खण्डः १ (ध्यानम्)
शशिशकलाञ्चितकुञ्चितपिङ्गजटातडिदुज्ज्वलमूर्धतलं
फालविलोचनमञ्जनमञ्जुलनीलगलं शितशूलधरम् ।
फणिगणभूषणमाकलये तव भीममिदं शिवमङ्गमहं
श्वेतवनालय, कालविमर्दन, भक्तजनार्दन, विश्वपते ॥१॥
खण्डः २
॥पञ्चाक्षरवर्णमालास्तोत्रम्॥
ओङ्कारशुक्तिपुटमुक्तामणिंशिवमहंकारभञ्जनकरं
ह्रीङ्कारतत्त्वललिलतार्धं भजामि हृदि सङ्काशमानवपुषम् ।
त्वाङ्कालखण्डन,
भुजगेन्द्रमण्डन,
वृषाङ्कात्मकं शिखिशिखा-
सङ्काशपिङ्गलजटाजूटसङ्गतशशाङ्काभिरामशिरसम् ॥१॥
नक्तन्दिवं भयदचिन्तातुरं समनुरक्तं दुरन्तविषये
रिक्तं गुणैः सुजनकाम्यैर्मनो मम तु तिक्तं च पातकशतैः ।
व्यक्तं भवत्युपहरामि,
प्रसीद कुरु भक्तं विषाशन,
विभो,
मुक्तं भयाद्भवतु सत्कर्मनिर्वहणशक्तं च जीवितमिदम् ॥२॥
मर्त्यं भवच्चरणपाथोजसेविनममर्त्यं करोषि भगवन्,;
सत्यं ममास्तु रतिरेतद्भवद्भजनकृत्यं विधातुमुचितम् ।
अत्यन्तपावननिजोपान्तवासपर,
मृत्युञ्जयाखिलपते,
श्रुत्यन्तगोचरमहातत्त्वरूप,
मयि नित्यं प्रसीदतु भवान् ॥३॥
शिञ्जानपादकटकानन्दनृत्तरतकञ्जाभिरामचरणम्
त्वञ्जाह्नवीधवलमालासमुल्लसनसञ्जातशोभमुकुटम् ।
भञ्जानमन्तकमनङ्गान्तकं सुकृतपुञ्जाभिगम्यममलम्
सञ्जल्पितस्तुतिविरिञ्चादिसेव्यमिहरञ्जद्रसं हृदि भजे ॥४॥
वाताशनाकलितभूषागणं भसितपूताङ्गरागमहितम्
शीतांशुभास्करहुताशाक्षमुल्लसितभूतावलीपरिगतम् ।
हे ताण्डवप्रिय,
चिदानन्दरूप, परिभूतान्तकं तववपु-
र्भीताभयप्रदमुपासे,
प्रसीद मयि जातानुकम्पमनिशम् ॥५॥
यत्र प्रभो, परमभक्तो मृकण्डमुनिपुत्रस्तवाङ्घ्रिभजना-
दत्रस्तभावमिह लेभे यमादपि परित्रासिताखिलजनात् ।
तत्र स्वधामनि परक्रोडनामनि चरित्रप्रशस्तिमहिते
क्षेत्रेविभासि जगतां भाग्यराशिरतिमात्रं, प्रसीद भगवन् ॥६॥
खण्डः ३
महादेव, स्वामिन्, मधुरकरुणादिव्यजलधे,
परक्रोडावास, प्रकटितनिजैश्वर्यमहिमन्,
स्तवैरेभिर्बिल्वैस्तव चरणयोरर्चनमहं
करोमि त्वं भक्त्या कलितमिदमङ्गीकुरु विभो! ॥१॥
इहानेकैर्मन्त्रैर्बहुभिरपि तन्त्रैर्नियमितं
भवत्पूजाहोमादिकमहमशक्तो रचयितुम् ।
जुहोमि ब्रह्माग्नौ त्वयि हविरिदं मानसमयं
गृहाण त्वं मृत्युञ्जय, वरद, पूर्णाहुतिमिमाम् ॥२॥
भवारण्ये घोरे विषयरसनव्योलपचयैः
