
आदाय गार्हपत्ये पश्चात्तेनाम्ब भवति ते ध्यानम् ॥३९२॥
ऋतमूलगार्हपत्ये दक्षिणनाम्नीह पावकेष्वेव ।
आहवनीये निहितव्यापारा देवि तर्पणं ननु ते ॥३९३॥
ऋभुगणकामितफलदे ध्यानाभ्यासप्रियप्रसादकरि ।
बन्धत्रयविद एव न बन्धनभीतिस्तव प्रसादेन ॥३९४॥
ऋभ्वादिजीवगर्भं ब्रह्माण्डं तस्य साक्षिणी त्वमसि ।
त्वयि साक्षिण्यां सत्यं का क्षतिरस्यास्ति देवि ते ललिते ॥३९५॥
ऋभ्य्वादिसाक्षिणी त्वं देवि परं नास्ति कोपि तव साक्षी ।
व्यापारमम्ब गूढं पश्श्येन्नैवात्र कोपि भुवनेषु ॥३९६॥
ऋतधर्मकीर्तितेजोवैराग्यज्ञानषड्गुणैः पूर्णे ।
वेदाङ्गदेवताभिः सहिते तुभ्यं नमो नमो ललिते ॥३९७॥
ऋतषाड्गुण्यवती त्वं पुण्यवतीनां जगत्सु पुण्यवती ।
तव सम्पदोऽप्यगण्याः कस्त्वां स्तोतुं क्षमेत हे ललिते ॥३९८॥
ऋतमयि करुणाभरिते सततमपाङ्गाब्धिगलितसुधया त्वम् ।
जीवयसि जीवलोकं जीवातुं त्वामहं भजे ललिते ॥३९९॥
ऋतमपि भवती सा सा भवती नास्त्येव नो समा तेऽस्ति ।
अत एव नायिका त्वं जगतां जगतां च नायकस्यापि ॥४००॥
ऋतमेतदेव मे स्यात् वपुरनपायीति भावमपनीय ।
वितरतु विदेहमुक्तिं मुक्तापायं विधाय मे भवती ॥४०१॥
ऋतमिव नाशविरहितस्वरषोडशिकाकते तथा तेषाम् ।
संख्यानुरूपपुञ्जा तुष्टाभीष्टार्थदायिनी त्वमसि ॥४०२॥
ऋक्षपतिमण्डलस्थाः पञ्चदशत्वं च षोडशाहत्य ।
अविनाशिन्यो जाता जातानेताननारतं त्रातुम् ॥४०३॥
ऋतमिव च जगदशेषं त्रातुं हालाहलं श्रियं कण्ठे ।
दधतस्तपसार्धां हत्वा धत्सेऽम्ब ते नमो ललिते ॥४०४॥
ऋक्षमणिहारभूते श्रयदणिमाद्यङ्गसिद्धिसङ्कलिते ।
यक्षपतिमित्रदयिते मातस्तुभ्यं नमो नमो ललिते ॥४०५॥
ऋक्षेशदहनदिनकरतेजोराशिं विधातुमिव धत्से ।
द्युतिमयरूपमरूपा सत्यपि तुभ्यं नमो नमो ललिते ॥४०६॥
ऋतमिव चाहं हदि हदि सिद्धा तिष्ठामि भावना चेति ।
श्रीदेवी त्वं विदिता जीविभिरखिलैर्नमोऽस्तु ते ललिते ॥४०७॥
ऋक्षेशमुखि सखी त्वं लक्ष्मीवाणीपुलोमजादीनाम् ।
यक्षेशयोषिदीड्ये मातस्तुभ्यं नमो नमो ललिते ॥४०८॥
ऋतसत्यादिगुणानां सृष्टेः कार्यं यदा न किञ्चिदपि ।
शक्तिस्तदाविरासीः त्वं प्रकृतिर्नमोऽस्तु ते ललिते ॥४०९॥
ऋतवत्यगोचरा त्वं मूलप्रकृतिरिति भवसि यत्सा त्वम् ।
ऋतमव जगति समस्ते मातस्तुभ्यं नमो नमो ललिते ॥४१०॥
ऋतमखिलदर्शि नित्यं त्वमपि तथा तद्विवर्धयस्येव ।
कृतवसतिरसि हि मातः पायास्त्वं नस्सदा नमो ललिते ॥४११॥
एणाक्षि विविधरूपे रूपे रूपे स्थितावहित्था त्वम् ।
भूरुहवह्निरिवासि हि जाग्रत्यव मां नमोऽस्तु ते ललिते ॥४१२॥
एकं ज्ञानमतं तद्भिन्नं त्वज्ञानमेव चैवं त्वम् ।
द्वेधा परापरेति प्रकटितभावासि ते नमो ललिते ॥४१३॥
एणाङ्कमिहिरपावकनयनो यश्शङ्करस्सदा तस्य ।
नयनानन्दकरेन्दुज्योत्स्नारूपासि ते नमो ललिते ॥४१४॥
एकात्मतात्मभक्तस्वान्तलसद्ध्वान्तभास्कराकारे ।
तेजस्विनि ते करुणा पायादस्मान् नमोऽस्तु ते धीरे ॥४१५॥
एकाकिनी यदा त्वं हिमवत्यासीर्निशुम्भशुम्भकते ।
शिवमेव दूतमकरोस्त्वं शिवदूती नमोऽस्तु ते ललिते ॥४१६॥
एधित एव हि महिमा तावक ईशान इन्दुलोचनस्ते स्वामी ।
ब्रह्मात्मनात्मनि त्वं स्थित्वाराध्यासि तस्य जगतां च ॥४१७॥
एकं ब्रह्म तथैकः परमात्मायं हितेन सा त्वमसि ।
शिवमूर्तिरेव रमणी सौभाग्यं देहि मे नमो ललिते ॥४१८॥
एधेत ते कपा चेदङ्कोऽप्यायुक्तसम्पदेवेह ।
कीर्त्यारोग्यबलश्रीजीवितकालैश्च ते नमो ललिते ॥४१९॥
एकैश्वर्यवती त्वं लोकेशश्रीशशङ्कराभ्यधिका ।
शाङ्कर्यसि भवभीरोर्भयनाशिन्यम्ब ते नमो ललिते ॥४२०॥
एकीभूतशरीरा वपुषा नाथस्य शङ्करस्यासि ।
प्रीणयसि तं त्वमेवं प्रीणयति त्वां स ते नमो ललिते ॥४२१॥
एकमतेत्र रसानामाचारज्ञानसम्पदां महताम् ।
नित्यं प्रियासि सा त्वं पालय मामम्ब ते नमो ललिते ॥४२२॥
एकासनयमनियमज्ञानालम्बैश्च पूजिते विधिना ।
सात्त्विककर्मठहदये नियतावासे नमोऽस्तु ते ललिते ॥४२३॥
एकान्तवासशीले स्वान्ते स्वान्ते स्थिताप्रमेया त्वम् ।
लोकानतिशेषेऽम्ब त्वामहमीडे नमोऽस्तु ते ललिते ॥४२४॥
एकत्वदीप्तिकोशान् एकेभ्यो दीप्तिदायिनी त्वमसि ।
लोकान्तरङ्गनिलये मातस्तुभ्यं नमो नमो ललिते ॥४२५॥
एधस्सु दहन इव ते काये चैतन्यदीप्तदीप्तिरसि ।
नित्यं समेधमाना दीपयतीदं जगत्त्रयं ललिते ॥४२६॥
एणाङ्कचारुवदने सदने माङ्गल्यदेवतानां च ।
भूयान्नतिरिह तुभ्यं वाचां मनसामगोचरे ललिते ॥४२७॥
एकं ब्रह्म च नित्यं जगदिति सा त्वं च चेतनारूपा ।
लोकं रमयसि लोको रमयतु चरितेन सन्ततं भवतीम् ॥४२८॥
एकं तमो गुहाढ्यं चैतन्यविरहितं सततम् ।
शक्तिस्वरूपिणी त्वं तमसो महतोऽपि ते नमो ललिते ॥४२९॥
एकाकृतिरसि न त्वं जडचेतनयोस्तदुभयरूपस्य ।
रूपत्रयं दधासि हि जडरूपायै नमोऽस्तु ते ललिते ॥४३०॥
एकैकवर्णयोगाद्विंशतिसहितानि सन्ति चत्वारि ।
बीजाक्षराणि मन्त्रे गायत्रीति प्रतीतरूपासि ॥४३१॥
एकैकवर्णयोगाद् व्याहतयस्सप्त लोकसामैव ।
शक्त्यवतारास्तव ताः पञ्चाशद्रूपिणी त्वमेवासि ॥ ४३२॥
एका हि राजशक्तिः फणिनीशक्तिः त्रिकालजा शुद्धा ।
शक्तिरिति सान्ध्यशक्तिः तासु त्वं भाससे नमो ललिते ॥४३३॥
एति यमिहोपनयनं द्विजपदमभ्येत्यथात्मसंस्कृत्या ।
तैरेव पूजनीया विप्रैस्संस्कारवद्भिरस्यम्ब ॥ ४३४ ॥
एकीभूतैरखिलैस्तत्त्वैस्तत्त्वं महद्भवेदेकम् ।
पीठमथ तव स्याद्बोधकमिष्टस्य तेजसो देवि ॥४३५॥
एकं तदेव सत्त्वं ब्रह्म च गायत्र्यपीति ललितेति ।
श्रीकण्ठकण्ठहाराधारितकण्ठी त्वमम्ब मां पाहि ॥ ४३६॥
एकासनासि पत्या श्रीकण्ठेनापि निजविहारेषु ।
लोकावनेषु समरे नानापीठायुधाकृतिर्भवसि ॥४३७॥
एकब्रह्मव्याहृतिविषयीभूता त्वमेव भवसीति ।
लोकत्रयं नमेत् त्वामार्यामार्याभिमानिनीं देवीम् ॥४३८॥
एकैकस्यां तन्वां कोशाः पञ्चापि देवि राजन्ते ।
ब्रह्मावासगृहाणि हि भवदावासाश्च ते नमो ललिते ॥४३९॥
एकेनैव न शक्यं वर्णयितुं त्वामहीश्वरेणापि ।
लोकातीतमहिम्ना जयसि हि सततं त्वमिष्टकादम्बा ॥४४०॥
एकावस्था सुलभा भवति नरस्यापि यौवनावस्था ।
नित्या हि तव तु सा त्वं जयसि तया देवि निश्चितावस्था ॥४४१॥
एकैश्वैर्यवतस्त्वं लोकाधीशस्य मानिनी भूत्वा ।
मदमानशालिनी स्याः कामं तुभ्यं नमो नमो ललिते ॥४४२॥
एणीविलोलनयने मदघूर्णितपाटलाक्षि दैत्यवधम् ।
कृत्वाऽसवमपि पीत्वा प्रोन्मत्ते ते नमो नमो ललिते ॥४४३॥
एधितमधुपानमदा पाटलगण्डस्थली त्वमेवाम्ब ।
साधयसि सकलकार्यं साधय मम कार्यमीप्सितं ललिते ॥४४४॥
एति हि चन्दनगन्धद्रवमुख्यानेकचर्चितां देवी ।
भौतिकमूर्तिस्तव तद्भवति हि भूताङ्गसुरभिचार्चिक्यम् ॥४४५॥
एति प्रियता हृदयं तव नवचाम्पेयकुसुमवहनाच्च ।
वाणीप्रियं हि सा गीर्भवति त्वद्धामवासिनी ललिते ॥४४६॥
एतावान्महिमा ते नियतो नैवेति भासि कुशलानि ।
सष्टिस्थितिलयकतिषु त्वं यत्कार्येषु दक्षिणा भवसि ॥४४७॥
एनांसि हन्तुमर्हा सा त्वं श्रीदेवि कोमलाकारा ।
नानाविधजनहदये मद्वङ्गी त्वं विराजसे नितराम् ॥४४८॥
एकातिमहदहङ्कतिसुदृढप्राकारचेष्टिते जगतीम् ।
एकात्मनात्मजठरे वहसि त्वं देवि ते नमो ललिते ॥४४९॥
एको हि ते प्रपञ्चस्तस्य त्वं नायिकासि मातापि ।
मातुरिव मास्त्वनास्था गर्भस्थेस्मिन्नितीरयेत्को वा ॥४५०॥
एकात्मनात्मभूमिं धत्से त्वं देवि भोगिनी भूत्वा ।
देहानपि शतरूपान् भुवनाधारे नमोऽस्तु ते ललिते ॥४५१॥
ऐहिकसुखमिच्छन्तः सेवन्ते त्वां तथैव कैवल्यम् ।
इच्छन्तोऽपि च मार्गो भिन्नस्तेषां फलं तथा दिशसि ॥४५२॥
ऐहिकबाधाहर्तुर्गणनाथस्यापि कार्तिकेयस्य ।
मातासि देवतास्त्वां सेवन्ते चेति ते नमो ललिते ॥४५३॥
ऐश्वरभाग्यमवाप्य श्रेयो दातुं जगत्त्रयस्यापि ।
सिद्धासि साधकानां मर्त्या रोचन्त एव ते तेषु ॥४५४॥
ऐहिकमर्थं महतां साधयितुं पारमार्थिकं च तथा ।
यतमानानां सततं फलमिह धत्से समानमेवाम्ब ॥४५५॥
ऐन्द्रियपुष्टिमती त्वं जन्तूनां पुष्टिदायिनी भवसि ।
ईश्वरहरिविधिकार्याण्यादाय त्वं तु जागरूकासि ॥ ४५६॥
ऐन्द्रियमदसंहारिणि मतिरूपे सन्मतिप्रदात्री त्वम् ।
अधिगतशुद्धविवेका त्वमसि हि दद्या विवेकमेकं मे ॥४५७॥
ऐश्वर्यमिव ददासि त्वं शान्तिं शान्तिकान्तरूपासि ।
शान्तिं स्वान्ते मह्यं दद्य्यास्त्वं मे नमो नमो ललिते ॥४५८॥
ऐश्वर्यमतुलमास्तां तव कृपया त्वं जनेषु सकलेषु ।
स्वस्तिमति देहि मह्यं स्वस्ति स्वस्तिप्रदा त्वमेवासि ॥४५९॥
ऐश्वरतेजोधारिणि तेजोरूपे जगत्त्रयाधारे ।
दारय भवभयमखिलं तारय जलधिं नमोऽस्तु ते ललिते ॥४६०॥
ऐहिककष्टनिवारिणि पारत्रिकसौख्यदात्रि सावित्री ।
दैहिकहार्दिकसौख्यं जनय च सख्यं जने जने जननि ॥ ४६१॥
ऐश्वरमौलिविभूषा नन्दागारोद्भवा च सा दुर्गा ।
आनन्दरूपिणी त्वं कल्याणी कामधेनुरपि भवसि ॥ ४६२॥
ऐहिकपारत्रिकयोः सुखयोर्विघ्नान्निवारयस्येव ।
देहात्मात्मत्वधियां देवि त्वं देहि देहि सुविवेकम् ॥ ४६३॥
ऐश्वर्यवत्यसि त्वं रविशशिपवमानमित्रनेत्रासि ।
नाडीत्रयत्रिमार्गा देवि त्वं पाहि ते नमो ललिते ॥४६४॥
ऐन्द्रियनिवहे नयनं प्रथमं नारी स्मराभदेहानाम् ।
तद्द्वयजयिनी सा त्वं लोलाक्षी कामरूपिणी जयसि ॥४६५॥
ऐशमहिम्ना तुष्टे शिष्टाभीष्टार्थदानसन्तुष्टे ।
अक्षरमालाशक्ते मालिनिमातर्नमोस्तु ते ललिते ॥४६६॥
ऐतिह्याधिकसत्त्वं पञ्चाशद्वर्णमालिकारत्नम् ।
वर्णहंसी सोऽहं सा त्वं द्वयीह नमोऽस्तु ते ललिते ॥४६७॥
ओंकारमूलपीठे व्याहृतिसमसप्तमातृकारूपे ।
स्वरवर्णमातृका त्वं मातस्तुभ्यं नमो नमो ललिते ॥४६८॥
ओघसमाकुलसंसतिसागरगर्भे निमज्जतां देहान् ।
धारयसि जीवयसि सा त्वं मलयाद्रिस्थासि ते नमो ललिते ॥४६९॥
