मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे| करोतु पदविन्यासान्कमलासनक... अन्य देवता स्तोत्रे उमासहस्रम् ॥ श्रीगणेशायनम: । श्रीसरस... श्रीपाद श्रीवल्लभ त्वं सद... अङ्गारकः शक्तिधरो लोहिताङ... अथ कीलकम् ॐ अस्य श्रीकीलक... स्तोत्रदिनमपि रजनी सायं प... नमोऽस्तु नारायणमन्दिराय न... अनंत, वासुकी, शेषं, पद्मन... श्री गणेशाय नमः । ब्रह्मो... श्री यादगिरि लक्ष्मीनृसिं... श्रीमत्पयोनिधिनिकेतनचक्रप... श्रीमत्पयोनिधिनिकेतनचक्रप... सद्गुरुं सच्चिदानन्दं केव... पद्माधिराजे गरुडाधिराजे व... विशुद्धं परं सच्चिदानन्दर... प्रणम्य शिरसा देवं गौरीपु... रविरुद्र पितामह विष्णूनुत... शिव उवाच श्रुणु देवि प्र... श्रीमदनन्त श्रीविभूषित अप... पाण्ड्यभूपतीन्द्र पूर्व प... करिवरानुज कलियुग वरदा वीर... आशानुरूपफलदं चरणारविन्द भ... आशानुरूपफलदं चरणारविन्द भ... लोकवीरं महापूज्यं सर्वरक्... पादारविन्द भक्तलोकपालनैकल... श्रितानन्दचिन्तामणिश्रीनि... अस्य श्री हरिहरपुत्राष्टो... हरिवरासनं विश्वमोहनं हरिध... श्रीदेव्युवाच भगवन् देवदे... भूताधिपं भजे भूताधिपं दिव... पूर्वन्यासः अस्य श्री इन्... करकलितचापबाणां कल्हाराङ्घ... कारणापरचिद्रपा कञ्चीपुरसी... श्रीगुरुचरणसरोजं श्रीकरभव... अनन्तं वासुकिं शेषं पद्मन... हयग्रीव हयग्रीव हयग्रीवेत... ॥ श्रीः ॥ ॐ ब्रह्मर्षिभ्य... करिवरानुज कलियुग वरदा वीर... भूताधिपं भजे भूताधिपं दिव... राजान ऊचुः । गद्यानि । जय... श्रीमदानन्दतीर्थ-भगवत्पाद... कार्तवीर्यार्जुनो नाम राज... कुलाचला यस्य महीं द्विजेभ... ऋषिरुवाच । यमाहुर्वासुदेव... उद्धव उवाच । चेतनं कुरु क... उद्धव उवाच । वन्दे राधापद... श्रीनारायण उवाच । राधा रा... ब्रह्मोवाच । हे मातस्त्वत... राधा रासेश्वरी रम्या कृष्... उद्धव उवाच । वन्दे राधापद... ब्रह्मोवाच । तव चरणसरोजे ... श्री स्कन्द उवाच योगीश्वर... ओङ्कार-नगरस्थं तं निगमान्... ॐ सौं शरवणभवः शरच्चन्द्रा... ॐ श्रीं सौं शरवणभवाय नमः ... ज्ञानशक्तिधरः स्कन्दः देव... पुरहरनन्दन रिपुकुलभञ्जन, ... जय वज्रिसुताकान्त जय शङ्क... षडाननं कुङ्कुमरक्तवर्णं म... विमलनिजपदाब्जं वेदवेदान्त... आदौ विघ्नेश्वर पूजां कृत्... भजेहं कुमारं भवानी कुमारं... शिवयोसूनुजायास्तु श्रितमन... श्रीमन्मेरुधराधराधिप महास... सुब्रह्मण्यं प्रणाम्यहं स... ॐ ह्रीं सां रुद्रकुमाराय ... भक्त सञ्जीवनं भस्म विभूषण... वेङ्कटेशो वासुदेवः प्रद्य... अगणितगुणमप्रमेयमाद्यं सकल... न मन्त्रं नो यन्त्रं तदपि... अनंतसंसारसमुद्रतार-नौकायि... गोविन्दं गोकुलानन्दं गोपा... श्रीविद्ये शिववामभागनिलये... ध्यायेत् हेमांबुजारूढां व... बन्धूकवर्णामरुणां सुगात्र... गौरीं काञ्चनपद्मिनीतटगृहा... अस्य श्री रङ्गराज नामरत्न... नारद उवाच अनायासेन लोकोऽय... नमस्तुलसि कल्याणि नमो विष... राजलक्ष्मीस्थिरत्वाय येथे... मेघाङ्गीं विगताम्बरां शवश... सरस्वति नमस्तुभ्यं वरदे क... भक्तानशोकान्विदधामि शीघ्र... पापिषु प्रथमतो गणनीयं पुण... आसेतुशीतगिरिमध्यनिवासलोका... निदानमनुकम्पायाः पदाधःकृत... ऊँ अस्य श्रीसरस्वतीस्तोत्... गुरुवन्दना- अज्ञानाब्धिनि... रविरुद्रपितामहविष्णुनुतं ... श्वेतपद्मासना देवी श्वेतप... नीहारहारघनसारसुधाकराभां क... मातापितृसहस्राणि पुत्रदार... लोकनाथश्चिदाकारोराजमानः स... ऊँ ह्रीं ऋतं त्वमचलो गुणज... श्रीरामकृष्णप्रणामः स्थाप... सामाख्याद्यैर्गीतिसुमधुरै... घनचेतनमक्रियमादिमजं चिर-न... ब्रह्मरूपमादिमध्यशेषसर्वभ... प्रकृतिं परमामभयां वरदां ... प्रातः स्मरामि जगतो भव-भा... ब्रह्मयुक्तनित्यशक्तिसृष्... नमस्ते सते सर्वलोकाश्रयाय... सुनिर्मलज्ञानसुखैकरूपंप्र... मत्तरोगशिरोपरिस्थितनृत्यम... शंखं