समाच्छन्ने कूपे निरतिशयदुःखे निपतितम् ।
पशुं क्रन्दन्तं मां करुणकरुणं,
पाहिकृपया
स्वधर्मानुष्ठानं खलु समुचितं ते पशुपते ॥३॥
इह श्वेतारण्ये भुवनविदिते सर्वमहिते
महासिद्धिक्षेत्रे
सकरुण, भवन्तं भयहरम्
समभ्यर्च्य प्रेष्ठां गतिमसुलभां प्राप सुकृती ।
मुनिर्मार्कण्डेयस्तव हि महिमाऽयं विजयते ॥४॥
परं ब्रह्म स्वेच्छाकलितशिवलिङात्मकवपुः
प्रतिष्ठां क्षेत्रेऽस्मिन् स्वयमुपगतं भासि भगवन् ।
इहाभेदं विष्णोस्तव च ददृशुः कालनिधने
महे भक्तोत्तंसा मुदितमनसो विस्मयवशाः ॥५॥
धृतद्वैतं रूपं पुनरपरमेतत्तव निला-
सरित्तीरेऽदूरे परिलसति नावाख्यनिलये ।
यदम्भोदानीलं करकलितशङ्खारिविलसद्-
गदापद्मं पद्मासुकृतनिलयं मञ्जुहसितम् ॥६॥
लसद्द्वैताद्वैतं परमशिव, शम्भो, तव वपुः
परानन्दाकारं मनसि मम निर्भातु सततम् ।
यतोऽहं भूयासं विगलितभवक्लेशनिवहः
स्वधर्मानुष्ठानैस्तव विरचयन् सेवनविधिम् ॥७॥
पराशक्तिः सूक्ष्मा भवति परमं तत्त्वमिह वै
वदन्त्योतप्रोतं गजदिति च वैज्ञानिकवराः ।
प्रभो, त्वत्सान्निध्यादियमपि
स्पन्दनकुशला
ह्यधिष्ठानं मुख्यं त्वमसि जगतस्ते नतिरियम् ॥८॥
भवन्निष्ठं चित्तं भवतु भगवन्,
वागपि भवत्-
स्तुतौ सक्ता नित्यं, वपुरपि
भवत्सेवनरतम् ।
विकासोऽयं भक्तेर्मधुरमधुनिष्यन्दसुभगः
परप्रेमाकार, प्रसरतु
ममात्मन्यनुदिनम् ॥९॥
प्रवृद्धायां भक्तौ भवति हृदयं निर्मलतरं
समस्तं कर्म त्वच्चरणवरिवस्याऽपि च भवेत्
ततो जानीयां त्वां निरतिशयचैतन्यवपुषं
परब्रह्माभिख्यं
शिवमखिललोकैकपितरम् ॥१०॥
अखण्डे ब्रह्माण्डे निरुपमचिदानन्दवपुषं
स्वया शक्त्या
साकं कृतनटनलीलाविलसितम् ।
तथा सूक्ष्मात्मानं स्थितमणुषु सूक्ष्मेषु भगवन्
भतन्तं संवीक्ष्य
प्रतिकलमुपेयां हृदि मुदम् ॥११॥
नटेश, त्वत्तालप्रसरसुभगंजीवितमिदम्
प्रभो, जीवन्मुक्तिः
खलु निगदिता शास्त्रसरणौ ।
पदेऽस्मिन्नुत्तुङ्गे गिरिश, गिरिशृङ्गे पशुरयं
विहर्तुं शक्तः
स्याद्यदि भवति भक्तः पशुपते ॥१२॥
परक्रोडावासिन्, परमशिव, मृत्युञ्जय, मनो-
भवाराते, भक्तप्रिय,
गिरिसुताऽऽलिङिततनो,
विपन्निस्तारं मे प्रदिश भगवन्, मां कुरु भवत्-
पादाम्भोजे भक्तं,
न खलु न खलु प्रार्थ्यमपरम् ॥१३॥