ओघावर्ते सा त्वं भ्रामयसि स्वार्थमप्यनालोच्य ।
कुण्डलिनी त्वं तु तथा बद्धासीहाम्ब ते नमो ललिते ॥४७०॥
ओषधिनिधिमत्तनये सुमुखी गाम्भीर्यशालिनी त्वमसि ।
धीशालिनी चकम्पे समरे सुरवैरिबलमवेक्ष्य त्वाम् ॥४७१॥
ओजस्विनी च फणिनी मूलाधारस्थिता सहस्रारे ।
कुरुते कपाटबन्धं त्वमपि तथैवाम्ब भवसि गणनीया ॥४७२॥
ओढुमशेषं भुवनं सुभ्रु त्वं भवसि जगति कुण्डलिनी ।
मूढानोढ्री सा त्वं प्राज्ञानेतान् कुरुष्व हे जननि ॥४७३॥
औदार्यधैर्यसुभगे मातुर्विश्वम्भरे स्थिरे रुचिरे ।
त्वं शोभनासि नित्यं मातस्तुभ्यं नमो नमो ललिते ॥४७४॥
औपयिककार्यकरिणी करिणीगम्भीरगामिनी त्वमसि ।
सुरनायिकासि सा त्वं दीनानस्मान् सदा मुदा पाहि ॥४७५॥
औदार्यपूर्णचित्ते चित्ते चित्ते सदा नॄणां वससि ।
कलकण्ठमधुरकण्ठी कण्ठीरववाहना त्वमेवासि ॥४७६॥
औदार्यमात्मनीव त्वयि कान्तिः काममस्ति दुर्वारा ।
वारयसि तेन च तया बाह्यान्तर्ध्वान्तसन्ततिं हि नॄणाम् ॥४७७॥
औदार्यं कियदिति ते को वा शंसेत् प्रविश्य तव हृदयम् ।
यत्त्वं सृष्टिविधाने प्रेरयसीशं तमेव निजरमणम् ॥४७८॥
औदार्यवत्यपि त्वं दश्या नैवास्यणोरणुत्वेन ।
मूलाधारगफणिनी यशसि त्वं देवि ते नमो ललिते ॥४७९॥
औषधसञ्जीवनमिव वज्रमणिं दीप्तिशक्तिसंयुक्तम् ।
भासयसि सकलवस्तु द्योतयसि त्वं तदेव ननु ललिते ॥४८०॥
औषधिपनाडिकायां त्वं देहे भवसि वामभागस्था ।
दिनकरनाड्यां दयितस्तव भवतीतीश्वरी त्वमेवासि ॥४८१॥
औषधमिव तव करुणा सुरभिरिवाकाशचारिणी भवति ।
तमसि वयोविहितां तां त्रिविधावस्थां विना स्थिता भवसि ॥४८२॥
औदार्यहार्दकरुणापालितभुवने समस्तगुणसहिते ।
सिद्धेश्वरि परिशुद्धे चित्ते काये वचस्सु मां पाहि ॥४८३॥
औपाधिकोपधीनां नाथा नाथाश्रिता हि कुण्डलिनी ।
जीवन्मुक्तावस्थां दातुं यमिनां सदा स्थिता भवसि ॥४८४॥
औदार्यशीलदेया अणिमाद्या सिद्धयो महादेवि ।
विद्यासिद्धिसुरूपे त्वामुपजीवन्ति सन्ततं ललिते ॥४८५॥
औदार्यशालिनी त्वं सा कुण्डलिनी द्वयीति युवयोस्तु ।
देवीह मुक्तिमार्गे जीवन्मुक्ताद्ध्वदीपिके स्याताम् ॥४८६॥
औषधिपतिधरदयिते मातर्ललिते यशस्सुधाविचले ।
ओजो धेहि मयि त्वं मतिमति शुद्धां च ते नमो ललिते ॥४८७॥
औदार्यदात्रि नमतां नृणां चक्रे विशुद्धनाम्नि त्वं ।
निवससि कतनिजनिलया चक्राराध्ये निधेहि मयि सत्त्वम् ॥४८८॥
औरसपुत्रा ननु ते सर्वे सर्वेश्वरी त्वमेवासि ।
आरक्तवर्णयुक्ता काले काले स्थिते नमो ललिते ॥४८९॥
औडुपदिनकरतारारूपाक्षित्रयसमन्विता गगने ।
तेजोमयि मयि करुणां कुर्वीथास्त्वं नमोऽस्तु ते ललिते ॥४९०॥
औपाधिकभयनाशिनिखड्वाङ्गाद्यायुधोज्वलाकारे ।
निहतसुरवैरिवर्गे त्राहि त्राहि त्वमेव मां ललिते ॥४९१॥
औडुकपथ इह गगने जगतीदं स्यात्कृतं धरावरणं ।
तस्मात्तदेकमास्ते वदनाम्भोजं नमोऽस्तु ते ललिते ॥४९२॥
औषधमिव मधुरसवन्मधुरं परमान्नमम्ब ते प्रीत्यै ।
भवति हि विहितं सततं प्रीता तेनार्जितेन मनसा स्याः ॥ ४९३॥
अंहस्तमसां हन्त्री त्वं तावद्देवि देहिनां भवसि ।
भवसिंधुतारयित्री गात्रे गात्रे त्वमिन्द्रियाधीशा ॥४९४॥
अंहोमयपशुपालननिरता तद्भीतिहारिणी त्वमसि ।
रंहस्तवाम्ब गत्याः समरे समरे सहेत को वाम्ब ॥४९५॥
अम्बुजमेकं दशशतपत्रं वर्णाः स्वरा इह स्वैराः ।
सन्ति हि सन्ततमस्मिन् कृतवसतिस्त्वं विराजसे ललिते ॥४९६॥
अम्बुजमनाहताख्यं पीठं तव चक्रनामकं विहितम् ।
स्वरमध्रुवं दधाना तत्त्वं त्वं वैष्णवी च जय ललिते ॥४९७॥
अम्बरमिव घनसहितं श्यामा त्वं चासि वैष्णवीनाम्नी ।
अम्बुजनाभसखी त्वं भवसि हि सततं नमोऽस्तु ते ललिते ॥४९८॥
अम्भोगतिरपि कुटिला गमनं ते तेन डाकिनी त्वमसि ।
सिंहासनमधिरूढा जीवनदात्रीह देहिनां ललिते ॥४९९ ॥
अम्बुजमधिवससि त्वं तन्नाम्नानाहतं नभस्तत्त्वम् ।
वदनद्वयसम्पन्ना तेन त्वं राजसे नमो ललिते ॥५००॥
अंशुच्छुरितद्विरदभ्राजितवदनाभ्रवृन्दनीलाङ्गी ।
शिंशुपसुमललितोष्ठे नित्यं दंष्ट्रोज्वले ललिते ॥५०१॥
अंहःस्तोमक्षयकरजपमणिमालाभिरामशुभकण्ठी ।
सोऽहं नाहङ्कारी त्वच्चरणाम्भोजभम्भरो ललिते ॥५०२॥
अङ्गेषु रुधिरपूरे स्वामिनिरुधिरासवेन सोन्मत्ते ।
अंशव इव ते दिनकच्छशिताराकारिणो हि ते ललिते ॥५०३॥
अङ्कुशमुख्यप्रहरणभीकररूपाभिरावतासि त्वम् ।
शक्तिभिरुल्लसितासि द्वादशभिस्ते नमो नमो ललिते ॥५०४॥
अंशुमति मातरगजे किंशुकरक्ताम्बरे शुभाकारे ।
त्वं शुभमिह कुरु मयि हे शङ्करि तुभ्यं नमो नमो ललिते ॥५०५॥
अंहांसि मे क्षमस्व त्वं तावल्लोकलोचना भवसि ।
स्निग्धान्नमोदमाना मातर्मां पाहि ते नमो ललिते ॥५०६॥
अंशावतारभाजां वीराणां शौर्यसाह सन्तुभ्यम् ।
रोचेत रोचमाने धाम्ना नित्यं नमोऽस्तु ते ललिते ॥५०७॥
अंशुमदनाहताब्जे काकिनीख्यासि सा त्वमेवैका ।
पालनमोक्षसुखस्य त्वं दात्री ते नमो नमो ललिते ॥५०८॥
अङ्गेऽस्ति नाभिदेशे मणिपूरकचक्रमम्बुजाकारम् ।
भवति तदेव हि निलयं तव तत्तुभ्यं नमो नमो ललिते ॥५०९॥
अम्बुजमिव मणिपूरं व्योमानलवायुतत्त्ववल्ललितम् ।
तद्गुणवत्त्रिविधास्यं भवति च तत्र स्थितासि हे ललिते ॥५१०॥
अङ्कुशवज्राद्यायुधधारिणि संसारजलनिधेस्तरणे ।
रणमेदिनीषु धीरे धीराकारे नमोऽस्तु ते ललिते ॥५११॥
अम्बुज इव मणिपूरे दशदलदशवर्णशोभिते ललिते ।
दशभिर्डामर्यादिभिरुल्लसिते ते नमो नमो ललिते ॥५१२॥
अंशुकभूषणभीषणनानायुधयोगचित्रिताकारे ।
आपाटलाङ्गवल्लि त्रिभुवनजननि त्वमेव मे शरणम् ॥५१३॥
अङ्गामिषाभिमाने मङ्गळमूर्ते जितारिकुलकीर्ते ।
माङ्गल्यदानशीले भगवति मातर्नमोऽस्तु ते ललिते ॥५१४॥
कल्याणि कल्पवल्लि प्रणतानां कर्मसाक्षिणी त्वमसि ।
गुडमधुरान्नप्रीते नमदिष्टार्थप्रदे नमो ललिते ॥५१५॥
कमले मणिपूरे च स्थितिमति चाशेषभक्तसुखदात्री ।
जाठर इव दहनोऽङ्गे त्वमसि हि नित्यं नमोऽस्तु ते ललिते ॥५१६॥
कनकाचलतटवासे सकलसुखानां च दात्रि मृदुगात्रि ।
लाकिन्यम्बारूपे सर्वाविद्याविनाशिनि त्राहि ॥५१७॥
कटितटवर्तिनि देहे स्वाधिष्ठानेऽम्बुभूमितत्त्वमये ।
निवससि सकलसुखाय श्रीललिते ते नमोऽस्तु तत्त्वमयि ॥५१८॥
कल्याणि चक्रमध्ये स्वाधिष्ठाने नभोऽम्बुवायुदहनाश्च ।
तत्त्वात्मना स्युरस्मिन् सा त्वं वससीति ते नमो ललिते ॥५१९॥
करवालशूलचक्राद्यायुधविभ्राजमानकरजाले ।
शरभिन्नदैत्यनिवहे मातस्तुभ्यं नमो नमो ललिते ॥५२०॥
कमलदलकेसराभे हेमाभे सूक्ष्ममध्यमे रामे ।
विमलतरहसितवदने मातस्तुभ्यं नमो नमो ललिते ॥५२१॥
कलुषविरहितं चक्रं स्वाधिष्ठानं समस्तनाडीनाम् ।
स्थानं फणिनीशक्त्या दर्पाय स्यान्नमो नमो ललिते ॥५२२॥
कायगरमेदसि त्वं देवी तत्र स्थितासि सा नित्यम् ।
भाययसि धूर्तनिवहं सुजनानुद्धरसि ते नमो ललिते ॥५२३॥
कादम्बरीप्रिया त्वं मधुपानासक्तमानसा भवसि ।
कादम्बमन्दगमने मातस्तुभ्यं नमो नमो ललिते ॥५२४॥
कामचरवरविमाने दध्यन्नासक्तमानसे सततम् ।
सीमातिशायिकरुणे मातस्तुभ्यं नमो नमो ललिते ॥५२५॥
काकिन्यम्बारूपे शोकव्यामोहसाध्वसै रहिते ।
लोकविनोदनशीले मातस्तुभ्यं नमो ललिते ॥५२६॥
कान्तारविन्दमूलाधारारूढेऽ हिचक्रमारूढे ।
शान्तातिकोमलाङ्गी मातस्तुभ्यं नमो नमो ललिते ॥५२७॥
कान्ते स्वाधिष्ठाने षड्दलवत्पद्ममण्डिते महति ।
बन्धिन्यादिसमष्ट्या शक्त्या युक्ते नमोऽस्तु ते ललिते ॥५२८॥
कान्तसुषड्दलपद्मं बभमयरलवर्णसंयुतं ललितम् ।
कान्तक्षितितत्त्वार्थं तत्ते स्थानं भवेद्धि ते ललिते ॥५२९॥
कान्ते मूलाधारे गगनमरुद्वह्निजलधरैः तत्त्वैः ।
पञ्चाननासि शक्तिः कुण्डलिनी त्वं नमोऽस्तु ते ललिते ॥५३०॥
कीकससङ्घस्वामिन्यसि भूतत्वेन सुसङ्गता त्वं हि ।
लोकाभ्युदयविधात्री मातस्तुभ्यं नमो नमो ललिते ॥५३१॥
कोमलगात्र्यपि हस्तैरङ्कुशपाशाधिधारिणी भवसि ।
कामचरासुरदमनी त्वमसि हि मातर्नमोऽस्तु ते ललिते ॥५३२॥
कामचरि कमलनयने चतसृभिरभिमानदेवताभिश्च ।
वरदादिभिराकलिते मातस्तुभ्यं नमो नमो ललिते ॥५३३॥
कामितमुद्गदलान्ने कामितफलदे समस्तभक्तानाम् ।
सोमसुधामदुहासे मातस्तुभ्यं नमो नमो ललिते ॥५३४॥
काली कुण्डलिनी या शाकिन्याभ्यां समन्वितैव तया ।
नियतेव भासि सा त्वं भासि तया देवि ते नमो ललिते ॥५३५॥
कोमलमाज्ञाचक्रं भ्रूमध्ये बैन्दवाग्निसान्निध्ये ।
अस्ति ननु मातकाया ऋषभाख्यं धाम तेऽपि सल्ललिते ॥५३६॥
कान्तिष्विव रविकान्तिर्वर्णे शुक्लः प्रधान इति सा त्वम् ।
शुक्लासि देहकान्त्या ज्योत्स्नीवेन्दोर्नमोऽस्तु ते ललिते ॥५३७॥
कीर्तित आज्ञाविद्भिः ललिताज्ञाचक्र एव सा त्वमसि ।
तावच्छडानना त्वं तस्यै तुभ्यं नमो नमो ललिते ॥५३८॥
कोमलमज्जासंस्थे धात्रभिमानिन्यपीह सा त्वमसि ।
करुणारुणितापाङ्गे जय जय मातर्नमोऽस्तु ते ललिते ॥५३९॥
कान्तिमति हंसवत्या शक्त्यासि त्वं क्षमावतीनाम्ना ।
दक्षद्व्यक्षरयुक्ते मातस्तुभ्यं नमो नमो ललिते ॥५४०॥
कामितशाल्यन्नादे कामितफलदानशीलतामान्ये ।
सामजवदनसरोजालोकनमुदिते नमोऽस्तु ते ललिते ॥५४१॥
कोमलहाकिन्याख्या काचन शक्तिर्विराजते चक्रे ।
चक्रेशपूजिताङ्घ्रे विज्ञानस्थे नमोऽस्तु ते ललिते ॥५४२॥
कोमलसहस्रपत्रे कमले कमलोद्भवार्चिते ललिते ।
निवससि सा त्वमजस्रं मातस्तुभ्यं नमो नमो देवि ॥५४३॥
कान्तासि सर्ववर्णैस्तच्छक्त्यालंकतासि मातङ्गि ।
कान्तार्पितार्धदेहे देहे देहेसि शक्तिरेवाम्ब ॥५४४।
कामायुधानि धृत्वा कामितरूपाखिलानि निशितानि ।
रामासेनासहिता जयसि हि मातर्नमोऽस्तु ते ललिते ॥५४५॥
कार्येषु वीर्यरूपा ब्रह्मपदेवासि बीजरूपा वा ।
मायाधारवती त्वं जयसि हि मातर्नमोस्तु ते ललिते ॥५४६॥