चक्रं गदाम् च क्षयित... हृदयकमलमध्ये राजितं निर्व... गुरुर्ब्रह्मा गुरुर्विष्ण... नमस्ते ललिते देवि श्रीमत्... ध्यायेच्चित्तसरोजस्थां सु... कान्तस्ते पुरुषोत्तमः फणि... गुरुतीर्थपयोब्धिपारा कामा... पूज्याय राघवेन्द्राय सत्य... किरातवराह ऋषिः अनुष्टुप् ... महिम्नस्तेऽपारं सकलसुखसार... ध्यानम् अतिमधुरचापहस्तां ... आशीविषविषविषमैः निमिषोन्म... हंसाय भुवनध्वान्तध्वंसाया... श्रीमान् वेङ्कटनाथार्यः क... कस्तूरीपङ्कभास्वद्गलचलदमल... देवा ऊचुः ब्रह्मणे ब्रह्म... नमो हिरण्यगर्भाय ब्रह्मणे... गुरुर्बृहस्पतिर्ज्जीवः सु... मङ्गलो भूमिपुत्रश्च ऋणहर्... चन्द्रस्य शृणु नामानि शुभ... गणेशविष्णुसूर्येशदुर्गाख्... पापानि यानि रविसूनुपटस्थि... श्रितानन्द चिन्तामणि श्री... रत्नावलीनिर्मितशैलशृङ्गवि... हरे राम हरे राम राम राम ह... अद्भुतविग्रह अमराधीश्वर अ... करुणावरुणालय सर्वपते तरुण... श्रीसूर्यध्यानम् रक्तांबु... आयुर्बलं यशोवर्चः प्रजाः ... ग्रहाणामादिरादित्यो लोकरक... जगद्धात्रि नमस्तुभ्यं विष... ब्रह्मादयः सुरगणा मुनयोऽथ... त्वमेकः शुद्धोऽसि त्वयि न... जगदीश सुधीश भवेश विभो परम... श्रीभगवानुवाच – बृंदा रू... वृत्तोत्फुल्लविशालाक्षं व... देवताकार्यसिद्ध्यर्थं सभा... स्वादयन्निह सर्वेषां त्रय... श्रीमान् वेङ्कटनाथार्यः क... नित्यानन्दकरी वराभयकरी सौ... कल्य़ाणरूपाय कलौ जनानां क... श्रियः कान्ताय कल्याणनिधय... वेङ्कटेशो वासुदेवः वारिजा... कमलाकुचचूचुककुङ्कुमतो निय... अंबरगंगाचुंबितपादः पदतलवि... ततो युद्धपरिश्रान्तं समरे... मम न भजनशक्तिः पादयोस्ते ... ऒमित्येतद्यस्य बुधैर्नाम ... कैलासे कमनीयरत्नखचिते कल्... काञ्चीनूपुररत्नकङ्कणलसत्क... मूलाम्भोरुहमध्यकोणविलसत् ... आधारभूते चाधेये धृत... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... शम्भो महादेवदेव शिवशम्भो ... प्रातः स्मरामि परमेश्वर-व... स्फुरत्सहस्रारशिखातितीव्र... वेङ्कटॆशो वासुदेवः वारिजा... श्रियः कान्ताय कल्याणनिधय... अहॊबिलं नारसिंहं गत्वा रा... श्रीमत् पयोनिधिनिकेतन चक्... सप्तप्राकारमध्ये सरसिजमुक... हरिर्हरतिपापानि दुष्टचित्... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... आदित्यादिप्रभृतिकमिदं चक्... न भूमिर्न तोयं न तेजो न व... मन्दस्मितं स्फुरितमुग्धमु... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... सुवक्षोजकुम्भां सुधापूर्ण... शारदा शारदाम्भोजवदना वदना... या कुन्देन्दुतुषारहारधवला... वेदपादस्तवं वक्ष्ये देव्य... मूषिकवाहन मोदकहस्त चामरकर... श्रीविद्ये शिववामभागनिलये... न मन्त्रं नॊ यन्त्रं तदपि... का त्वं शुभे शिवकरे सुखदु... कमाक्षिमातर्नमस्ते कामदान... नित्यानन्दकरी वराभयकरी सौ... आधारभूतेचाधेये धृतिरूपे ध... माणिक्यान्ञ्चितभूषणां मणि... काञ्चीनूपुररत्नकङ्कणलसत्क... अयिगिरिनन्दिनि नन्दितमेदि... माता नृसिंहः पिता नृसिंहः... श्रीमदानन्दतीर्थाय कल्याण... श्रीविद्ये शिववामभागनिलये... वन्दे नवघनश्यामं पीतकौशेय... ईश्वरः परमः कृष्णः सच्चिद... ध्यानम् चक्रं विद्या वर घ... श्रीशं कमलपत्राक्षं देवकी... बुधो बुद्धिमतां श्रेष्ठो ... अनुष्टुप् छन्दः शत्रुनिवा... भगवान् ऋषिः अनुष्टुप् छन्... मेघाङ्गीं विगताम्बरां शवश... अगणितगुणमप्रमेयमाद्यं सकल... सल्लोका विषयविरागिणो यदर्... हृदयकमलमध्ये राजितं निर्व... श्रीरामकृष्णगुरुदेवनिबद्ध... श्री देवी प्रथमं नाम द्वि... (शृङ्गेरि श्रीजगद्गुरु श... करोतु पदविन्यासान्कमलासनक... हेलया रचितचित्रविष्टपां च... भक्तानशोकान्विदधामि शीघ्र... निदानमनुकम्पायाः पदाधःकृत... श्वेतपद्मासना देवी श्वेतप... मातापितृसहस्राणि पुत्रदार... मातः समस्तजगतां परमस्य पु... श्रीरामकृष्णसहधर्मिणी भव्... ब्रह्मयुक्तनित्यशक्तिसृष्... आदिलक्ष्मि नमस्तेऽस्तु पर... ज्ञानानन्दामलात्मा कलिकलु... देवि सुरेश्वरि भगवति गङ्ग... ध्यायेच्चित्तसरोजस्थां सु... १. धनलक्ष्मी: या देवी सर... पुरन्दर उवाच- नमः कमलवासि... ध्यानम् कान्त्या काञ्चनसन... प्रणेतारः रामभद्राचार्याः... कल्पान्तोदितचण्डभानुविलसद... कल्पभानुसमानभासुरधाम लोचन... कस्तूरीपङ्कभास्वद्गलचलदमल... कामाक्षि देव्यंब तवार्द्र... श्री माधवी काननस्थे गर्भ... नमो देव्यै महादेव्यै सिद्... समुन्मीलन्नीलांबुजनिकरनीर... नमःशिवायै गंगायै शिवदायै ... श्रुत्वा गुणान् भुवनसुंदर... नित्यानन्दकरी वराभयकरी सौ... मयि कुरु मङ्गलमंबुजवासिनि... नित्याभूषा निगमशिरसां निस... आदिलक्ष्मीः द्विभुजाञ्च ... माणिक्यवीणामुपलालयन्तीं म... मम न भजनशक्तिः पादयोस्ते ... उषसि मागधमंगलगायनै- र्झटि... श्रीमत् कमलापुर कनकधराधरव... इत्थं नवनीरदनिर्गत-संस्फु... इत्थं दानवेन्द्रः हिरण्यक... काञ्चीनूपुररत्नकङ्कणलसत्क... आधारभूते चाधेये धृतिरूपे ... लीलालब्धस्थापितलुप्ताखिलल... कामाक्षिमातर्नमस्ते कामदा... का त्वं शुभे शिवकरे सुखदु... सिन्दूरारुणकान्तिमब्जवसति... जय पद्मविशालाक्षि जय त्वं... वादे शक्तिप्रदात्री प्रणत... सरस्वतीं नमस्यामि चेतनाना... वेणीं सितेतरसमीरणभोजितुल्... शृंगाद्रिवासाय विधिप्रिया... सुवक्षोजकुम्भां सुधापूर्ण... घोररूपे महारावे सर्वशत्रु... वेदपादस्तवं वक्ष्ये देव्य... लीलालब्धस्थापितलुप्ताखिलल... षडाधारपङ्केरुहान्तर्विराज... माणिक्यान्ञ्चितभूषणां मणि... नमो देव्यै प्रकृत्यै च वि... अष्टौ भुजाङ्गीं महिषस्यमर... श्रीशुक उवाच- विलोक्य दूष... गोविन्दं गोकुलानन्दं गोपा... भवानि स्तोतुं त्वां प्रभव... नन्दः पथि वचः शौरेर्न मृष... श्रीमते निगमान्तदेशिकाय न... नमः पन्नगनद्धाय वैकुण्ठवश... माता नृसिंहः पिता नृसिंहः... वेङ्कटेशो वासुदेवः प्रद्य... श्रीशंभो! मयि करुणाशिशिरा... नमः शिवाय पूर्णाय पूर्णमङ... दैवासुरैर्भावगणैरजस्रं प्... भक्तरक्षात्तदीक्ष, प्रोच्... श्रीसत्यसायिभगवन्, नरकान्... मृत्युञ्जयपुष्पाञ्जलिः कृष्णे गोकुलवासमुज्झितवति... शबलशिखण्डिशिखण्डकमण्डितहा... श्यामाभिरामशरणीकरणीयमूर्त... राजलक्ष्मीस्थिरत्वाय येथे... अद्राक्षमव्याजकृपामपारां ... पापिषु प्रथमतो गणनीयं पुण... श्रीराजमान मुखनिर्गतदिव्य... अनन्तोवासुकिः शेषः पद्मना... ॐकारवेद्यः पुरुषः पुराणो ... नमस्ते सते सर्वलोकाश्रयाय... नमस्ते ललिते देवि श्रीमत्... श्रीपूर्णबोध गुरुतीर्थपयो... पूज्याय राघवेन्द्राय सत्य... इन्द्रः श्लोकः ऐरावतगजा... आशीविषविषविषमैः निमिषोन्म... श्रीनीलकण्ठ गिरिजेश सुरेश... अचिकित्सचिकित्साय आद्यन्त... श्रीमान् वेङ्कटनाथार्यः क... मनः समाधौ परमार्थरङ्गं वि... नमो हिरण्यगर्भाय ब्रह्मणे... उत्थिष्ठ कृष्ण गुरुवायुपु... मङ्गलो भूमिपुत्रश्च ऋणहर्... पञ्चदेवतास्तोत्रम् पाण्ड्यभूपतीन्द्रपूर्वपुण... आशानुरूपफलदं चरणारविन्द- ... भगवत्स्तुतिः सन्मात्ररूपि... ॐ श्रीमदखिलाण्डकोटि ब्रह्... श्रीमदानन्दतीर्थाय कल्याण... हरे राम हरे राम राम राम ह... श्रीमान् वेङ्कटनिथार्यः क... इन्द्रद्युम्न उवाच । यज्ञ... शतानीक उवाच – महामते महाप... जनमेजय उवाच - शरतल्पेशया... अद्भुतविग्रह अमराधीश्वर अ... गतिगञ्जितमत्ततरद्विरदं रद... करुणावरुणालय सर्वपते तरुण... प्रातः स्मरामि तत्सवितुर्... स्कंद उवाच - योगीश्वरो मह... ॐ सर्वे वै देवा देवीमुपतस... दक्षाधःकरपल्लवे लसदसिं दक... आयुर्बलं यशोवर्चः प्रजाः ... दाल्भ्य उवाच- कार्यारंभे... वाणीं जितशुकवाणीं