कमलारमण इव त्वं भवसि हि विष्वग्विलासिमुखपद्मा ।
सुमुखि प्रसीद मातर्दीनेधीने त्वयीह मयि देवी ॥५४७॥
कामयसे त्वमशेषाण्यन्नानि श्रेष्ठभक्तदत्तानि ।
आस्वादय तदब्रह्म हि सर्वं चान्नं त्वमेव ननु ललिते ॥५४८॥
कल्याणगुणवती त्वं याकिन्यम्बास्वरूपिणी भवसि ।
पर्यायेण च षट्सु त्वं चक्राब्जेषु सञ्चरस्येव ॥५४९॥
कल्याणतारकेषु ज्वलतो वैश्वानरस्य दयितासु ।
स्वाहानाम्नी ब्रह्मज्योतिश्चासि त्वमेव ननु ललिते ॥५५०॥
कामितफलादा लोके पितदेवानां स्वधाभिधाना त्वम् ।
धूमशिखस्य च वह्नेर्जायारूपासि ते नमो ललिते ॥५५१॥
कामान्तकाङ्गतरङ्गे रममाणा त्वं जडानभिज्ञा च ।
भवसि कदाचिदिव त्वं भवसि च मुक्तिस्थिता नमो ललिते ॥५५२॥
कारुण्यामतवष्टिं कुरुतेपाङ्गद्वयं निजेषु सदा ।
मेधा नृणां मनस्सु त्वं ननु लोके नमोऽस्तु ते ललिते ॥५५३॥
कर्णाकर्णिकया ते श्रुतिरिव वदनांशुनिस्सृता वाणी ।
आज्ञाकरी वराज्ञा भवति हि सा त्वं नमोऽस्तु ते ललिते ॥५५४॥
कीर्तितवेदादेशं स्मरति चयार्थं च संहितारूपा ।
धर्मस्य सा स्मृतिस्त्वं शब्दार्थज्ञानबोधिनी ललिते ॥५५५॥
का वास्त्यजाण्डगर्भे त्वत्सदशी को नु किं तुलां याति ।
तव देवि सकलहत्सु त्वमसि हि तद्भद्रमासुव त्वं मे ॥५५६॥
कासादिसर्वरोगान् काये श्लेष्मादिदोषसम्भाव्यान् ।
नाशयसि वैद्यराज्ञी त्वमसि हि मातर्नमोऽस्तु ते ललिते ॥५५७॥
कीर्तिरसि पुण्यरूपा लभ्या पुण्येन कीर्तनश्रवणैः ।
पुण्यैर्नंदसि च त्वं मातस्तुभ्यं नमो नमो ललिते ॥५५८॥
कामारिहार्दमूर्ते सुरवनिताभिः पुलोमसुतयापि ।
देव्यार्चितासि बन्धान्मोचयसि त्वं नमोऽस्तु ते ललिते ॥५५९॥
कादम्बिनीव भङ्गी नीलेव च नीलकान्तिकान्तस्ते ।
चिकुरो विभाति धाम्ना मातर्नीराजितासि ते ललिते ॥५६०॥
कार्याकार्यविचारे नित्या नित्यादिवस्तुतत्त्वे वा ।
विदधाति या विचारं सा विद्या त्वं नमोऽस्तु ते ललिते ॥५६१॥
खमपि च नादं बिन्दुं व्याप्य च या भाति तां कलां ललितां ।
आक्रम्य विश्वसृष्टिं कुर्वाणा त्वं विराजसे ललिते ॥५६२॥
खानिलदहनाम्बुधराः पञ्च हि भूतानि दैवकर्माणि ।
जनिमतिहेतव एते सर्वापत्तीर्निवारयेर्मृत्योः ॥५६३॥
गणनीयाग्रे महताममराणां त्वं शिवेखिलानां च ।
भवसि हि नित्यमचिंत्या कलिकल्मषनाशिनि त्वमेवासि ॥५६४॥
गण्याखिलामराणां तेजस्तोमस्तव स्वरूपं हि ।
पुण्यानि तव कृपायाः फलरूपाण्यम्ब ते नमो ललिते ॥५६५॥
गायन्ति गानरसिकास्सेवन्तेन्ये हितार्थिनो भवतीम् ।
नाशयसि कालभीतिं भीतानां ते नमो नमो ललिते ॥५६६॥
गारुडमणिनीलाङ्गीं गुरुरपि विष्णुर्निषेवते भगवान् ।
निजकार्यसाधिकेति त्वां तेनासीत् स विष्णुरेवाम्ब ॥५६७॥
गिरिराजपुत्रि ललिते ताम्बूलादानसेवनोल्लसिते ।
यद्द्वादशगुणयुक्तं ताम्बूलं ते प्रियं हि ते ललिते ॥५६८॥
गिरिवनचरमगनयने नयनानन्दप्रदे सतां सुराणां च ।
हरिहरकार्यकरी त्वं रक्षां कुरु मे नमोऽस्तु ते ललिते ॥५६९॥
गिरिशमनोहरि दाडिमकुसुमरुचे देवि देवताजननि ।
चारुतरवसनशोभाभरिते ललिते नमोऽस्तु ते ललिते ॥५७०॥
गिरिमहिबद्धं कत्वा क्षीरपयोधिं च मथितमथ कृत्वा ।
अमतमवापुरर्मर्त्याः त्वमभूस्तेभ्यो हि मोहिनी ललिते ॥५७१॥
गीताखिलगुणभूषे सकलैर्विश्वातिशायिनी त्वमसि ।
गीतागुरुसहजाते मातर्मां पाहि सर्वथा सततम् ॥५७२॥
गुरुतरसुखमानन्दं दद्यास्त्वं देवि योगिनां समताम् ।
गुरुतरमपहर मामकपापं पापघ्नि ते नमो ललिते ॥५७३
गुरुरम्ब तेऽस्ति जगतः तव भर्ता शङ्करो हि सौख्यमिह ।
स ददाति च सा त्वं च श्रेयस्करि ते नमो नमो ललिते ॥५७४॥
गूडार्थबोधिनी त्वं सहदयरूपासि रविरपीहासि ।
सा त्वमसि नित्यतप्ता मातस्सर्वत्र पाहि मां पूर्णम् ॥५७५॥
गूढो भक्तनिधिर्वा मयि नैवास्ति प्रकाश्यमानो वा ।
नाहं भक्त इह स्यां भक्तनिधिं ते कुरुष्व मामम्ब ॥५७६॥
गूहितभुवननियन्त्री स्वस्मिन्नस्मिन्निगूढमज्ञानम् ।
मोहयति यत्तु चित्तं तदपि त्वं प्राग्विनाशयेरम्ब ॥५७७॥
गृहमिव निजमतिरम्यं स्वामी त्वं विश्वमन्दिरं च निजम् ।
रक्षसि हि तेन सा त्वं ब्रह्माण्डस्यासि नायिका ललिते ॥५७८॥
गेहिषु मैत्रीकरुणासन्तोषाद्यास्तु सद्गुणा यत्र ।
तेषु प्रसीदसि त्वं करणविशुद्धः प्रियाय ते ललिते ॥५७९॥
गेयचरित्रे पात्रे करुणावष्टिप्रदे सुधामोदे ।
अन्ते त्रिमूर्तिकार्ये शान्ते त्वं विश्वसाक्षिणी भवसि ॥५८०॥
गैरिकरागवदधरे वचसा मधुरे गलत्कपासारे ।
शक्तिषु चाद्या त्वमसि ब्राह्मीशक्तिश्च ते नमो ललिते ॥५८१॥
गोत्रोदितप्रभावे ब्रह्मासक्ते निरञ्जने सततम् ।
पात्रीकुरु करुणाया मामपि तव देवि मे नतिर्ललिते ॥५८२॥
गौरवकारकमदिरामापीयापीय चालसेवासि ।
ब्रह्मानन्दपयोधौ मग्नोन्मग्ने नमोऽस्तु ते ललिते ॥५८३॥
गन्धादिगुणविदूरे शुद्धज्ञानात्मिके च ते ललिते ।
श्रुत्याधारवचोभिर्गम्ये रम्ये नमोऽस्तु ते ललिते ॥५८४॥
गङ्गाग्रजे द्विजेड्ये ब्राह्मी माहेश्वरीति कौमारी ।
वैष्णव्यथ वाराहींद्राणी चामुंडिका त्वमेवासि ॥५८५॥
गम्भीरे श्रीललिते वर्णावलिवर्णमातकारूपे ।
वर्णेषु धवलवर्णे ब्रह्मानन्दप्रदे नमो ललिते ॥५८६॥
गङ्गेव मूर्ध्नि शम्भोस्तव गृहमुद्योतते महाकूटे ।
ब्रह्मणि लीनं च कलातीतं देहे सहस्रपत्रगतम् ॥५८७॥
घनकरजघनस्तनयोर्भारादानम्रकायकल्पलते ।
बिसमदुलदोस्सुशाखारुचिरे तुभ्यं नमो नमो ललिते ॥५८८॥
घनपथचरसुरवन्दैः सेवितचरणाम्बुजेम्ब महनीये ।
नाथादधिकोदारे पात्री धात्री भव त्वमेव मयि ॥५८९॥
घातुकदानवनिवहं सकलं संहत्य सज्जनेषु दयाम् ।
दधती दयार्द्रमूर्तिस्त्वमसि हि मातर्नमो नमो ललिते ॥५९०॥
घीङ्कृतिमद्गजराजं समरे समरेऽधिरुह्य वैरिबलम् ।
नाशयसि नाशरहिते नाशय मत्पापमम्ब हे ललिते ॥५९१॥
घुष्टं समस्तमुनिभिर्ब्रह्मैकं सत्यशुद्धमेवेति ।
त्वमसि हि तथात्मविद्याहृद्यानाद्या नमोऽस्तु ते ललिते ॥५९२॥
घोषयसि तां हि विद्यां ब्रह्मानन्दप्रदायिनी त्वमसि ।
महती विद्या सा त्वं सारस्वतसाररूपिणी भवती ॥५९३॥
घण्टानिनादमुख्यैर्दशभिर्नादैर्विराजते ललिते ।
सकलमहिमाभिरामे श्रीविद्ये ते नमो नमो देवि ॥५९४॥
चपलाक्षि चारुशीले विद्याविद्यासु सङ्गता भवसि ।
कोट्यधिकशक्तियुक्ता नानारूपा विराजसे ललिते ॥५९५॥
चय एव हि वर्णानां पदमपि कमलं तवापि मञ्जुतमम् ।
शक्तय एव पदानां दासीभूता भवन्ति ते ललिते ॥५९६॥
चतुराम्नायाराध्ये स्वरवर्गीयाश्च योगवाहाश्च ।
नाडीत्रयमपि कोटित्रयमिति ललिते तवैव रूपाणि ॥५९७॥
चतुरे तव मनुग्रमध्ये षोडशवर्णा भवन्ति बीजानि ।
पञ्चदशाक्षरवत्यपि मन्त्रे श्रीबीजसङ्गता भवती ॥५९८॥
चतुरासि देवबृन्दे कामो भवसि स्वरैरशेषैस्तु ।
तत्कोटिसेविता त्वं तत्सदशी चासि ते नमो ललिते ॥५९९॥
चारुतरवर्णयोगात्पवनाद्याः सम्भवन्ति वेदाश्च ।
पदवर्णकोटिशक्तिप्रकटितरूपा त्वमेव ननु ललिता ॥६००॥
चारुस्मितसितवदने दशशतदलसहितकमलमुल्लसति ।
नरवपुषि शिरसि जलजे त्वं तस्मिन् वससि सादरं ललिते ॥६०१॥
चारुतरचन्द्रवर्णे रत्नश्रीमद्विभूषणैः कर्णे ।
भूषितवत्यसि ललिते सा त्वं मां पाहि ते नमो देवि ॥ ६०२॥
चित्रतरतिलकसुन्दरफाले राकेन्दुचारुतरवदने ।
भ्रूमध्यवर्तिचक्रं वपुषि नरस्यापि भवति तव पीठम् ॥६०३॥
चित्रतरमम्बरस्थं शक्रतनुर्भाति तत्समानं ते ।
चित्रतरमम्बरं यद्धारयसि त्वं नमोस्तु ते ललिते ॥६०४॥
चीनाम्बरपरिधाने हृदये चक्रेष्वनाहते वससि ।
तच्छासनमिह नूनं शाश्वतमेवास्त्यनाहतं ललिते ॥६०५॥
चेतनबोधात्तावकभास्वानुल्लसति खे यथा किरणैः ।
कत्वोच्चैस्तान्विलससि देवि त्वं चाप्यनाहते चक्रे ॥६०६॥
चैतन्यशालि चक्रं मूलाधारं त्रिकोणवल्ललितं ।
ध्याने बलवति चित्ते मातर्गगने रविर्यथोल्लससि ॥६०७॥
चोरनिशाचरवीरान्नाशयसि त्वं हि या शरीरे सा ।
अज्ञानरूपभाजस्तेषां शक्तिं विनाशयेर्ललिते ॥६०८॥
चञ्चद्ब्रह्मांडमिव प्रतिपदमभिमान एक एवास्ते ।
मोक्षविरोधे दक्षं तद्यज्ञध्वंसिनी त्वमेवासि ॥६०९॥
चञ्चलमनसां भीतिं नाशयितुं त्वं परिप्लवापाङ्गी ।
विकसितनयना भवसि च कुण्डलिनी त्वं नमोऽस्तु ते ललिते ॥६१०॥
छविपूरपूरिताङ्गी दरहासोद्भासितानने ललिते ।
भवतु तवाननकान्तिः स्वान्ते शान्तिप्रदेव मे सततम् ॥६११॥
उन्नामय हृत्कमलं बोधय बोधं त्वमेव मे ललिते ॥६१२॥
छायेव चण्डभानोर्मोक्षप्राप्त्यै स्थिता हि कुण्डलिनी ।
मूलाधारे खनिरिव महसां सा त्वं नमोऽस्तु ते ललिते ॥६१३॥
छिन्नासुरशतदेहे माता त्वं लोकनाददेहानाम् ।
अमतस्य च कुण्डलिनी नाम्नां नित्यं नमोऽस्तु ते ललिते ॥६१४॥
जनमनसि दैत्यरूपं सिद्धमशुद्धं निकाममज्ञानम् ।
तारकबलमिव हन्तुं स्वान्ते गुहजन्मभूरभूर्ललिते ॥६१५॥
जाग्रच्चित्तसरोजे मुद्रायोगेन योगिनामेव ।
आज्ञाचक्रगतास्सध्यानं देवाऽस्तु पाहि मां ललिते ॥६१६॥
जितदैत्यराजचक्रे मार्गे सिद्धासि निग्रहस्य त्वं ।
निग्रहमार्गस्सोयं ध्यानाभ्यासो हि योगिनां ललिते ॥६१७॥
जीविसुखप्रदशीले शुद्धकलारूपधारिणीन्दुमुखि ।
दहराकाशाधारे मातस्तुभ्यं नमो नमो ललिते ॥६१८॥
जेत्री जगतां च त्वं प्रतिपदमारभ्य पौर्णमास्यन्तम् ।
पञ्चदशाहोभिस्त्वं पूजार्हा भवसि ते नमो ललिते ॥६१९॥
जैत्रशरचापहस्ते शुद्धज्ञानात्मिके कलारूपे ।
अहमिति मतिरपि विमला मूर्धनि भात्यम्ब ते नमो ललिते ॥६२०॥
जैत्रसमाधिरतानामहमिति विमला मतिर्यदा सकला ।
देवि कलाकारा त्वं काराकारे भवेऽपि मां पाहि ॥६२१॥
जोषमिदमम्ब हृदयं तिष्ठति नैव क्वचित् परिभ्रमिति ।
काव्यकलादिविनोदैः स्थापय तद्रूपिणी ममापि तल्ललिते ॥६२२॥
जङ्गमबोधिनि कमलावाणी सेव्ये प्रकीर्णकैरम्ब ।
मङ्गलमातनु हि त्वं नमते भजते च मे सदा ललिते ॥६२३॥
जातानुरागहृदया हृदये हृदये रमस्व देहवती ॥६२४॥
झषशिशुतिमिमयजलधिः संसारोयं हि पालिनी त्वमसि ।
द्रष्टुममेया दश्यादश्या मे स्याः कदा शुभम्योर्मे ॥६२५॥
झरकोटिकोटिसिन्धोरन्तः स्यादेव संसतेर्नैव ।
जीवात्मिकास्ति भवती चैतन्यं धन्यमुभयसाम्येन ॥६२६॥
झटिति च जटिले च घटयसि जननी त्वं जीवराशिमिह ललिते ।
परमासि पावनात्मा संपदिदं तेम्ब विश्वगार्हस्थम् ॥६२७॥
टङ्कतिजीवमये त्वं कोशे सञ्चरसि पालयन्तीव ।
प्राणानम्ब शरीरे जीवानां सद्मरूपिणी त्वमसि ॥६२८॥
टीकातीतां भवतीं शंसेद्वक्तापि कस्समग्रतया ।
पावनरूपे ललिते पावय सपरिग्रहं च मामम्ब ॥६२९॥
डयनाटकरतमनसि स्थैर्यं त्वं धेहि मे बधान त्वं ।
औदुम्बरफलसदशब्रह्माण्डान्यम्ब सन्ति ते वपुषि ॥६३०॥
डाकिन्यादिचमूस्ते सविधे जागर्त्यनारतं भवति ।
जगतां कारणमम्ब त्वच्छक्तिस्साहि केवला भवति ॥६३१॥
भानुशतकोटिधाम्नि द्योतयसि द्योतसे त्विषा ललिते ॥६३२॥
डिम्बाडम्बरमुदिते डम्बरममरारिजं न मर्षयसि ।
गुह्यास्यवेद्यरूपा मनसा तुभ्यं नमो नमो ललिते ॥६३३॥
डिम्बानसुराणां त्वं मातत्वादम्ब पालयस्येव ।
कैवल्यदानविषये पश्यसि पात्रं नमोस्तु ते ललिते ॥६३४॥
डोलारोहणशीले समये सञ्चारमखिलमाश्रयसि ।
त्रिपुरा त्रेता चासि त्रित्वविशेषाभिमानिनी ललिते ॥६३५॥
ढक्काद्यायुधहस्ते दिव्यशरीरे स्मितैकशक्ते त्वं ।
जनयसि जगति हि जन्तूनन्तकवैरिप्रिये नमो ललिते ॥६३६॥
ढौकन्ते ये ये ते त्वयि वृद्धिं यान्ति भक्तियोगेन ।
पातालभूमिलोकस्वर्गजनाराध्यमानपदपद्मे ॥६३७॥
तनुगात्रि देवि सृष्टिस्थितिलयकार्यार्थमेव जातासि ।
वाणी ब्रह्मा लक्ष्मीर्विष्णुर्गौरी शिवश्च शिवरूपे ॥६३८॥
तनुषु दशास्तिस्रः स्युः मर्त्यानां पूर्वदेवानां ।
त्रिदशाधीशासि त्वं त्रिदशारहितापि ते नमो ललिते ॥६३९॥
तनिमानमुपनय त्वं दुरितं मे त्रिविधवर्णमयि ।
बीजाक्षरेषु वासे प्रणवत्वेनास्तु ते नमो ललिते ॥६४०॥
तनुमन्मानसगेहे निवसन्ती त्वं सुरप्रियैर्गन्धैः ।
नामाक्षरत्रयेक्षे षडपि भवन्त्यम्ब बीजवर्णास्ते ॥६४१॥
तव ललिततिलकदेशे सीमन्ते चासि मङ्गलायतने ।
सिन्दूरमम्ब तेन त्वं माङ्गल्यप्रदायिनी भवसि ॥६४२॥
तव नामेति वर्णद्वय एवास्ते हरी रमा चेति ।
तद्द्वयरूपासि त्वं प्रणवाकारापि ते नमो ललिते ॥६४३॥
तरणिसमधामपूर्णे पूर्णेन्दूद्योतमानमुखचन्द्रे ।
चन्द्रार्धचूडजाये जायेतात्रापि किं कपामयि ते ॥६४४॥
तन्वा श्यामलवर्णे विष्णोर्भगिनी यदा त्वमेव भवेः ।
प्रालेयशैलजाता जाता गौरी नमोऽस्तु ते ललिते ॥६४५॥
तव गुरुरासीद्दक्षो न्यक्कारात्पत्युरीश्वरस्यापि ।
तेन कृताद्गिरिपुत्री पत्ये शर्वाय सा त्वमेवासीः ॥६४६॥
तपसि च चतुरासि त्वं गाने गन्धर्वसेविता भवसि ।
देवादिविश्वगर्भा देवि त्वं स्थूलसूक्ष्मरूपापि ॥६४७॥
तपनीयचारुगर्भा सवितुस्तेजःस्वरूपिणी ललिता ।
ईश्वरहिरण्यगर्भाकारा कारुण्यवारिधे पाहि ॥६४८॥
करुणाभरणासि त्वं तरुणी दैत्याधमान्निहन्तुमिह ।
त्रिपुरानसुरान् हन्तुं दानवनिवहं तदन्यदपि भवसि ॥६४९॥
तनुमद्वचनचतुष्कं भेदान्नादस्य परिमितं भवति ।
वाग्वादिनां च नाथं त्वं तेषां ते नमो नमो ललिते ॥६५०॥
तपसि रतानां ध्यानैर्गम्या त्वं ध्यानयोगिनामेव ।
मानवमानससुगमा भव भवजाये नमोऽस्तु ते ललिते ॥६५१॥
तनुधरगणनातीते देशकलाकालमानदुर्बोधाम् ।
जानातु कथमयं त्वां लोकश्शोकघ्नि ते नमो ललिते ॥६५२॥
तनुषे ब्रह्मज्ञानं बोधयसि त्वं भवामयं हन्तुम् ।
माता केवलमसि न हि गुरुरपि मातर्नमोऽस्तु ते ललिते ॥६५३॥
तनुधारि सौख्यकारि ज्ञानं प्रापञ्चिकं भवेन्नैव ।
ब्रह्मज्ञानं किन्तु ज्ञानं नेच्छन्ति तस्करा ललिता ॥६५४॥
तथ्यं ब्रह्मज्ञानं जन्मजरामरणरोगभैषज्यम् ।
वेदान्तशान्तिगीतं वेद्या तेनासि ते नमो ललिते ॥६५५॥
त्वद्ध्यानं हावर्णे षट्पदगणनीलचिकुरेम्ब ।
कालत्रयपरिबाधारहिते तुभ्यं नमो नमो ललिते ॥६५६॥
तरुणी च राजपुत्री नपभोगानन्दवर्धिता ललिता ।
लोपामुद्रानर्च त्वामम्बागस्त्यवल्लभा सुभगा ॥६५७॥
तनुषे विचित्रमेतद्विश्वं विश्वंभरानुजे ललिते ।
लीलाकतमिदमखिलं मायारचितं विभाति तव ललिते ॥६५८॥
तनुगतचर्मदशा त्वं द्रष्टुमशक्यासि दश्यरहितेति ।
त्वां कीर्तयन्त्यशेषाः शेषाभरणप्रियाङ्गने पाहि ॥६५९॥
तव नास्त्यदश्यवस्तु क्वापि त्वं सर्वमीक्षसे कोपि ।
पश्येन्नमेन्न च त्वां रव्याकारे नमोऽस्तु ते ललिते ॥६६०॥
तत्त्वमिदं तव किं वा बोधः स्यादिन्द्रियैर्यदेतदिति ।
विज्ञानमाहुरेके साक्षात् त्रिविधासि तत्र हे ललिते ॥६६१॥
तव नास्त्यवेद्यविषयो यदखिलविषयं त्वमेव जानासि ।
जीवो ब्रह्मविलोके ब्रह्मैव स्यादवश्यमयि ललिते ॥६६२॥
तत्त्वविदां मतमेवं योगो जीवात्मनोर्द्वयोर्मिलनम् ।
एतत्कार्याकारा त्वमसि हि मातर्नमोऽस्तु ते ललिते ॥६६३॥
तपसि रतानामध्वा ध्यानाभ्यासात्मको भवेदेव ।
सोप्यष्टाङ्गसमेतस्तद्गुरुरूपा त्वमेव ननु ललिते ॥६६४॥
तपयिति साधनमेकं योगो मूलं हि तस्य योगस्य ।
अर्हसि तद्द्वयमम्ब त्वं योग्या तस्य भवसि हे ललिते ॥६६५॥
तत्वात्मिकेम्ब ललिते योगाज्जीवात्मनोर्जिताराते ।
आनन्ददात्रि जगतो मातस्तुभ्यं नमो नमो ललिते ॥६६६॥
तत्त्वमयदेहवर्तिनि जीवे लीने मुदेव सम्भवसि ।
जीवप्राणधुरं त्वं वहसि त्रेतादियुगयुगं ललिते ॥६६७॥
तत्त्वज्ञानमदीड्ये काङ्क्षाज्ञानक्रियात्मिके सत्त्वे ।
देवि त्वमेव यासि त्वं तच्छक्तित्रयं भवेर्ललिते ॥६६८॥
तत्त्वप्रधानमेवं ब्रह्माण्डं त्वं शिवे तदाधारा ।
तव चरणशरणमेतद्विश्वं शश्वन्नमोस्तु ते ललिते ॥६६९॥
तनुषे हि कार्यमखिलं प्रापञ्चिकमम्ब न प्रतिष्ठा त्वम् ।
तनयेषु सुप्रसन्ना बोधय बोधं नमोऽस्तु ते ललिते ॥६७०॥
तम इव शासत् तमसा रजसा सृष्टेर्भवेः स्वयं तच्च ।
भेदविरहितापि त्वं धत्से कार्याय ते नमो ललिते ॥६७१॥
तथ्यादन्यद्विश्वं मलिनप्रकतेस्तथा त्वमेवासि ।
भूतान्यष्टाङ्गयुता मातस्त्वं चाष्टमूर्तिरेवासि ॥६७२॥
तव गुणवर्गे रजसस्तमसा प्रकृतिस्तदेव मिलितासि ।
मलिना हि सा तु शुद्धा सात्त्विकमाया त्वमेव भवसीह ॥६७३॥
तपसाप्यगम्यरूपे तापससेव्ये तिरोहिताकारे ।
कारयसि लोकयात्रां साष्टाङ्गी त्वं द्वितीयया ललिते ॥६७४॥
तमसो महसोप्यपरा भवसि त्वं तावदेकिका ललिता ।
सृष्टिं मानयसि त्वं लयकारिण्या त्वया जगत्सुखितम् ॥६७५॥
तत्त्वादिकाधिकारे तत्त्वादेवास्थितोत्तमा निजया ।
आकृत्यैव हि कार्यं कुरुषे मालिन्यपूर्णया ललिते ॥६७६॥
तव भवति रूपमेकं ब्रह्मानन्दप्रदा च भवति तथा ।
कविजननुतचरणे त्वं निर्लिप्तासीह ते नमो ललिते ॥६७७॥
तनुलीलात्मानात्मज्ञानं जगतीह कोटिभेधेन ।
जीवस्त्वबेध आत्मा द्वैतातीतानि ते नमो ललिते ॥६७८॥
तनुमन्नमवति चान्नात्पुरुषः श्रुतिरप्येवं हि सा समाचष्टे ।
न भवति यदन्नदानादन्यत्वं धत्स एव न हि तस्मै ॥६७९॥
तनुषे त्वमालयान् सा पश्चाज्जीवान् प्रवेशयेस्तत्र ।
तनुषे रक्षणमम्बा भूत्वा तेषां नमोऽस्तु ते ललिते ॥६८०॥
तव जीवितस्य चादिर्नान्तस्तेनासि केवलं नित्या ।
त्वमनादिरखिलसम्पद्भरितानन्दात्मिकासि हे ललिते ॥६८१॥
तनुषु प्राणा अभवन् भूतानां जीवितं तदाशा च ।
ब्रह्म च साक्षी जीवः ब्रह्मैक्यं त्वं करोषि हे ललिते ॥६८२॥
तव भवति रूपमेकं बृहदस्मान्नाधिकं भवेदेव ।
बृहती त्वमेव माद्याराध्यास्येकासि ते नमो ललिते ॥६८३॥
तपसि रतानपि यमिनो योजयसि ब्रह्मणि स्वयं जीवान् ।
ब्रह्मण इति स हि भवति ब्रह्माणं भासि ते नमो ललिते ॥६८४॥
तथ्यप्रिया त्वमेव ब्राह्मी माता नमोऽस्तु ते ललिते ॥६८५॥
तथ्यं तप इति युगलं पालयसीति त्वमेव वन्द्यासि ।
ब्रह्मानन्दा भूत्वा दद्यास्त्वं मे नमोऽस्तु ते ललिते ॥६८६॥
तव भवति सत्यशुद्धो बलिरुपहारो यथा सतामेवम् ।
सात्त्विकबलमुदिता त्वं तात्त्विकदृष्टिं जने जने धेहि ॥६८७॥
तव भवति भाषितानां रूपं तावच्चतुर्विधं भुवने ।
भाषासु नादसारो निहितो भाषात्मिके नमो ललिते ॥६८८॥
तव देवि कार्यजातं ब्रह्माण्डसैव रक्षणं भवति ।
अगणितसेनासहिता भवसि त्वं नमो नमो ललिते ॥६८९॥
तव भवति नापि भावो नाभावो द्वन्द्ववर्जिता त्वमसि ।
भावयति ये यथा त्वां भवसि तथा तस्य भावनाकाये ॥६९०॥
तव करणीया पूजा सुलभा सुमुखी तया भवस्येव ।
ज्ञानं वितरसि सा त्वं सात्त्विकपूजाप्रसादिता ललिते ॥६९१॥
तव चरणसेवकानां भवति न क्वापि दुर्गतिर्दुर्गे ।
शुभकरि शोभनरूपे मातर्मां पाहि पाहि मां ललिते ॥६९२॥
तरुणतमालश्यामे श्यामे मोक्षप्रदे तमोहन्त्रि ।
सुलभे भजतां सततं मङ्गलमार्गावलम्बने पाहि ॥६९३॥
तरुणेन्दुचारुमौलेरीशितुरास्यामतात्मिका भवसि ।
शरणार्थितापहन्त्री त्वं तावद्देवि ते नमो ललिते ॥६९४॥
तव देवि भूमिराज्यं सुरराज्यं च त्रिमूर्तिवरराज्म् ।
राज्यं ब्रह्मपदाख्यं वितरसि नमतां चतुर्विधं ललिते ॥६९५॥
तव नीचैरपि राज्यं सप्तविधं भवति चोपरिष्टाश्च ।
एवं चतुर्दशानां राज्ञी त्वं भवसि सर्वराज्यानाम् ॥६९६॥
तव मन एव हि करुणापरिवतमम्बास्ति सन्ततं तेन ।
सततं प्रकाशसे त्वं मातस्तुभ्यं नमो नमो ललिते ॥६९७॥
तव चरणकिङ्कराणां हेतोर्धत्सेम्ब पारमेष्ठित्वम् ।
भवति न तव करुणायाः सीमा तुभ्यं नमो नमो ललिते ॥६९८॥
तथ्यं धनमथ धान्यं विद्यानीतिर्विधेयता ख्याता ।
आवश्यका हि तैस्त्वं भवसि हि लक्ष्मीषु राज्यलक्ष्मीस्त्वम् ॥६९९॥
तरुणिमकरुणापूर्णे ललिते मातर्मनोज्ञचापधरे ।
सकलश्रीपरिपूर्णः कोशस्तव वर्धते श्रिया साकम् ॥७००॥
तरुणतरतुरगनागा पादातं चेति ते रथाश्चेति ।
चतुरङ्गबलमजस्रं सिद्धं तन्नायिका त्वमेकासि ॥७०१॥