अलिकुलव... जगदीश सुधीश भवेश विभो परम... अहं मद्रक्षणभरो मद्रक्षणफ... स्वादयन्निह सर्वेषां त्रय... ईश्वर उवाच- वृत्तोत्फुल्... स्वादयन्निह सर्वेषां त्रय... श्रीपराशर भट्टार्यः श्रीर... चिदचित्परतत्त्वानां तत्त्... देवो नश्शुभमातनोतुदशधा नि... श्रीवत्सचिह्नमिश्रेभ्यो न... वन्देऽहं वरदार्यं तं वत्स... श्रीशैलेशदयापात्रं धीभक्त... हेमाद्रिशिखराकारं शुद्धस्... ईशानां जगतोऽस्य वेङ्कटपते... कौसल्या सुप्रजा राम पूर्व... भज गोविन्दं भजगोविन्दं गो... दशकम् २४ हिरण्याक्षे पो... प्रथमं दशकम् त्वत्भक्तवर... हारनूपरकिरीटकुण्डलविभूषित... वन्दे मुकुन्दमरविन्ददलायत... पुरस्तात् केशवः पातु चक्र... स्फुरत्सहस्रारशिखातितीव्र... अहोबिलं नारसिंहं गत्वा रा... ओमिति ज्ञानवस्त्रेण रागनि... अविनयमपनय विष्णो दमय मनः ... सच्चिदानन्दरूपाय भक्तानुग... जयति तेऽधिकं जन्मना व्रजः... न भूमिर्न तोयं न तेजो न व... कृपासमुद्रं सुमुखं त्रिने... रुद्रं पशुपतिं स्थाणुं नी... सत्यं ब्रवीमि परलोकहितं ब... हे स्वामिनाथार्तबन्धो भस्... किं नाहं पुत्रस्तव मातुः ... मूषिकवाहन मोदकहस्त चामरकर... कल्याणवृष्टिभिरिवामृतपूरि... कल्लोलोल्लसितामृताब्धिलहर... हारनूपरकिरीटकुण्डलविभूषित... आर्यासाहस्री नीलकन्ठ- वाहनं द्विषद्भुज... हे मातस्त्वत्पदाम्भोजं दृ... षष्टिवर्षसहस्राणि दिव्यान... तव पूजा जगन्मातर्लोकशिक्ष... एवमेव प्रियोऽहं ते प्रमोद... त्वं देवी जगतां माता विष्... तव चरणसरोजे मन्मनश्चरीको ... त्वं देवी जगतां माता विष्... श्री नारद उवाच अनायास... जगद्धात्रि!नमस्तुभ्यं विष... प्रातः स्मरामि हृदि संस्फ... भक्तामर- प्रणत- मौलिमणि- ... हयग्रीव हयग्रीव हयग्रीवेत... ॥ शांतिपाठः ॥ ॐ यो ब्रह... अपासकानां यदुपासनीयमुपात्... मूलेवटस्य मुनिपुङ्गवसेव्य... ॐमित्येतद्यस्य बुधैर्नाम ... ध्यानम् चन्द्रार्काग्नि... शम्भो महादेव देव शिव शम्भ... कैलासे कमनीयरत्नखचिते कल्... एवमारध्य गौरीशं देवं मृत्... श्रीगणेशाय नमः ॥ जय देव... श्रीगणेशाय नमः ॥ एकं ब्... श्रीगणेशाय नमः ॥ ॐ अस्य ... श्रीगणेशाय नमः ॥ विश्वं... श्रीगणेशाय नमः ॥ यं विज्... इंदुकोटि तेजकीर्ण सिंधुभक... यस्य नाम श्रुतेः सद्यो मृ... वेदो नित्यमधीयतां तदुदितं... वेदान्तवाक्येषु सदा रमन्त... निरुपमनित्यनिरंशकेऽप्यखण्... लब्धा विद्या राजमान्या तत... तपोयज्ञदानादिभिः शुद्धबुद... पुरे पौरान्पश्यन्नरयुवतिन... मनोबुद्ध्यहंकारचित्तानि न... अहं नामरो नैव मर्त्यो व द... स्तोष्ये भक्त्या विष्णुमन... किं ज्योतिस्तव भानुमानहनि... सकृच्छ्रवणमात्रेण ब्रह्मज... विदिताखिलशास्त्रसुधाजलधे ... मत्प्रियसखि मज्जिव्हे मय्... स्नातं तेन समस्ततीर्थसलिल... उद्धव उवाच । चेतनं कुरु... श्रीनारायण उवाच । राधा ... ब्रह्मोवाच । हे मातस्त्... ॥ अथ ब्रह्मेशशेषादिकृतम् ... राधा रासेश्वरी रम्या कृष्... महेश्वर उवाच । श्रीजगन्... सनत्कुमार उवाच - किं त्... नमस्तस्मै भगवते चैतन्याय ... महासाहसवृत्त्य स्वरूपलाभः... श्री गणेशाय नमः । श्री ... षडाननं चन्दनलेपिताङ्गं मह... सदा बालरूपाऽपि विघ्नाद्रि... उद्यदादित्य संकाशं उदार भ... ऋषय ऊचुः - सर्वशास्त्रा... श्रीशारदाशतश्लोकीस्तवः - करोतु पदविन्यासान्कमलासनक... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : devigoddessstotraदेवीशारदास्तोत्र श्रीशारदाशतश्लोकीस्तवः Translation - भाषांतर करोतु पदविन्यासान्कमलासनकामिनी ।जिह्वाग्रे मम कारुण्याज्जितचन्द्रायुतप्रभा ॥१॥पापेऽपि शारदाम्ब त्वं कृत्वा बहुऋपां मयि ।गरीयसीं चापि वाञ्छां पूरयाशु कृपानिधे ॥२॥बहुभिस्त्वद्वदनाम्बुजमुल्लेखैः स्तोतुमार्यजनहृद्यैः ।