तव पादसेवकानां साम्राज्यं दास्यसि प्रसन्ना त्वं ।
को वा त्वया समानो दाता जातो प्रसूरपारदो ललिते ॥७०२॥
तथ्यातथ्यविचित्रो लोकस्तथ्ये सदा करोषि रतिम् ।
त्वं भवसि तथ्यनिष्ठा सत्ये सर्वं प्रतिष्ठितं भवति ॥७०३॥
तव भवति सिन्धुवेलाकाञ्चीधाम्ना क्षितिस्तवैवाम्ब ।
भूमाताप्यसि तेन त्वं ते चरणं सदाऽस्तु मे शरणम् ॥७०४॥
तव देवि योगदीक्षापेक्षा त्वधिकासि दीक्षिता तेन ।
जलनिधिमधिवससि त्वं तुभ्यं नित्यं नमो नमो ललिते ॥७०५॥
तव रूपमेव गूढं त्वं गुहमातासि तत्तमोहन्त्री ।
गूढात्मरूपिणी त्वं तस्मादेवासि ते नमो ललिते ॥७०६॥
तव रूपमाश्रितानां ब्राह्मीरूपा त्वमेव वा गुह्या ।
ब्रह्मतयास्यतिगुह्या प्रणवाकारा नमोऽस्तु ते ललिते ॥७०७॥
तव वर्णमन्त्रमध्ये ब्राह्मी ख्याताऽसि सा विनिर्मुक्ता ।
नानोपाधिमुखेभ्यः सा ब्रह्माणी त्वमेव ननु ललिते ॥७०८॥
तथ्यात्मिका च विद्या ब्राह्मी तावत् सती शिवा जाता ।
ब्रह्मात्मिकाऽपि तस्मात् तावद्रूपे महःप्ररोह इति ॥७०९॥
तथ्यान्वितासि सर्वे स्वाचारे सन्ति सज्जना नित्यं ।
सत्सम्प्रदायरूपे माता त्वं जयसि ते नमो ललिते ॥७१०॥
तथ्यात्मिकासि विद्या विनयस्तुष्टिश्च जगति सौजन्यम् ।
विद्यालक्षणमेतद्दद्याद्विद्या तदम्ब ते करुणा ॥७११॥
तव नाम्नि ये तु वर्णाः शुद्धास्सन्ति स्वराश्चतुर्थस्तु ।
बोधयति मुक्तिमार्गं तद्द्रूपा त्वं नमोऽस्तु ते ललिते ॥७१२॥
तव रूपमेव बोधो नारायण एव बोधको भवति ।
गुरुमण्डलमध्यस्था त्वं हि गुरूणां शिवासि गुरुरूपा ॥७१३॥
तत्त्वात्मकं हि रूपं तव सा त्वं चासि पालयित्रीह ।
संसारमार्गिणस्तान् गुरुरूपा तत्पदेन मुदितासि ॥७१४॥
तपसा रविणा शक्त्या सेव्याऽसि त्वं त्रिभिस्तदन्यैश्च ।
बीजाक्षरेण च त्वां वन्दे सोऽहं पुनः पुनश्चैवम् ॥७१५॥
तरणिरिव तिमिरमम्बा स्यादज्ञानं परस्य हरसि त्वम् ।
तद्द्रूपा त्वं रविणा लक्ष्म्या ललितेर्चिताऽसि ननु शक्त्या ॥७१६॥
तथ्या विशुद्धरूपा माया ज्ञानप्रदा कला वा या ।
सा त्वं मधुमत्यसि ते ब्रह्मानन्दप्रदे नमो ललिते ॥७१७॥
तनुवरविलग्नलग्नद्युतिमत्काञ्चीनिबद्धकौशेया ।
भूम्याकारे मातर्मामव तुभ्यं नमो नमो ललिते ॥७१८॥
तनुरेव जीवगेहं तव गुणगणना त्वयापि नो शक्या ।
तेषां माता त्वेका सा भवसि त्वं नमोऽस्तु ते ललिते ॥७१९॥
तनुषु मतिहृदयभावा निधयस्स्युर्भुवि च वसतां हि ।
निहितास्तथैव रहसि त्वं नित्यं भवसि गुह्यरूपाद्या ॥७२०॥
तनुरसि शिरीषमृदुला भूरूपायास्तवाम्ब कारुण्यम् ।
तेन त्वयि जागर्ति हि मातस्तुभ्यं नमो नमो ललिते ॥७२१॥
तत्त्वाभिमानिनी त्वं भूरूपा ते गुरुत्वमपि भवति ।
तत्त्वं प्रियं गुरुत्वं मातस्तुभ्यं नमो नमो ललिते ॥७२२॥
तव देवि विजयते हि स्वातन्त्र्यं ब्रह्मरूपिणी यदसि ।
तनुषे त्वं निजरक्तां ललिते तुभ्यं नमस्स्वतन्त्रायै ॥७२३॥
तनुकरि भूमाता त्वं लोकान्वहसि त्वमेव तान् पाहि ।
त्वयि सत्यामिति ललिते नित्यं वन्देम्ब सर्वतन्त्रां च ॥७२४॥
तापसनिवहे महितास्तथ्यं बोद्धुं ययाचिरे हि हरं ।
गुरुरभवदथ स मुनयः शिष्यास्ते भवति दक्षिणामूर्तिः ॥७२५॥
तापसपूजितपादे सनकाद्याराध्यमानपदकमले ।
श्रीपतिसायुज्यमपि त्वं दत्से देवि ते नमो ललिते ॥७२६॥
तापत्रयपरिचारिणि शैवज्ञानप्रदे शुभाकारे ।
ब्रह्मज्ञानानन्दं सा त्वं दत्से नमोऽस्तु ते ललिते ॥७२७॥
तारयसि सागरात्त्वं नौकास्येका त्वमेव ननु ललिते ।
ज्ञानकले असि सा त्वं तापत्रयमम्ब जहि मदीयमिदम् ॥७२८॥
तापघ्नानन्दकला भवसि त्वं कामितार्थदात्री च ।
ब्रह्मानन्दसमानो नानन्दस्तं त्वमेव मे देहि ॥७२९॥
तापसवीरस्स शिवो गुरुरपि जगतां वटद्रुमालम्बी ।
वपुषा स दक्षिणाशावदनस्तद्रूपिणी त्वमेवाम्ब ॥७३०॥
तापप्रशमकरी सा मूर्तिस्ते सैव दक्षिणा भवति ।
हितयोर्युवयोरेका सापि प्रेमात्मिकाम्ब पायान्माम् ॥७३१॥
तापसदाक्षिणमूर्तिस्तव भवति प्रेमरूपिणी ललिते ।
भवसि प्रियकरणी त्वं नमतां भजतामनारतं मनसा ॥७३२॥
तापसहृदयनिवासिनि ललिते ललितेक्षणे सदा नाम्ना ।
पठनश्रवणध्यानैरानन्दसि भक्तभक्तिवश्या त्वम् ॥७३३॥
तानयुतगानविद्यामानिनि सा त्वं सदसि ते नन्दी ।
गायति नृत्यति चाराच्चारानन्दिनि सदा तव प्रीत्यै ॥७३४॥
तानैर्गानैर्नटति हि नटराजस्त्वं शिवार्धदेहगता ।
नटराजराजरमणी त्वं मे शरणं नमोऽस्तु ते ललिते ॥७३५॥
ताम्यद्विश्वक्षेमंकरि करिणीमन्थरे धराधारे ।
मिथ्याजगदाधारे मिथ्यामिथ्याद्वयप्रिया त्वमसि ॥७३६॥
तावकभुवने तावन्मिथ्यातथ्ये सदा भवेतां हि ।
मायेति कार्यतुल्यं मिथ्याजगदस्थिरं हि ते ललिते ॥७३७॥
तावककरुणामुक्तिं वितरसि भजते जनाय सा त्वमसि ।
साक्षाद्धि मुक्तिरूपा सा त्वं मां पाहि ते नमो ललिते ॥७३८॥
तावकलास्याद्विश्वं रमते प्रिया हि ते लास्यम् ।
लीलाताण्डवपण्डितदयिते मां पाहि ते नमो ललिते ॥७३९॥
तावकमेकं सृजति हि रक्षति रूपं तथैवमपरं तु ।
नाशयति जगदिदं सा लयकरिणी त्वं पुनीहि मां ललिते ॥७४०॥
तिष्ठसि च त्वं कुपिता स्पष्टवती सुप्तमीश्वरं हि पदा ।
त्वमभूरपत्रपिष्णुर्लज्जारूपे नमोऽस्तु ते ललिते ॥७४१॥
तिष्ठन्ति देवलोके रम्भाद्या गाननाट्यनिष्णाताः ।
त्वामानमन्ति लास्यैर्गीतैरानन्दयन्ति ननु ललिते ॥७४२॥
तीव्रभवदावराशावमलसुधावष्टिकारिणी त्वमसि ॥
ऐहिकपारत्रिकयोः सुखयोर्दात्री त्वमेव ननु ललिते ॥७४३॥
तीव्रतरदुरितपादपमेदुरसंसारविपिनदावाग्ने ।
पालितसमस्तलोके लोकेश्वरि ते नमो नमो ललिते ॥७४४॥
तीव्रतरदैन्यतूले वातूलात्वं भवत्यवश्यमिह ।
ललिते ललितापाङ्गे त्वं गेया मे गतिर्भवती ॥७४५॥
तीव्रज्वराध्वान्तरवे ज्योतिष्मति चारुलोचनाम्भोजे ।
पायय सुकतसुधां मां मातस्तुभ्यं नमो नमो ललिते ॥७४६॥
तीव्रतरामताम्शुर्भाग्याम्भोधे त्वमेव भवसि ननु ।
प्रणतानां च शिवे त्वं भाग्यं सकलं प्रवर्धयेरनिशम् ॥७४७॥
तुलयितुमलमिह न हि ते करुणां यद्भक्तचित्तकेकिघना ।
ललितासि पालयित्री त्वं मातस्ते नमो नमो ललिते ॥७४८॥
तूलायितं शरीरं ये ये तन्वन्ति घातुकारोहाः ।
दम्भोलिरिव नगानां भवसि हि तेषां नमोऽस्तु ते ललिते ॥७४९॥
तृणचय इव दवदावो मृत्युद्रुमबृन्दपरशुरस्यम्ब ।
रोगभवरोगवैद्या हृद्यानाद्यासि ते नमो ललिते ॥७५०॥
तेजस्विनि दयमाने दीने दीने जने जने ललिते ।
मातर्माहेश्वरि मयि कुरु करुणां ते नमो नमो ललिते ॥ ७५१॥
तेजोवशीयमायुः श्रुत्याशिषमम्ब मे श्रुतामेकाम् ।
भक्तप्रियकरी त्वं दद्या हृद्यां नमो नमो ललिते ॥७५२॥
तेजस्सर्वाधिक्याज्जडरूपाग्ने क्षुधा महाग्रासा ।
जगदेतदेवमन्ते ग्रासीकत्वात्सि ते नमो ललिते ॥७५३॥
तैलमिव दीपमेनं जाठरदहनं क्षुधेव वर्धयसि ।
तत्त्वमसि रुद्रशक्त्या कल्पे कल्पे महाशना ललिते ॥७५४॥
तोषो न ते क्षुधः स्यादन्ते मुञ्चेर्न देवि पर्णानि ।
तेनापर्णा ख्याता पायास्त्वं मां बुधार्चिते ललिते ॥७५५॥
तौर्यत्रिकमरिनिवहे समरे समरे त्वमेव कारयसि ।
युद्भवसि चण्डिका त्वं चण्डा मा भूर्मयि त्वमयि ललिते ॥७५६॥
त्वं चण्डमम्ब मुण्डं न्यवधीस्त्वं देवि तामसी वृत्तिम् ।
राजसतामसरूपे नाम्ना ख्याते नमोऽस्तु ते ललिते ॥७५७॥
तन्द्रालस्यविहीने त्वमसि क्षरविश्वरूपिणी क्वचन ।
अक्षरमसि च ब्राह्मश्रीललिते ते नमो नमो ललिते ॥७५८॥
दयमानाक्षिसरोजे नियमितभुवने त्वशासना देवि ।
प्रभुतायां तव लोकाः शोकविहीना हि ते नमो ललिते ॥७५९॥
दरहासशोभमाना भवसि त्वं विश्वधारिणी ललिता ।
सुरसुन्दरीसपर्यापर्यायादानमोदमानाम्ब ॥७६०॥
दमयस्यम्ब समस्तं समदं दैत्यान्वयं स्वयं समरे ।
धर्मार्थकामसौख्यं वितरसि जगते नमो नमो ललिते ॥७६१॥
दिवि भुवि बलिसदने त्वं भवसि हि सत्त्वरजस्तमो दधती ।
सात्त्विकराजसतामसगुणवृत्यम्बास्तु ते नमो ललिते ॥७६२॥
दिनकर इव भवसि त्वं ललिते त्रिगुणात्मिका च सत्त्वमयी ।
अनुनयकतनुतिरेषा तोषायाम्बास्तु ते कथञ्चिदपि ॥७६३॥
दिशसि दयामयि नाकं सुकृतेन त्वं च यज्वना नियतम् ।
विशदधियामपवर्गं सुकृतं ज्ञानोदयोज्वलानां हि ॥७६४॥
दीनदयालुतया ते मनसि सरोषापि भवसि रिपुवर्गे ।
नानोपाधिविमुक्तस्वान्ते शान्ते नमोऽस्तु ते ललिते ॥७६५॥
दीपयसि लोकमात्मज्योतिर्दीपेन चान्द्रपुष्पाभा ।
रूपत्रयमपि धत्वा लोकत्रयमम्ब रक्षसि त्वं हि ॥७६६ ॥
दीपयसि धामनिवहं देहे देहे प्रविश्य चेतयसि ।
ओजोवत्यसि यत्त्वं तेजोरूपे नमोऽस्तु ते ललिते ॥७६७॥
दीप्तिधरासि धराश्रीदीप्तिकरी त्वं श्रिया समुज्वलसि ।
आप्तव्यमस्ति न हि ते किञ्चन कामप्रदाम्ब सा त्वमसि ॥७६८॥
दीनशरण्ये होमो जप इति पूजेति कार्यमखिलं च ।
ध्यानं चाग्नौ विहितं यज्ञो यज्ञस्वरूपिणी त्वमसि ॥७६९॥
दीक्षितकर्म हि यजनं यजनं विष्णुस्वरूपमेवास्ति ।
त्वं भवसि तस्य भगिनी मातर्ललिते प्रियव्रता त्वमसि ॥७७०॥
दुर्गाऽसि दुर्गतिघ्नी कर्मालभ्यासि तद्दुराराध्या ।
स्वर्गेऽपि भोगदूरा ज्ञाताराध्याऽसि ते नमो ललिते ॥७७१॥
दुर्वारेन्द्रियपञ्चकविजितानां त्वं सदा दुराधर्षा ।
सर्वेषामपि गर्वं चर्वसि हि त्वं नमोऽस्तु ते ललिते ॥७७२॥
दूरीकृतभवतापे पाटलिकाकुसुमपाटले चटुले ।
बिल्वमिव पशुपतेस्ते पाटलिकैवाम्ब रोचते देवि ॥७७३॥
दूरीकुरु मम दुरितं दारय दारिद्र्यदारु मे दह वा ।
महती त्वमसि हि नाम्ना वपुषा मातर्नमो ललिते ॥७७४॥
दूरं नीचैरुपरि च भवसि हि नीचैरहीशरूपेण ।
धारयसि मेरुनिलया जगतीमप्यम्ब ते नमो ललिते ॥७७५॥
दूरे मेरावचले पुरममराणां विराजते तत्र ।
मन्दारभूरुहात्तत्पुष्पं प्रियमम्ब ते नमो ललिते ॥७७६॥
देवैर्मानवदेवैः पञ्चप्राणैस्समर्पिते शक्त्या ।
आत्मस्वरूपिणी त्वं वीराराध्येतिगीयसे ललिते ॥७७७॥
देवारिवैरिणी त्वं ब्रह्माण्डव्याप्तमूर्तिरेवासि ।
भावयति कोत्र रूपं त्वं भावातीतमम्ब तद्भवति ॥७७८॥
देवाभिमानिनी त्वं ललिते सम्भवसि देवकार्येषु ।
देवान्वितैव समये विरजा विभ्राजसे सदा विमला ॥७७९॥
देहेन विश्ववदना सर्वदिगालोकिलोचना भवसि ।
मोहयसि विश्वमेतन्मुह्यसि न त्वं नमोऽस्तु ते ललिते ॥७८०॥
दैत्यविनाशिनि देवि त्वं चान्तर्यामिनीह भूतेषु ।
प्रेरयसि विषयजाले चित्तं चित्तं हि देहिनां ललिते ॥७८१॥
दैविकमार्गं गगनं भवती चापूर्य तेजसा महता ।
देवि त्वमेव जयिनी भवसि श्रीदेवि ते नमो ललिते ॥७८२॥
दैविकसम्पदुपेते श्रुत्या गीते सुराङ्गनागीते ।
प्राणान्वितरसि सा त्वं देहिकृते देवि ते नमो ललिते ॥७८३॥
दैहिकशक्तिषु पञ्च प्राणाः प्रबला हि ते त्वमेवासि ।
साहसिकसत्त्वरूपे रूपे रूपे त्वमेव ननु ललिते ॥७८४॥
दोरतिराजितकरभे करभोरूणां करार्चिते महिते ।
दूरीकुरु हृदयान्तस्तिमिरं तिमिरघ्नि ते नमो ललिते ॥७८५॥
दोर्दण्डखण्डितासुरचण्डबले वह्निमण्डले भुवनम् ।
पालयसि बालकानां शरणं माताऽसि ते नमो ललिते ॥७८६॥
दौर्गत्यतूलवात्या सत्यायैवावतारिणी त्वमसि ।
स्वर्गापवर्गदात्री त्वं तावद्देविके नमो ललिते ॥७८७॥
दण्डधरजयिनि राज्यं निहितं त्वया हि सचिवासु ।
श्यामलकादिषु तस्माज्जयसि जगद्राज्यमम्ब ते ललिते ॥७८८॥
धरणिर्मानवधात्री नीचैः पातालसप्तकं ललिते ।
उपरि व्याहतिमहिता लोकास्तावत्तवाश्रये सन्ति ॥७८९॥
धत्से त्रीनपि लोकान् देवानां मर्त्यपन्नगानां च ।
उत्सेधभाज एतानातनुषे त्वं नमोऽस्तु ते ललिते ॥७९०॥
धारयसि विश्वभारं चेमं जैत्रं तवास्ति ननु दैन्यम् ।
राजसतामसरूपा समरेरातीन् निवारयेस्त्वं हि ॥७९१॥
धिक्कतदानवसेने धुरि चान्यत्रापि वर्तसे त्वं हि ।
न्यक्कृतवैरीभघटी त्रिगुणातीते नमो नमो ललिते ॥७९२॥
धीमति धुरि सा नृत्यं मह्यं भवसि बोधदष्ट्यैव ।
तेन परापररूपा ख्यातासि त्वं नमोऽस्तु ते ललिते ॥७९३॥
धीशक्त्यगम्यरूपे ज्ञानानन्दामतात्मरूपधरे ।
लोकब्रह्माकारे ज्ञानसुवेद्ये नमोऽस्तु ते ललिते ॥७९४॥
धुरिते सुखिनो जगति सुखजीवब्रह्मणोस्समं च सताम् ।
भूतेषु चात्मनोस्त्वं नियतिस्तुभ्यं नमो नमो ललिते ॥७९५॥
धूर्जटिपत्नि नमस्ते धात्रि स्तवनप्रिये सदानन्दे ।
आर्जवमातनुषे त्वं भक्तजने ते नमो नमो ललिते ॥७९६॥
धतिधात्रि जीवजगतां षोडशसङ्ख्यागुणान्विता भवती ।
वर्णानां च कलानां ऋतवत्यास्ते गणो नमो ललिते ॥७९७॥
धेनुरसि सुमानसानां सा साध्वानन्दप्रदायिनी महिता ।
आनतसज्जनसुखदा साध्वी त्वं देवि ते नमो ललिते ॥७९८॥
धैर्यस्थैर्ययुतं मे कुरु हृदयं कामरूपिणी सततम् ।
पीतासवे सवेलामेतां पायाः क्षितिं नमो ललिते ॥७९९॥
धौताम्बरपरिधाने जातानन्दे कलानिधे सततम् ।
कार्याकार्यविदं मां कुर्यास्तुभ्यं नमो नमो ललिते ॥८००॥
नळिनाक्षि वेदमातः त्वत्तः काव्यप्रिया च वागुदिता ।
काव्यकलानां ज्ञानं जनय मयि त्वं नमोऽस्तु ते ललिते ॥८०१॥
नवरसमयमधुराक्षरपदरचनाशावती प्रसन्ना च ।
भवसि हि रसरूपा त्वं रसनारङ्गे रमस्व मम ललिते ॥८०२॥
नवरसनिधिरसि नादानन्दिनि सर्वत्र वर्तमानेम्ब ।
भवभवजनिमज्जनना त्वं मे शरणं नमोऽस्तु ते ललिते ॥८०३॥
नतगात्रि गोत्रकीर्तिं वर्धयसि त्वं निजाश्रितानां च ।
श्रुतिवचनगीयमाने पुष्पाङ्गी त्वं नमोऽस्तु ते ललिते ॥८०४॥
नरसुरकुलपरिपालिनि चारुचरित्रे पुरातनी देवि ।
सुरनरकिन्नरदानवधीराधारे नमोऽस्तु ते ललिते ॥८०५॥
नरहरिसरसिजसम्भवनिटिलाक्षानप्यसूत या देवी ।
सरसिजवदना पूज्या सा त्वं जगतां नमोऽस्तु ते ललिते ॥८०६॥
नरहृदयभाववीचीरवकारयसि त्वमेव सङ्कल्पम् ।
परमिह साफल्यं ते करुणामालम्बतेम्ब हे ललिते ॥८०७॥
नलिनदलायतनयने सुलभदयापाङ्गबन्धुरे ललिते ।
जलरुहनयनाराध्ये मातर्मां पारिते नमो देवि ॥८०८॥
न हि रविशशिताराभा विद्युद्दीप्तिश्च साम्यतामेति ।
यस्मादधिकस्तेजोराशिस्त्वं देवि ते नमो ललिते ॥८०९॥
नायास्यति तुलनां ते ज्योतिश्चात्येति यत्त्विषस्सर्वाः ।
यत् स्फुरति दहनराशेर्धामाधिकमस्ति तत्त्वमसि देवि ॥८१०॥
नारायणि नरकार्णवकारिणि परमाणुरूपिणि श्रीशे ।
तारय मां भवजलधेर्ललिते मातर्नमोस्तु ते सततम् ॥८११॥
नारायणमदनान्तकसरसिजभवधाम तेजसातीते ।
स्वीयेन सर्वमान्ये ब्रह्मानन्दे नमोऽस्तु ते ललिते ॥८१२॥
नानायुधहस्तापि त्वं भवपाशच्छिदं करे पाशम् ।
मानिनि धारयसीदं युक्तं ते भाति ते नमो ललिते ॥८१३॥
नानापापविधायकमज्ञानं पाशमीशरिपुधार्यम् ।
द्वयमपि नाशयसि त्वं सकृदपि नमतां नमोऽस्तु ते ललिते ॥८१४॥
नाशयसि मन्त्रशक्तीरखिलास्त्वं चाभिचारकैर्विहिताः ।
कितवानपि तान् सुजने कैतवकत्यं वितन्वतां ललिते ॥८१५॥
नानावताररूपा रूपातीतापि तान् गुणानेव ।
त्रीनादाय जगत्यै जयसि हि मातर्नमोस्तु ते ललिते ॥८१६॥
निरवद्यहृद्यचरिते निर्गुणरूपेम्बिके निराधारे ।
शरणागतपरिपालिनि दीनं मां पाहि ते नमो ललिते ॥८१७॥
नित्या त्वमसि न भुवनं तद्भुक्त्वा वाविनाशिपुष्पफला ।
तप्यसि देवानन्दे ब्रह्मणि हंसेन सारसे रमसे ॥८१८॥
नीरजगन्धिनि नित्यं मुनिमानसहंसि हंसकुलमुदिते ।
वारिदबन्दसवर्णे हेमच्छाये सिताङ्गि मां पाहि ॥८१९॥
नीतिपथसत्यमार्गे ब्रह्मपदं चानुवर्तमाना त्वम् ।
मातरसि सत्यरूपा गमयसि साधून् निजाध्वना सा त्वम् ॥८२०॥
नीतिमनुसरति लोको नीतिं सत्यं च पालयन्नेव ।
याति सुखमिह परत्र च नो चेन्मातस्त्वमेव दण्डयसे ॥८२१॥
नीलापाङ्गतरङ्गै रक्षितभुवने जगत्त्रयीजननि ।
बालारुणवरवसने रक्ष त्वं मां नमोऽस्तु ते ललिते ॥८२२॥
नुतयो भवन्ति वाचो मातस्ते तेन केनचिद्विधिना ।
इति मतमनुचिन्त्यामूर्ललिते वाचस्तव प्रियास्सन्तु ॥८२३॥
नुतिमेवार्हसि नित्यं सत्यं साध्वीत्वपालनं स्त्रीणाम् ।
इति ननु सत्यसि नाम्ना सत्यधना मातरात्मचरितेन ॥८२४॥
नुतिपरवचनानन्दिनि शतधतिशक्त्यैकशक्तिरेवासि ।
नुतशक्तशक्तिरूपे सति सत्यब्रह्मरूपिणी त्वमसि ॥८२५॥
नूतनजलधरकेशे नाशितभुवनार्तिसंभवक्लेशे ।
मातरुदारमनस्के पातय मयि दृष्टिमाततां कलये ॥८२६॥
नकुलं देवकुलं ते सन्ततिरेवाम्ब दैत्यकुलमेवम् ।
सकलकुलानां जननी त्वमसि हि तुभ्यं नमो नमो ललिते ॥८२७॥
नेह तवैकं कार्यं गुरुतरमस्त्यम्ब तेन बहुरूपा ।
भवसि जगत्त्रयजननी पदवी गुर्वी हि ते नमो ललिते ॥८२८॥
नैतिकपदनिरता ये ते त्वामर्चन्ति विधिवदेवाम्ब ।
ज्ञानधना अन्येषां हितमिह कुर्वन्ति ते प्रभावेण ॥८२९॥
नोदयसि बीजसारं तेनैवोदेति पादपस्तु फले ।
वेदमयि प्रविशसि त्वं भूतानि त्वं चतुर्विधानि चातनुषे ॥८३०॥
नौरसि भजतां सततं तारयितुं जननमरणवाराशिम् ।
सततं रमयसि तानिह चतुरे चण्डि त्वमेव मां पाहि ॥८३१॥
नन्दीशवन्दिताङ्घ्रे नियमायत्तां करोषि जगतीं तु ।
आज्ञासि तेन सर्वे निजनिजकार्ये रतास्सदा ललिते ॥८३२॥
नन्दयसि नन्दनानां हृदयानि त्वं त्वया नियुक्ता ये ।
कुर्वन्ति नैजकार्यं पवनः पवतेग्निरुज्वलत्यनिशम् ॥८३३॥
नन्दयतीन्दुः पवनः पवते भानुः प्रबोधयत्यखिलान् ।
आज्ञानुवर्तिनस्ते श्रुतिरेवात्र प्रमाणमम्ब ननु ॥८३४॥
परमाधारे जगतां जगदीश्वरि जननमरणभीतिहरे ।
प्रकटितविश्वाकारे मातस्तुभ्यं नमो नमो ललिते ॥८३५॥
परवति जगति दया ते दुरितहरे क्रौर्यमिव तु ते चित्रम् ।
जगदीश्वरि ते चरितं साधुं कुरु मां पुनीहि ते तनयम् ॥८३६॥
पवनान् पञ्चासूनपि पञ्चाप्यवसि त्वमिन्द्रियाण्यम्ब ।
विनियोजय तान्युचिते कार्ये त्वं नैजचेतनानम्ब ॥८३७॥
पवनानुकूलजीवाः काङ्क्षापेक्षोदिताक्षराण्येव ।
पीठानि तेम्ब तस्मात् पञ्चाशत्पीठरूपिणी त्वमसि ॥८३८॥
पवनादिशक्तयो वा हरिपुरहरपद्मजादिशक्तिर्वा ।
त्वां तु नियन्तुमशक्ता निर्लेपा त्वं विराजसे ललिते ॥८३९॥
पर्वतराजकुमारी त्वमसि हि जगदीश्वरी विविक्तस्था ।
चर्वितराजसतामसगर्वे शर्वे भवेह मयि सदया ॥८४०॥
पावनगात्रि मुमुक्षोर्मुक्तिं दत्सेसि वीरमाता त्वम् ।
अज्ञाननाशिनी त्वं रक्षसि वीरान् महीतले ललिते ॥८४१॥
पावय मामयि ललिते पावकजलवायुभूमयं भुवनम् ।
पावनमार्गे नियतं वियतस्त्वमेव भवसि ननु ॥८४२॥
पावितनतजनहृदये डाम्भिकजनगर्वचर्विणी त्वमसि ।
मुक्तिप्रदा मुकुन्दा योजय जनहृदयपङ्कजान्यम्ब ॥८४३॥
पावनतरपदरूपे निर्वाणानन्दरूपिणी ब्राह्मि ।
देवि दयमयि गिरिजे कातरतां मे निवारयेर्ललिते ॥८४४॥
पितपितपितजनमूले मूलप्रकृतेश्च मूलरूपा त्वम् ।
आकाराणां मौलिकविग्रहरूपासि तत्त्वतो ललिते ॥८४५॥
पितवनचरशिवदयिते भावानामप्यनेकरूपाणाम् ।
बोधवति भावगम्ये बहुभावस्थे नमोऽस्तु ते ललिते ॥८४६॥
पीननितम्बिनि पीनस्तनभारानम्रचपलतनुवल्ली ।
पीतासवारुणाक्षि क्षरमपि जगदवसि करुणया ललिते ॥८४७॥
पुण्यवति पुण्यदात्री त्वमसि हि भवरोगनाशिनी जननी ।
भवचक्रचालयित्री चक्रेश्वरि चक्रधारिणी त्वमसि ॥८४८॥
पुण्यविवर्धकवेदच्छन्दस्सारान्विते कवीन्द्रनुते ।
पुण्यविवर्धिनि नमतां मातस्तुभ्यं नमो नमो ललिते ॥८४९॥
पूताम्नायमतानां विविधविचारान् विविच्य बोधयताम् ।
शास्त्राणामपि सारस्त्वं तावद्भवसि देवि कल्याणि ॥८५०॥
पृथगवनसारदानाद् मन्त्राः पात्रैस्तु गोपनीयासि ।
तद्वस्तुरूपिणी त्वं गीताचार्यादिभिश्च गीतासि ॥८५१॥
पेलवताङ्गे कार्श्यं तव तु वलग्ने स्तनद्वये जघने ।
विपुलत्वमतिमनोज्ञं परिणाहस्ते मनोहरा त्वमसि ॥८५२॥
पैतकसम्पदिवान्ते सुकतवतां कल्पवल्लरी त्वमसि ।
परमोदारा भवसि हि वृद्धिमतीहाम्ब देवि हे ललिते ॥८५३॥
पोतेषु पोतवाहानमितश्रीकीर्तिसौख्यसम्पन्ना ।
अन्यानपि तन्वाना ललिते चोद्दामवैभवा जयसि ॥८५४॥
पौर्णिमशशधरवदने नानावर्णस्वरूपिणी त्वमसि ।