प्रतिभां प्रयच्छ मह्यं करुणाजलधे पयोजभवजाये ॥३॥चम्पकसुमकोरकयुक्चकितमृगीप्रेक्षणेन संयुक्तम् ।शुककेकिनिनदजुष्टं वनमिव तव भाति वदनाब्जम् ॥४॥नासिकाख्यवरशाखया युतं खञ्जरीटखगयुग्मभूषितम् ।पक्वबिम्बफलसंयुतं शिवे भाति भूरुह इवाननं तव ॥५॥भक्तकेकिकुलतोषणव्रतं पद्मसंभवहृदम्बराश्रितम् ।गद्यपद्यमयवारि संददन्मेघवत्तव मुखं विभाति मे ॥६॥नेत्रोत्पलालंकृतमध्यभागं भ्रूवल्लिकाबम्भरपङ्क्तिरम्यम् ।पक्ष्मालिशैवालयुतं विभाति तवास्यमेतत्सरसीव वाणि ॥७॥सुचिल्लिकातोरणशोभमानं विशालफालाङ्गणरम्यरम्यम् ।उत्तुङ्गमाणिक्यकिरीटहर्म्यं विभाति वेश्मेव तवाम्ब वक्त्रम् ॥८॥नयनझषयुतोऽयं दन्तमुक्ताफलाढ्योदशनवसननामश्रीप्रवालप्रभायुक् ।प्रतिपदमभिवृद्धैः कान्तिपूरैः समेतःशरधिरिव विभाति त्वन्मुखं वाक्सवित्रि ॥९॥कलय कलिविमोकं कालकालानुजाते कलय शुभसमृद्धिं भूमिमध्येऽखिलेऽस्मिन् ।कलय रुचिसमृद्धिं स्वस्वधर्मे जनानां कलय सुखसमृद्धिं स्वस्वधर्मे रतानाम् ॥१०॥स्फुर ह्रुदयसरोजे शारदे शुभ्रवर्णेकलशममृतपूर्णं मालिकां बोधमुद्राम् ।सरसिजनिभहस्तैर्बिभ्रती पुस्तकं चप्रणतहृदयमच्छं कुर्वती तूर्णमेव ॥११॥ पालय मां करुणाब्धे परिवारयुतं त्विहापि शृङ्गाद्रौ ।शारदशशिनिभवदने वरदे लघु शारदे सदये ॥१२॥ऐन्द्रीमाशामैन्दवीं वा कलामित्यादौ बीजं जातु मातस्त्वदीयम्व्याजाद्वा यो व्याहरेत्तस्य वक्त्राद्दिव्या वाचो निःसरन्त्यप्रयत्नात् ॥१३॥शारदे तव पादाम्बुजयुग्मं बोधपुष्परसपूर्णमजस्रम् ।मामकं हृदयसंज्ञकमीशे नैव मुञ्चतु सरः करुणाब्धे ॥१४॥कथितानि मदीप्सितानि मातर्मुहुरग्रे तव शारदाम्बिके त्वम् ।न हि पूरयसे चिरायसे किं मदघौघात्किमु शक्त्यभावतो वा ॥१५॥अद्यैव मत्प्रार्थितमम्ब दद्या यदि त्वपारां करुणां विधाय ।वेलाविहीनं सुखमाप्नुयां हि नैवात्र सन्देहलवोऽपि कश्चित् ॥१६॥कमनीयकवित्वदां जवाद्रमणीयाम्बुजतुल्यपद्युताम् ।शमनीयभयापहारिणीं रमणीं पद्मभवस्य भावये ॥१७॥काङ्क्षे कमलजकामिनि कमनीयैः पद्यनिकुरुम्बैः ।स्तोतुं वाचां निकरं स्वायत्तं कलय जगदम्ब ॥१८॥कामं मम फालतले लिखतु लिपिं दुःखदां विधिः सततम् ।नाहं बिभेमि मातर्लुम्पामि त्वत्पदाब्जरजसा ताम् ॥१९॥किं कल्पवृक्षमुख्यैः किं करधृतमेरुणा शिवेनापि ।किं कमलया च हृदि चेत्किंकरसर्वेष्टदा वाणी ॥२०॥तुङ्गातटनिकटचरंभृङ्गावलिगर्वहरणचणचिकुरम् ।श्रीशारदाभिधानं भाग्यं मम जयति शृङ्गशैलाग्रे ॥२१॥निरणायि मया समस्तशास्त्रा-ण्यपि वीक्ष्य प्रणतार्तिहारि लोके ।प्रविहाय तवांघ्रिपंकजातं न परं वस्त्विति वाणि निश्चितं तत् ॥२२॥पद्मासनासि खलु भारति वागधीशे पद्मासनप्रियतमे करलग्नपद्मे ।मत्कं मनोऽम्बुजमहो स्वयमेव मातःश्रीशारदाम्ब विजहासि किमत्र वाच्यम् ॥२३॥आनीय दिव्यकुसुमानि किरन्ति लोकाये त्वत्पदाब्जयुगलं वचसां सवित्रि ।तान्प्राप्तराजपदवींस्तरसा किरन्तिपौराङ्गनाः कुसुमलाजचयेन नूनम् ॥२४॥आज्ञासीद्गौरवी मे तव खलु करुणावारिधिः शारदाम्बासाष्टांगं योगमारादुपदिशति भवानौरसः सूनुरस्याः ।इत्यप्यद्यापि मातर्न हि खलु करुणा जायते मय्यनाथेकिं वा कुर्यां वदाम्ब प्रणतभयहरे शारदे चापलोऽहम् ॥२५॥नाहं निगृह्य करणानि सरोजजात-जाये त्वदीयपदपङ्कजयोर्हि सेवाम् ।शक्नोमि कर्तुमलमज्ञशिखामणिर्य-त्तस्मान्निसर्गकरुणां कुरु मय्यनाथे ॥२६॥वाणि सरस्वति भारति वाग्वादिनि वारिजातजनिजाये ।काश्मीरपुरनिवासिनि कामितफलवृन्ददायिनि नमस्ते ॥२७॥शरणं त्वच्चरणं मे नान्यद्वाग्देवि निश्चितं त्वेतत् ।तस्मात्कुरु करुणां मय्यनन्यशरणे द्रुतं मातः ॥२८॥शरदभ्रसदृक्षवस्त्रवीता करदूरीकृतपङ्कजाभिमाना ।चरणाम्बुजलग्ननाकिमौलिर्वरदा स्यान्मम शारदा दयार्द्रा ॥२९॥स्थापय नरकेषु सदाप्यथ सुखकाष्ठासु दिव्यलोकेषु ।न हि तत्र मे विचारः परं तु चित्तं तवाङ्घ्रिगतमस्तु ॥३०॥