अरुणश्यामलधवलप्रीतिमती त्वं विराजसे ललिते ॥८५५॥
पङ्कजषट्कविहारिणि जन्मजरामरणतप्तलोकानाम् ।
विश्रान्तिदायिनी त्वं शाश्वतसुखदासि वन्दिनां ललिते ॥८५६॥
पाण्डित्यवेद्यरूपे श्रुत्यन्तोद्घुष्टतापसा भोग्ये ।
पाण्डित्यदात्रि भजतां मातस्तुभ्यं नमो नमो ललिते ॥८५७॥
पिण्डीकृतच्छटान्वितभुवने पृथगात्मतातनुदप्ते ।
शान्तिमती च कला त्वं खप्रणवाधःस्थितासि गुहजननी ॥८५८॥
फलभारनतलताङ्गी मातङ्गी त्वं मदालसा नित्यम् ।
फलदलचरुसुमपूजा सात्त्विकरूपा तु रोचते तुभ्यम् ॥८५९॥
फलिनीलताफलान्विततरुरुल्लसति यथाम्ब त्वं लससि ।
अलघुकपामयि मयि ते करुणास्तां देवि ते नमो ललिते ॥८६०॥
फाले चन्द्रकलापे शोभावृद्धिं करोति गम्भीरे ।
मौलीन्दुरिन्दुशोभां वर्धयति त्वं प्रसीद मयि ललिते ॥८६१॥
बत बत गगनान्तःस्था गम्भीरा गर्वितासि सा नित्यम् ।
अहमिति सकलं वेत्सि त्वं ननु सर्वत्र पूर्णरूपतया ॥८६२॥
बलवत्येव कला ते नादो बिन्दुस्ततोधिकस्तेन ।
गानप्रियासि सा त्वं प्रणवाकारा हि सन्ततं ललिते ॥८६३॥
बालादिशक्तिसेनापालितभुवने मनोहरध्याने ।
लीलामयि मयि करुणां सततं कुरु देवि चञ्चलापाङ्गी ॥८६४॥
बाढं प्रकाशमाने कैतवरहितेम्ब कल्पनारहिते ।
गूढार्थमयि मयि त्वं देवि दयेथाः सदैव दयनीये ॥८६५॥
बालेव भासमाना त्वं कान्ता पापहारिणी भवसि ।
लीलाकल्पितभुवनेश्वरि भुवनमङ्गले ललिते ॥८६६॥
बालाराध्ये तपसा युक्ते बालेन्दुभासिते ललिते ।
लीलाताण्डवपण्डितदेहार्धं प्राप्तवत्यपि त्वमसि ॥८६७॥
बाधा अतीत्य सकला बाधाक्रान्तान् विलोक्य यजमानान् ।
आधिविमुक्तान् कुरुषे त्वमिदं भुवनं च पालयेरेव ॥८६८॥
बाधावारिणि जगतां क्षेमङ्करि कारणेभ्य उन्मुक्ते ।
साधुजनगीयमाने सततं मामम्ब पालयेरेव ॥८६९॥
बुधविबुधवन्द्यमाने कामरतिप्रीतमानसे सदये ।
कनकाञ्चितताटङ्के मातर्नतिरस्तु ते सुरैर्गिते ॥८७०॥
बोधयसि लोकयात्रां दाक्षिण्यं त्यागशीलतां सहजाम् ।
भीतिमिह कति विदुर्वा जाने नाहं प्रबोध मयि ललिते ॥८७१॥
बोधविहीना बाला वयमिह बोधप्रदीपदानेन ।
अस्मानुद्धर लीलाविग्रहधारिणि मयि प्रसीद शिवे ॥८७२॥
बोधकरूपिणि जगतां जननमतिद्वन्द्वशृङ्खलारहिते ।
नाशातीते मातः त्वं नः कामं प्रदेहि हे ललिते ॥८७३॥
बन्धूककुसुमशोभे शोभेथास्स्वाङ्गसंपदस्सततम् ।
सौन्दर्यसंपदेका रमयति जगतीं तवाम्ब हे ललिते ॥८७४॥
बन्धनशतमिह भुवने तैस्त्वमखिलानिहैव बन्धयसि ।
सिन्धौ संसाराख्ये घातयसि त्वं कुतो न जानेम्ब ॥८७५॥
भजतामनन्तसुखदा वाजिवरूथादिसम्पदा कलिता ।
भुजनिहितलोकभारा राजीवाक्षि त्वमेव ननु ललिते ॥८७६॥
भजतामपि सुखदा त्वं सुजनानां च प्रसीदसीहैव ।
विजयत एव समाधिः समतारूपस्त्वयीह हे देवि ॥८७७॥
भक्तिप्रियासि सा त्वं प्रीतिस्ते देवि देवताख्याता ।
युक्तिकतपूजनानां पूजा ते रोचते सदा ललिते ॥८७८॥
भयसाध्वसरहितानां स्वाचारेण निजेच्छया चरताम् ।
जयदा सुखदा न भवसि नीचानां दुष्टनाशिनी त्वमसि ॥८७९॥
भवमुक्तिमिच्छतां तु श्रेयोहेतुर्हि कर्मवेदमतम् ।
देवर्षीपितगणानां करुणामादाय भवति मनुजो हि ॥८८०॥
भवति जगत्त्रयमेवं वेदत्रयमिष्टकार्यसिद्धिकृते ।
सन्ध्यात्रयमनलानां त्रयमिति देवि प्रसिद्धमिह ललिते ॥८८१॥
भवसागरपतितानां त्रयमुद्धरणीयमापदां भवति ।
भवसि त्रयी त्रिवर्गा सर्वाधारा त्वमेव ननु ललिते ॥८८२॥
भवसि त्रिस्थानस्था देवि त्वं त्रिपुरपालिनी चासि ।
भवति ब्रह्म तु मूलं तत्त्वं तत्त्वं तवेदमेव ननु ॥८८३॥
भवसि हि निरामया त्वं भुवनं कुरुषे निरामयं सततं ।
भवति न कोप्याधारो भवभवने ते त्वदर्थमपि ललिते ॥८८४॥
भवसि भुवनावलम्बो लम्बोदरकार्तिकेयजनयित्री ।
भुवनत्रयपरिपालिनि कम्बुग्रीवा त्वमेव मे जननी ॥८८५॥
भवसि हि रममाणा त्वं ज्ञानानन्दस्वरूपिणी ज्ञाने ।
स्वीये स्वस्मिन्नेवं स्वयमिव विभ्राजसे श्रिया ललिते ॥८८६॥
भवशोकनाशिनी त्वं सजसि सुधासारमादरेणाम्ब ।
पालयसि तेन भुवनं भुवनम्भरि मे भवेः कपालम्बा ॥८८७॥
भयमयजनिमतिजलधौ मग्नानामवनपण्डिता त्वमसि ।
भवदावकवलितानामार्तानां पालिनी त्वमेवाम्ब ॥८८८॥
भवपङ्कराशिमग्नानुद्धर्तुं त्वं हि पण्डिता भवसि ।
भवपथगत्या लग्नानुधृत्य त्वं निवारयेरार्तीः ॥८८९॥
भवपाशयन्त्रितानां भुवि बहवस्सन्ति हितकराश्च मखाः ।
भवभयनाशिनि ललिते भवसि हि यागप्रिया त्वमेवेह ॥८९०॥
भवसि त्वमम्ब ललिते दैवीसम्पत्प्रदा च यागकरी ।
भवसि च रुद्राणी त्वं भक्तानां सकलसौख्यदानकरी ॥८९१॥
भवसि च यजमाना त्वं भुवनानामेकनायिका च त्वम् ।
यजमानजीवशक्तिस्त्वमसि हि लोकपालिनी च त्वम् ॥८९२॥
भवसि जगत्त्रयमूढ्वा धर्माधर्मौ त्वमेव धारयसि ।
धर्मा भवन्त्यनेके धर्माधारे धराधरोद्भूते ॥८९३॥
भवसुखरूपिणि ललिते दहनः पवनोपि विधिहरिप्रमुखाः ।
अमरा धनमिच्छन्ति त्वं धनराशेरधीश्वरी भवसि ॥८९४॥
भवसि धनधान्यसम्पद्वृद्धिकरी त्वं समस्तसुखदात्री ।
भुवनप्राणप्राणे प्राणाधारा शिवस्य भर्तुरपि ॥८९५॥
भवति हि जातिः प्रथमं पश्चाद्वर्णा भवन्ति तेषु च ते ।
विप्राः प्रथमे ललिते सा त्वं विप्रप्रियाऽसि गुहजननि ॥८९६॥
भवसि ननु विप्ररूपा विप्रैः संसेविता च नियमेन ।
विप्रप्रियमातिष्ठेस्त्वं तावद्देवि धर्ममर्मज्ञे ॥८९७॥
भवभवसम्भवजन्तुभ्रमणं कारयसि मायया बध्वा ।
सृष्टिस्थितिलययातायातानां त्वं तु हेतुरेवासि ॥८९८॥
भगवति विश्वग्रासे ग्रासे ग्रासे प्रमोदविकचाक्षी ।
जगदीश्वरि शिवमाये कज्जलवर्णे त्वमम्ब मां पाहि ॥८९९॥
भगवति विद्रुमवर्णे जगदानन्दप्रदेम्ब शुभवर्णे ।
अगणितमहिमापूर्णे नानाभूषाप्रियेम्ब मां पाहि ॥९००॥
भगवति वैष्णवि कमले करधतकमलेम्ब सात्त्विकी माये ।
जगदवनकोविदे त्वां वन्दे मां पाहि हेमसमकाये ॥९०१॥
भगवति विश्वव्यापिनि नगधरविष्णुस्वरूपिणी त्वमसि ।
जगदागमलीलानुगताकारे नमोम्ब ते ललिते ॥९०२॥
भासारुणसितकालाकारे मूर्तित्रयान्विते वरदे ।
हासद्युतिविकचास्ये श्रीले मां पाहि कुन्ददति ललिते ॥९०३॥
भानुसुधाकरनयने जननविहीने जनार्दनाधीने ।
मानवतीडितरूपे जननि रमे पाहि मां दयाधीने ॥९०४॥
भाग्यान्वितेम्ब सृष्टेर्मूलस्थानायिते श्रीया कलिते ।
बुद्धिब्रह्माकारे कूटस्थे ते नमो नमो ललिते ॥९०५॥
भाग्यप्रदेम्ब मायायोग्यगुणाकारवर्णवृत्तिधरे ।
विश्वाकारे धीरे विश्वेश्वरि ते नमोऽस्तु ते ललिते ॥९०६॥
भारतभाग्यविधात्री वीरपरीता त्वचलपतिपुत्री ।
वीरसभा ते सततं माता रोचेत रुचिरतरगात्रि ॥९०७॥
भाग्यायत्तार्चा ते भक्तायत्ता त्वमम्ब भवसि ननु ।
भाग्यं भक्तिं च विना कथमर्चेयं प्रसीद मयि जननि ॥९०८॥
भाग्यप्रदापि सा त्वं निष्कामा सुकृतदुष्कृतै रहिता ।
जगतीति ते जगन्नो भवति भवायैव ते नमो ललिते ॥९०९॥
भावे स्थितासि या त्वं जन्तूनां भवसि भावभेदज्ञा ।
सा वेदशास्त्रगम्या गानज्ञे देवि नाट्यतत्त्वज्ञे ॥९१०॥
भारति गानरसज्ञे नादाकारे द्विधासि नृत्यविधौ ।
वरततमुख्यैर्वाद्यैरुल्लसिते देवगायकैः कलिते ॥९११॥
भारति नादमयी त्वं हृदये नादोप्यनाहतो भवति ।
बहिराहतनादस्त्वं ललिते नादस्वरूपिणी त्वमसि ॥९१२॥
भारत्यनाहताख्यो नादो हृदये त्वमेव नादमयी ।
चारुतरनादरूपा दृश्यश्रव्यात्मना त्वमेवासि ॥९१३॥
भावो देहे सोऽहं मतिरित्यज्ञानसम्भवा त्वं तु ।
भौतिकमस्थिरमिति सद्भावं बोधयसि ते नमो ललिते ॥९१४॥
भिदुरं विपदचलानां त्वमसि च विपदो जहि त्वमस्य मम ।
शक्ता द्रष्टुमसि त्वं प्रज्ञादृष्ट्या त्वमम्ब मां पाहि ॥९१५॥
भिद्यदरविन्दगर्भे रम्ये या भाति कर्णिका सेव ।
मूले सहस्रपत्रे बिन्दुस्सोहं त्वमेव ननु लससि ॥९१६॥
भीषणभवदावघने सूक्ष्मस्थूलाख्यतत्त्वनिर्मुक्ते ।
भूषणभूषिणि कोकिलवाणि श्रीवाणि ते नमो ललिते ॥९१७॥
भुवनमवतीर्य जेत्री भावाधीना स्वकीयमूलमपि ।
विस्मृत्य पातुकाः स्युस्तत्त्वमयि त्वं समुद्धरेरस्मान् ॥९१८॥
भुवनाधीश्वरि तत्त्वं पफभावार्थप्रबोधिनी त्वमसि ।
ज्ञेयं ब्रह्म च सा त्वं विप्रज्ञेया त्वमेव ननु ललिते ॥९१९॥
भुवने वेदाः स्तवनं कर्मज्ञानं च गानविद्यां च ।
प्राहुस्त्रिविधाः साम्नां गानं प्रियमम्ब ते सतां भवति ॥९२०॥
भुवनत्रयपरिपालिनि माता पीयूषरूपिणी भवसि ।
ब्रह्मस्वरूपिणी त्वं रमय मनो मे नमोऽस्तु ते ललिते ॥९२१॥
भूतेशवल्लभा त्वं भूतानां पालने रता सततम् ।
भौतिककष्टमशेषं शमय त्वं मे कुलोकसञ्जातम् ॥९२२॥
भूतानामसि माता विश्वेशप्रेयसी त्वमेवासि ।
भूतानुषङ्गिणी त्वं त्वामहमीडे नमोऽस्तु ते ललिते ॥९२३॥
भेषजमसि हि भवामयभाजां संसारतरणनौका त्वम् ।
दोषं मर्षय मातर्मामकमम्भोजलोचने ललिते ॥९२४॥
भैरवि दक्षिणमार्गे वामपथे वा त्वमेव भवसि ननु ।
सव्यापसव्यमार्गद्वयमप्याश्रित्य राजसे सततम् ॥९२५॥
भोगीशभूषजाये सर्वापन्नाशकारिणी त्वमसि ।
योगीशयोगगम्ये स्वस्था नित्यं त्वमेव ननु भवसि ॥९२६॥
भोगीशकेशपाशे प्रेममयी त्वं सदाश्रया भवसि ।
प्रेमाम्ब तेऽस्तु नित्यं मयि ते नित्यं त्वमेव मां पाहि ॥९२७॥
भौतिकभोगविरक्ते ब्रह्मणि परमे मुदा सदासक्ते ।
निजभुवनावनासक्ते मातर्मां पाहि देवि शिवशक्ते ॥९२८॥
भम्भरवेणि शुभाङ्गि त्वं भवतापं निवारयेः कृपया ।
अम्भोरुहदलनयने शुम्भमदघ्नि त्वमम्ब मां पाहि ॥९२९॥
भञ्जय मम हृदयारीन् रञ्जय हृदयं प्रदेहि मम शान्तिम् ।
अञ्जलिराबद्धस्ते मातर्मां पाहि ते नमो ललिते ॥९३०॥
मनसा स्मरामि देवीं जनय ज्ञानं मयि त्वमेव वरम् ।
सोऽहं भावेनार्यैः सेवितचरणे नमोऽस्तु ते ललिते ॥९३१॥
महितं चैतन्यं ते दिव्यार्घ्यं भवति दिव्यकुसुमं च ।
नित्योदयान्विता त्वं भवसि हि जननि त्वमेव मे शरणम् ॥९३२॥