शृङ्गाद्रिवासलोले भृङ्गाहंकारहारिकचभारे ।तुङ्गातीरविहारे गङ्गाधरसोदरि प्रसीद मम ॥३१॥ऋश्यशृङ्गजनिभूमिविभूषे कश्यपादिमुनिवन्दितपादे ।पश्यदङ्घ्रिमुखपालनलोले वश्यपङ्कजभवेऽव सदा माम् ॥३२॥कम्बुडम्बरनिवर्तककण्ठामम्बुधिं निरवधि करुणयाः ।अम्बुदप्रतिमकेशसमूहामम्बुजोद्भवसखीं कलयेऽहम् ॥३३॥भर्मगर्वहरसंहननाभां शर्मदां पदसरोजनतेभ्यः ।कर्मभक्तिमुखपद्धतिगम्यां कुर्महे मनसि पद्मजजायाम् ॥३४॥शम्भुसोदरि शशाङ्कनिभास्ये मन्दबुद्धिविततेरपि शीघ्रम् ।वाक्प्रदायिनि कृपामृतराशे शृङ्गशैलवरवासविलोले ॥३५॥तुष्टिमेहि वचसां जननि त्वं मत्कृतेन विधिनाऽविधिना वा ।ऐंजपेन परिपूरय वाञ्छां मामकीं च महतीमपि शीघ्रम् ॥३६॥तवौरसंसूनुमहो त्वदीयभक्ताग्रगण्या मम देशिकेन्द्राः ।प्राहुर्यतोऽतो मयि शारदाम्ब पाप्यग्रगण्येऽपि दया विधेया ॥३७॥तवौरसं मां सुतमाहुरार्यास्त्वत्पादभक्ताग्रसरा यतोऽतः ।सोढ्वामदीयान्सकलापराधान्पुरो भवाम्बाशु गिरां सवित्रि ॥३८॥भक्तेष्टपाथोनिधिपूर्णचन्द्रः कवित्वमाकन्दवसन्तकालः ।जाड्यान्धकारव्रजपद्मबन्धुरम्ब प्रणामस्तव पादपद्मे ॥३९॥मुखाम्बुजं भातु जगज्जनन्या हृदम्बुजे मे जितचन्द्रबिम्बम् ।रदाम्बराधःकृतपक्वबिम्बं महाघविध्वंसनचञ्च्वजस्रम् ॥४०॥यानेन हंसं वदनेन चन्द्रं श्रोणीभराच्छैलपतिं च कामम् ।काञ्चिद्धसन्तीं कलये हृदब्जे चन्द्रार्धराजद्वरकेशपाशाम् ॥४१॥विस्मृत्य देहादिकमम्ब सम्यक्समुच्चरंस्तावकमन्त्रराजम् ।तुङ्गानदीपुण्यतटे कदाहं सुसैकते स्वैरगतिर्भवामि ॥४२॥श्रीशादिसंसेवितपादपद्मे श्रीबोधदानव्रतबद्धदीक्षे ।श्रीकण्ठसोदर्यमितानुकम्पे श्रीशारदाम्बाशु कृपां कुरुष्व ॥४३॥हृद्यानि पद्यानि विनिःसरन्ति त्वदंघ्रिसंपूजकवक्त्रपद्मात् ।विना प्रयत्नं तरसा न चित्रं त्वमम्ब यस्माद्वचसां सवित्री ॥४४॥गमागमविवर्जितैरसुभिरन्तरङ्गेऽनिशंगजास्यगुहनन्दिभिः सुरवरैर्मुदा चिन्तिते ।गजाजिनधरानुजे गलिततृष्णलोकेक्षितेगतिं मम शुभां मतिं सपदि देहि वागीश्वरि ॥४५॥जलोद्भवजभामिनि प्रणतसौख्यभूमप्रदेजडत्वविनिवारणव्रतनिषक्तचेतोऽम्बुजे ।जगत्त्रयनिवासिभिः सततसेव्यपादाम्बुजेजगज्जननि शारदे जनय सौख्यमत्यद्भुतम् ॥४६॥मदेभगमनेऽवने नतततेरनेकैः सुखै-रनारतमजामितं प्रवणहृत्सरोजेऽम्बिके ।कुतो मयि कृपा न ते प्रसरति प्रसन्ने वदप्रपञ्चजननप्रभुप्रणयिनि प्रपद्येऽद्य कम् ॥४७॥कदा वा श्रुङ्गाद्रौ विमलतरतुङ्गापरिसरेवसन्मातर्वाचां शिरसि निदधानोऽञ्जलिपुटम् ।गिरां देवि ब्राह्मि प्रणतवरदे भारति जवा-त्प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥४८॥जगन्नाथं गङ्गा विविधवृजिनोघैः परिवृतंयथाऽरक्षत्पूर्वं सकलमपि हत्वाशु दुरितम् ।पुनश्चान्ते दत्त्वा करसरसिजं पूर्णकृपयाजनैः सद्भिः प्राप्यां परमपदवीं प्रापितवती ॥४९॥तथा शान्तं पापं सकलमपि कृत्वा मम जवाद्धृदंभोजे लग्नं कुरु तव पदाम्भोरुहयुगम् ।कराम्भोजे पश्चात्परमकृपया देवि वचसांप्रदत्त्वाऽऽलम्बं माम् गमय पदवीं निर्मलतराम् ॥५०॥दवीयांसं त्वेनं परमकृपया देशिकमुखा-त्समानीयाम्ब त्वं तव पदपयोजातनिकटम् ।अवित्वापीयन्तं समयमधुना देवि भजसेयदौदास्यं तर्हि त्रिजगति ममान्यां वद गतिम् ॥५१॥कामं सन्तु सुरा निरन्तरनिजध्यानार्चनाकारिणोलोकान्स्वेप्सितसर्वसौख्यसहितान्कर्तुं जगत्यां किल ।पूजाध्यानजपादिगन्धरहितांस्त्रातुं पुनस्त्वां विनानान्यद्दैवतमस्तिपद्मजमनःपद्मार्भकार्कप्रभे ॥५२॥कारुण्यं मयि धेहि मातरनिशं पद्मोद्भवप्रेयसिप्रारब्धं मम दुष्टमाशु शमय प्रज्ञां शुभां यच्छ मे ।कर्तुंकाव्यचयं रसौघभरितं शक्तिं दृढां भक्तिम-प्यंहःसञ्चयवारिणीं तव पदाम्भोजे कृपाम्भोनिधे ॥५३॥कुर्यामद्य किमम्ब भक्तिरहितः पूजां जपं तर्पणम्किं वैराग्यविवेकगन्धरहितः कुर्यां विचारं श्रुतेः ।किं योगं प्रकरोमि चञ्चलमनाः शृङ्गाद्रिवासप्रियेत्वत्पादप्रणतिं विहाय न गतिर्मेऽन्या गिरां देवते ॥५४॥जह्यान्नैव कदापि तावकपदंमातर्मनो मामकंमान्द्यध्वान्तनिवारणोद्यतदिनेशाखर्वगर्वावलि ।गौरीनाथरमाधवाब्जभवनैः संभाव्यमानं मुदावाक्चातुर्यविधानलब्धसुयशःसंपूरिताशामुखम् ॥५५॥तुङ्गातीरविहारसक्तहृदये शृङ्गारजन्मावनेगङ्गाधारिमुखामरेन्द्रविनुतेऽनङ्गाहितापद्धरे ।सङ्गातीतमनोविहाररसिके गङ्गातरङ्गायिताभृङ्गाहंकृतिभेददक्षचिकुरे तुङ्गा गिरो देहि मे ॥५६॥त्वत्पादाम्बुजपूजनाप्तहृदयाम्भोजातशुद्धिर्जनःस्वर्गं रौरवमेव वेत्ति कमलानाथास्पदं दुःखदम् ।कारागारमवैति चन्द्रनगरं वाग्देवि किं वर्णनै-दृश्यं सर्वमुदीक्षते स हि पुना रज्जूरगाद्यैः समम् ॥५७॥त्वत्पादाम्बुरुहं विहाय शरणं नास्त्येव मेऽन्यद्ध्रुवंवाचां देवि कृपापयोजलनिधे कुत्रापि वा स्थापय ।अप्यूर्ध्वं ध्रुवमण्डलादथ फणीन्द्रादप्यधस्तत्र मेत्वन्न्यस्तैहिकपारलौकिकभरस्त्वासे न कापि व्यथा ॥५८॥त्वत्पादाम्बुरुहं हृदाख्यसरसिस्याद्रूढमूलं यदावक्त्राब्जे त्वमिवाम्ब पद्मनिलया तिष्ठेद्गृहे निश्चला ।कीर्तिर्यास्यति दिक्तटानपि नृपैः संपूज्यता स्यात्तदावादे सर्वनयेष्वपि प्रतिभटान्दूरीकरोत्येव हि ॥५९॥मातस्त्वत्पदवैभवं निगदितुं प्रारभ्य नागेश्वराऽस्वप्नाचार्यकवीन्दुशेखरदिनेशाद्याः प्रभग्ना मुहुः ।क्वाहं तत्कथने जडेष्वचरमः कारुण्यपाथोनिधेवाचां देवि सुतस्य साहसमिदं क्षन्तव्यमेवाम्बया ॥६०॥मातः शृङ्गपुरीनिवासरसिके मातङ्गकुम्भस्तनिप्राणायाममुखैर्विनापि मनसः स्थैर्यं द्रुतं देहि मे ।येनाहं सुखमन्यदुर्लभमहोरात्रं भजाम्यन्वहंप्राप्स्याम्यात्मपरैकबोधमचलं निःसंशयं शारदे ॥६१॥वेदाभ्यासजडोऽपि यत्करसरोजातग्रहात्पद्मभू-श्चित्रं विश्वमिदं तनोति विविधं वीतक्रियं सक्रियम् ।तां तुङ्गातटवाससक्तहृदयां श्रीचक्रराजालयांश्रीमच्छङ्करदेशिकेन्द्रविनुतां श्रीशारदाम्बां भजे ॥६२॥वैराग्यं दृढमम्ब देहि विषयेष्वाद्यन्तदुःखप्रदे-ष्वाम्नायान्तविचारणे स्तिरतरां चास्थां कृपावारिधे ।प्रत्यग्ब्रह्मणि चित्तसंस्थितिविधिं संबोधयाश्वेव मांत्वं ब्रूषे सकलं ममेति गुरवः प्राहुर्यतः शारदे ॥६३॥कमलासनवरकामिनि करधृतचिन्मुद्रिके कृपाम्भोधे ।करकलितामलकाभं तत्त्वं मां बोधयतु जगदम्ब ॥६४॥करविधृतकीरडिम्भां शरदभ्रसधर्मवस्त्रसंवीताम् ।वरदाननिरतपाणिंसुरदां प्रणमामि शारदां सदयाम् ॥६५॥कामाक्षीविपुलाक्षीमीनाक्षीत्यादिनामभिर्मातः ।काञ्चीकाशीमधुरापुरेषु भासि त्वमेव वाग्जननि ॥६६॥चन्द्रार्धशेखरापररूपश्रीशङ्करार्यकरपूज्ये ।चन्द्रार्धकृतवतंसे चन्दनदिग्धे नमामि वाणि पदे ॥६७॥ जय जय चिन्मुद्रकरे जय जय शृङ्गाद्रिविहरणव्यग्रे ।जय जय पद्मजजाये जय जय जगदम्ब शारदे सदये ॥६८॥दुर्वसनदत्तशापप्रतिपालनलक्ष्यतः समस्तानाम् ।रक्षार्थमवनिमध्ये कृतचिरवासां नमामि वाग्देवीम् ॥६९॥नवनवकवनसमर्थं पटुतरवाग्धूतवासवाचार्यम् ।वनजासनवरमानिनि वरदे कुरु शीघ्रमंघ्रिनतम् ॥७०॥भगवत्पदमण्डनयोर्वादमहे सकललोकचित्रकरे ।अङ्गीकृतमाध्यस्थ्यां जगदम्बां नौमि शारदां सदयाम् ॥७१॥सेवापूजानमनविधयः सन्तु दूरे नितान्तंकादाचित्का स्मृतिरपि पदाम्भोजयुग्मस्य तेऽम्ब ।मूकं रङ्कं कलयति सुराचार्यमिन्द्रं च वाचालक्ष्म्या लोको न च कलयते तां कलेः किं हि दौःस्थ्यम् ॥७२॥आशावस्त्रः सदात्मन्यविरतहृदयस्त्यक्तसर्वानुरागःकाये चक्षुर्मुखेष्वप्यनुदितममतः क्वापि कस्मिंश्च काले ।शैलाग्रेऽरण्यकोणे क्वचिदपि पुलिने क्वापि रेवातटे वागङ्गातीरेऽथ तुङ्गातटभुवि च कदा स्वैरचारी भवेयम् ॥७३॥कल्पन्तां काम्यसिद्ध्यै कलिमलहतये चाक्षयैश्वर्यसिद्ध्यैकारुण्यापारपूराः कमलभवमनोमोददानव्रताढ्याःकात्यायन्यब्धिकन्यामुखसुररमणीकाङ्क्ष्यमाणाः कवित्व-प्राग्भाराम्भोधिराकाहिमकरकिरणाः शारदाम्बाकटाक्षाः ॥७४॥