मार्ताण्डारुणमूर्ते मूर्तीभूताश्रितामितप्रीते ।
जातानेतानवतादस्मान् भवानि हरदयिते ॥९३३॥
मातस्त्वमुत्तराशासेव्या साध्यासि बोधमार्गेण ।
ख्याताम्नायविधानैराराध्या च त्वमेव भवसि ननु ॥९३४॥
मानसमलमोचयिता ललितापाङ्गस्तवाम्ब मनुजानाम् ।
सा त्वं जगदाकारा भवसि ब्रह्मासि पाहि मामेनम् ॥९३५॥
मितभुवनेम्ब भवाब्धेस्तरणं कैवल्यमेव ननु धत्से ।
यदि दयसे त्वमनर्घां कुरु करुणां ते शिवेम्ब मयि वत्से ॥९३६॥
मीनाक्षि नादरूपे श्रुतिवचनैरेव मोदमानाम्बा ।
क्लेशभयनाशिनी त्वं नुतिलक्ष्या भवसि जगदम्ब ॥९३७॥
मुक्तिप्रदेम्ब ललिते नुतिसरितस्त्वां प्रयान्ति सिन्धुमिव ।
नुतिपरवचसाराध्ये मय्यस्तां ते कृपा सदा देवि ॥९३८॥
मुखरीकृतकलवीणे श्रुतिततिसंस्तूयमाननिजविभवे ।
अखिलाम्नायविदर्चामाददती त्वं विराजसे ललिते ॥९३९॥
मूर्खं निपुणं कुरुते करुणापाङ्गस्तवाम्ब हे ललिते ।
मामपि करुणापाङ्गैर्निपुणं कुरु मे त्वमेव ननु शरणम् ॥९४०॥
मृदुहृदयासि सदा त्वं मातरुदारासि नायिका जगताम् ।
विदुरखिला विबुधास्त्वां सदयं मामम्ब पालयेस्सततम् ॥९४१॥
मेधाविनी त्वमेवं मेधाविनमम्ब कुरु दयादृष्ट्या ।
बोधय बोधममोघं पालय ललिते कृपासुधावृष्ट्या ॥९४२॥
मैत्रादिवासनानां सत्यं सुलभं भवत्यशेषाणाम् ।
मङ्गलमूर्ते ललिते शृणु कृपया मे स्तवात्मिकां वाणीम् ॥९४३॥
मोदयतु मानसं ते मातर्जगतां च मामकीर्वाणीः ।
सादरमाकर्णय ते नुतिमेतां मे त्वमम्ब कल्याणी ॥९४४॥
मौढ्यं वारय दार्ढ्यं वर्धय वचनेषु मम दयाभरिते ।
आढ्यं सुरसम्पत्या कुरु मामम्बेष्टसम्पदा कलिता ॥९४५॥
मञ्जुलगात्रि सवित्री विश्वेशा त्वं च सकलजगतोस्य ।
धात्री भवसि हि तन्मां पालय दोषान् ममापि निर्वास्य ॥९४६॥
अञ्जलिरयि ते रचितो मां पायाः साधुहत्सरोहंसि ॥९४७॥
मञ्जुलवदनसरोजे ब्रह्मानन्दात्मिकेम्ब सुरमान्ये ।
सङ्कल्परूपिणी त्वं जयसि सदा हंसगामिनी ललिते ॥९४८॥
मञ्जुलमम्बरमम्बरव्योम भवत्केीशपाश एवास्ते ।
मञ्जुविमानस्था त्वं जयसि सुरस्तोमवन्दिता जगति ॥९४९॥
यक्षेशमित्रजाये माधुर्यं नास्ति मे गले गातुम् ।
दक्षो नाहं स्तोतुं कथमहमाराधयामि वा भवतीम् ॥९५०॥
यमजयिनि यामिनीशप्रोल्लसदास्ये दयासुधाजलधे ।
मर्षय मम यदि दोषा मातः पायाः सदा त्वमेवेमम् ॥९५१॥
यामवतीशसमानं भवदाननमम्ब हरतु मम पापम् ।
व्योमचरवरविमाने सञ्चरसि त्वं हितं विधातुमिह ॥९५२॥
याथार्थ्यमम्ब विश्वं रक्षसि या त्वं तदेनमपि सा त्वम् ।
मामवसि चेति मन्ये नम इत्यम्ब ब्रवीमि ते मनसा ॥९५३॥
याचे तथापि सोऽहं वाचा मनसा सदाम्बिकां भवतीम् ।
वाचामगोचरा त्वं यद्भद्रं मे तदेव वितरेति ॥९५४॥
यागाः पञ्च च पञ्च त्यागायत्ता हि पञ्च वेदोक्ताः ।
पञ्चाग्निहोत्रमुख्याः पाराध्याश्चापि सन्ति ननु सुखदाः ॥९५५॥
यागेषु चाग्निहोत्रप्रमुखाः सन्त्येव बहुविधा यज्ञाः ।
इष्टविशेषतया ते रोचेतेयं स्तुतिस्तु मख एव ॥९५६॥
योगाधीश्वरि शङ्करि रागद्वेषादिभावनारहिते ।
भो गगनाम्बुसमीरानलपञ्चकमञ्चकशायिनी त्वमसि ॥९५७॥
योगे यागे ध्येया ब्रह्मानन्दात्मिका त्वमेवैका ।
पञ्चानामसि नाथा भूतानां भूतधात्रि हे ललिते ॥९५८॥
यौगिकवैदिकपूजाविविधास्सन्ति प्रकाममुपचाराः ।
भौतिकतन्मात्रकतापूजा प्रीत्यै भवेत्तवैकाम्ब ॥९५९॥
यन्त्राधारा भवसि त्वमपि सुवर्णाक्षराङ्कमयमेव ।
यन्त्रमनेकविधं ते मन्त्राङ्कं देवि भवति ननु ललिते ॥९६०॥
रचयसि चित्रमयं त्वं भुवनं मायाख्यकुञ्चमादाय ।
शाश्वति शाश्वतसुखदे मायासाम्राज्ञि ते नमो ललिते ॥९६१॥
रमयसि शम्भुमदभ्रं कमनीयाकारविभ्रमैरम्ब ।
क्षमयार्चितासि मातः शाम्भवि तुभ्यं नमः क्षमाधारे ॥९६२॥
रजसा सजसि हि भुवनं रक्षसि भूतानि देवि सत्त्वेन ।
अजहरिरूपधरा त्वं भवसि धराकारधारिणी ललिते ॥९६३॥
रथमकरोत् त्रिपुरेभ्यः पृथिवीं यस्ते पतिः शिवो ललिताम् ।
कथमवसि त्वमसूस्त्वं शिवमावोढुं किमम्ब न त्रातुम् ॥९६४॥
राजा भूमिधराणां तेजोराशिः सुतासि ननु तस्य ।
राजीवाक्षि दयामयि मातर्मां पाहि सन्ततं ललिते ॥९६५॥
राक्षसकोटिविमर्दिनि सकलैश्वर्यप्रदायिनी त्वमसि ।
साक्षिण्यपि ननु जगतां श्रीकरि मातर्नमोऽस्तु ते ललिते ॥९६६॥
रिपुदमनमात्मशक्त्या निपुणा समरे विधाय कृतकृत्या ।
सा त्वमसि देवकार्ये धर्मिण्यार्ये त्वमेव ननु ललिते ॥९६७॥
रीतिरवेद्या ननु ते निपुणैरपि धर्मवर्धिनी त्वमसि ।
मातर्लोकातीते विपदः सर्वा निवारय त्वं मे ॥९६८॥
रुद्रप्रियकरि रुद्रे भद्रमुखि त्वं मयि प्रसीद शिवे ।
भद्रं कुरु कल्याणि त्वं विनयो मे कृतोऽयमेव ननु ॥९६९॥
रूक्षासि रिपुषु नित्यं वृद्धिश्चासीन्दुमण्डले सुजने ।
पक्षीव हृदयभावे साक्षिण्यसि मे निधेहि मां सुजने ॥९७०॥
रेखाभिरञ्चिताङ्घ्रे श्रीकरि भद्राभिरागरालोके ।
लेखालिगीयमाने काकलिकाढ्ये नमोऽस्तु ते ललिते ॥९७१॥
रूपयसि रिपुषु पूर्वं भ्रूचापं तदनु करधतं चापम् ।
रूपवति खलविदूरे सर्वातीते शमात्मिके पाहि ॥९७२॥
रौद्रं रौद्रे वदनं भद्रं भद्रेषु तावकं रुचिरम् ।
भद्रमिह भद्ररूपे मयि कुरु नित्यं त्वमेव धीरत्वम् ॥९७३॥
रञ्जय सुजनमनांसि तु भञ्जय दनुजाधमानुदारेम्ब ।
रञ्जकसुजनकदम्बे भञ्जय पापानि मे सकादम्बे ॥९७४॥
रम्भोरु मङ्गळाङ्गि प्रणताभीष्टप्रदेम्ब मुनिगीते ।
सुखकरि सदये हृदये मातर्मातङ्गि ते नमो ललिते ॥९७५॥
ललितारविन्दहस्ते सुमुखी त्वं भवसि पूजया प्रीता ।
ललिते सुवासिनीनां साध्वी त्वं भवसि भवमयि प्रीता ॥९७६॥
लास्यप्रियासि लीलालास्यप्रियहृदयवल्लभा त्वमसि ।
आशोभमानमूर्तिस्तर्पणजलबिन्दुमात्रतुष्टासि ॥९७७॥
लास्यं तनोति वदने हास्यं ते लासयति च बुधहृदयम् ।
भवसि च विशुद्धहृदया जय ललिते शक्रपूजिता सदया ॥९७८॥
लिपिशतभाषारूपे रूपातीते बहुविधाकारे ।
मधुरामतरसवर्षिणि मातर्मां पाहि सज्जनाधारे ॥९७९॥
लीनासि जगति जगतीं कुक्षौ निक्षिप्य रक्षसि प्रीता ।
लीलारविन्दभङ्गी नादानुमुदितेऽस्तु वन्दनं ललिते ॥९८०॥
लुभ्यति जगती तुभ्यं सभ्यानिभ्यान् करोषि यदि दयसे ।
अभ्युदयमिच्छतेम्ब त्वं मे यच्छायतिं शुभं सदये ॥९८१॥
लेखाराधितपादे लावण्यमयी च पूर्वजे जगताम् ।
जननादाश्रितसुखदा त्रिपुराम्बा त्वं पुनीहि मां ललिते ॥९८२॥
लोकालोकनशीले दशमुद्राराधिते नमो ललिते ।
शोकविनाशिनि नमतां वन्दे त्वामम्ब किन्नरैर्गीते ॥९८३॥
लौल्यमतिलङ्घनीयं भवति यदा पासि नस्तदा सदया ।
मानसलौल्यविहीनो वाचां निचयेन तोषयाम्यम्ब ॥९८४॥
लम्बोदरफणिचक्रे द्वादशशतपत्रवासिनी त्वमसि ।
दशविधमुद्रारूपा यमिजनवश्या च ते नमो ललिते ॥९८५॥
शतपत्रपत्रनेत्रे करुणापूरेण बन्धुरापाङ्गि ।
दशमुद्रार्चितपादे ध्यानाधीने त्वमेव मां पाहि ॥९८६॥
शशिधरकमलजमुरहरवशगा मुद्रार्चिता भवेदेव ।
किमुत तथार्चनविदुषां विषये मामम्ब पालयेरेव ॥९८७॥
शशिमुखि सम्भवसि त्वं मुद्रासुज्ञानमुद्रिकारूपा ।
ज्ञानेनैव च गम्या ज्ञानज्ञेयात्मिका त्वमेवासि ॥९८८॥
शारदशशिसितहासे दशशतदलकमलगामिपथबोध्री ।
भवसि ननु मूलमुद्रा मुद्राखण्डत्रयेश्वरी ललिते ॥९८९॥
शितिकण्ठशक्तिरूपे मृत्योर्दर्पोऽपि नाशितः शक्त्या ।
तव देवि गुणवती त्वं ललिते यासि त्रिकोणगुणसाम्यम् ॥९९०॥
शीतापाङ्गि विशुद्धे पूर्णचरित्रे शिवप्रिये ललिते ।
वाञ्छितफलदात्री त्वं कुण्डलिनी त्वं पुनीहि मां सततम् ॥९९१॥
शुद्धाभ्यासस्तुतिभिर्वेद्ये ध्यानेन सेवया भजताम् ।
षड्विधतत्त्वाद्ध्यानं तीर्त्वा बिन्दुस्थितासि सा त्वं हि ॥९९२॥
शूलिनि करुणामूर्ते षट्चक्राणि त्वदीयपीठानि ।
शेषे सहस्रपत्रे साधकसुखदात्री ते नमो ललिते ॥९९३॥
शोकामयहरकरुणापूर्णापाङ्गे शुचिस्मिते ललिते ।
शोकमशेषं मामकमपहर मां पाहि ते नमो विहितम् ॥९९४॥
षण्मुखगणपतिजननी त्वं सर्वानवसि करुणया सततम् ।
शरवणभवनुतसुगुणे शर्वाणी त्वं सदैव मां पाहि ॥९९५॥
षड्जादिनादमोदिनि षड्गुणसम्पत्तिसंयुते ललिते ।
अज्ञानतिमिरदीपा त्वमसि हि जगतां नस्सुखं देहि ॥९९६॥
षट्चक्रचारिणी त्वं ज्ञानानन्दप्रदायिनी नमताम् ।
कुण्डलिनीति त्वमसि हि नित्याराध्या च तन्मुखाद्भवसि ॥९९७॥
षाड्गुण्यपूर्णचित्ते चक्रान्तर्वासिनी तदाधारा ।
जगतामसि सुखदात्री जगदीश्वरि पाहि मां कपापाङ्गैः ॥९९८॥
॥९९९॥ हा श्लोक सापडत नाही. मिळाल्यास इथे देला जाईल.
सात्त्विकराजसतामसपूजा आदाय तत्समानफलम् ।
दत्त्वा रक्षसि बालान् सात्त्विकपूजा तव प्रियैव ननु ॥१०००॥
साधयसि कार्यजातं स्वनिदेशादेव शासनं कोऽपि ।
नोल्लङ्घयेत् त्वमम्ब श्रीचक्रागारवासिनी भवसि ॥१००१॥
सारस्वतसाम्राज्ये नादविचारादेव मोदमानासि ।
सारस्वतविधिसुलभां नुतिशक्तिं मे प्रदेहि हे ललिते ॥१००२॥
सारसगामिनि ललिते लीलाक्षणमात्रपालनख्याते ।
वाहय करुणास्रोतः श्वासोच्छ्वासेषु देहिनां ललिते ॥१००३॥
सिद्धिप्रदेम्ब सीमाकारिणि जगतां च सुमुखि सूक्ष्मतनो ।
सृष्टिकरि देवतानां सोमसमेता सौख्यदास्व मयि नित्यम् ॥१००४॥
हरहारवेणि ललिते हितकरि सर्वोत्तमेषु सुतभावे ।
हुतवहसम्भवमाता त्वमसि हि तुभ्यं नमोऽस्तु हे ललिते ॥१००५॥
हेमाङ्गदाङ्गशोभातोषितभुवनत्रये महादेवि ।
शिवशक्त्यभेदरूपे विश्वाधारेम्ब पाहि मां ललिते ॥१००६॥
क्षतिरिह यदि नुतिकुसुमस्रजि सोढ्वा धारय त्वमेवाम्ब ।
कण्ठे श्रीकण्ठेन त्वमपि रमस्वाम्ब रमय मां च हरम् ॥१००७॥
ज्ञानधनपूज्यमाने ज्ञानानन्दे सदा शिवानन्दे ।
मतिकुसुमपालके ते प्रीतिं तनुतामियं कृतिर्ललिते ॥१००८॥
इति श्री वेङ्कटरमणभट्टः विरचिता आर्यासाहस्री समाप्ता ।
N/A
References : N/A
Last Updated : November 07, 2022
TOP