कल्पादौ तन्महिम्ना कतिपयदिवसेष्वेव लुप्तेषु मार्गे-ष्वाम्नायप्रोदितेषु प्रवरसुरगणैः प्रार्थितः पार्वतीशः ।आम्नायाध्वप्रवृद्ध्यै यतिवरवपुषागत्य यां शृङ्गशैलेसंस्थाप्यार्चां प्रचक्रे निवसतु वदने शारदा सादरं सा ॥७५॥तिष्ठाम्यत्रैव मातस्तव पदयुगलं वीक्षमाणः प्रमोदान्नाहं त्यक्त्वा तवाङ्घ्रिं सकलसुखकरं क्वापि गच्छामि नूनम् ।छायां मत्कां विधत्स्व प्रवचननमनध्यानपूजासु शक्तांशुद्धामेकां त्रिलोकीजननपटुविधिप्राणकान्ते नमस्ते ॥७६॥त्वद्बीजे वर्तमाने वदनसरसिजेदुर्लभं किं नराणांधर्मो वाऽर्थश्च कामोऽप्यथ च सकलसंत्यागसाध्यश्च मोक्षः ।काम्यं वा सार्वभौम्यं कमलजदयितेऽहेतुकारुण्यपूर्णेशृङ्गाद्र्यावासलोले भवति सुरवराराध्यपादारविन्दे ॥७७॥दृष्ट्वा त्वत्पादपङ्केरुहनमनविधावुद्यतान्भक्तलोकान्दूरं गच्छन्ति रोगा हरिमिव हरिणा वीक्ष्य यद्वत्सुदूरम् ।कालः कुत्रापि लीनो भवति दिनकरे प्रोद्यमाने तमोव-त्सौख्यं चायुर्यथाब्जं विकसति वचसां देवि शृङ्गाद्रिवासे ॥७८॥नाहं त्वत्पादपूजामिह गुरुचरणाराधनं चाप्यकार्षंनाश्रौषं तत्त्वशास्त्रं न च खलु मनसः स्थैर्यलेशोऽपि कश्चित् ।नो वैराग्यं विवेको न च मम सुदृढा मोक्षकाङ्क्षाऽपि नूनंमातः कावा गतिर्मे सरसिजभवनप्राणकान्ते न जाने ॥७९॥नौमि त्वां शैववर्याः शिव इति गणनाथार्चका विघ्नहर्ते-त्यार्येत्यम्बाङ्घ्रिसक्ता हरिभजनरता विष्णुरित्यामनन्ति ।यां तां सर्वस्वरूपां सकलमुनिमनःपद्मसंचारशीलांशृङ्गाद्र्यावासलोलां कमलजमहिषीं शारदां पारदाभाम् ॥८०॥यः कश्चिद्बुद्धिहीनोऽप्यविदितनमनध्यानपूजाविधानःकुर्याद्यद्यम्ब सेवां तव पदसरसीजातसेवारतस्य ।चित्रं तस्यास्यमध्यात्प्रसरति कविता वाहिनीवामराणांसालङ्कारा सुवर्णा सरसपदयुता यत्नलेशं विनैव ॥८१॥याचन्ते नम्रलोका विविधगुरुरुजाक्रान्तदेहाः पिशाचै-राविष्टाङ्गाश्च तत्तज्जनितबहुतरक्लेशनाशाय शीघ्रम् ।किं कुर्यां मन्त्रयन्त्रप्रमुखविधिपरिज्ञानशून्यश्चिकित्सांकर्तुंन त्वत्पदाब्जस्मरणलवमृते वाणि जानेऽत्र किंचित् ॥८२॥रागद्वेषादिदोषैः सततविरहितैः शान्तिदान्त्यादियुक्तै-राचार्याङ्घ्र्यब्जसेवाकरणपटुतरैर्लभ्यपादारविन्दा ।मुद्रास्रक्कुम्भविद्याः करसलिलरुहैः संदधाना पुरस्ता-दास्तां वाग्देवता नः कलिकृतविविधापत्तिविध्वंसनाय ॥८३॥वारय पापकदम्बं तारय संसारसागरंतरसा ।शोधय चित्तसरोजं बोधय परतत्त्वमाशु मामम्ब ॥८४॥सच्चिद्रूपात्मनिष्ठः प्रगलितसकलाक्षादिवृत्तिः शयानोभुञ्जानः सत्यसौख्यं तदितरसुखतः प्राप्तनीरागभावः ।पाषाणे वाथ तल्पे वनभुवि सदने पार्थिवस्याऽश्महेम्नो-र्नार्यां मृत्यौ च तुल्यः सततसुखिमनाः स्यां कदा शारदाम्ब ॥८५॥किं पाठयेयं लघुचन्द्रिकां वा किं वा त्यजेयं सकलप्रपञ्चम् ।स्वप्नेऽद्य मे ब्रूहि किमत्र कार्यं डोलायितं मामकमम्ब चेतः ॥८६॥त्यागे वाऽध्यापने वा मम खलु न गिरां देवि काप्यस्ति शक्ति-स्त्वं वै सर्वत्र हेतुर्यदसि निरवधिर्वारिराशिः कृपायाः ।तस्मात्स्वप्नेऽद्य कार्यं मम खलु निखिलं बोधयैवं कुरुष्वे-त्यज्ञानां बोधनार्थं त्वमिह बहुविधा अम्ब मूर्तीर्बिभर्षि ॥८७॥वितर विधिप्रेयसि मे विमलधियं वाञ्छितं च तरसैव ।विष्णुमुखामरवन्द्ये विधुबिम्बसमानवदनकञ्जाते ॥८८॥शारदनीरदसन्निभवसने वनजासनान्तरङ्गचरे ।वरटावल्लभयाने वरदे वाग्देवि शारदे पाहि ॥८९॥सप्तदशघस्रमविरतमीशेन समस्तविद्यानाम् ।विरचितवादां कुतुकात्सामोदं नौमि वाग्जननीम् ॥९०॥ सुरवरनिषेव्यपादे सुखलवाधूतकेकिकुलनिनदेसुरवनविहारबलदे सुरवरदे पाहि शारदे सुरदे ॥९१॥कुन्दरदनेऽम्ब वाणि मुकुन्दरवीन्द्वादिदेववर्येड्ये ।कुन्दरकृपावशान्मुकुन्दवराद्यांश्च मे निधीन्देहि ॥९२॥स्फुरशरदिन्दुप्रतिभटवदने वाग्देवि मामके मनसि ।वरदाननिरतपाणे सरसिजनयने सरोजजातसखि ॥९३॥अस्थिरभक्तेर्मम देवि गिरां शीघ्रं दत्त्वा काञ्चित्सिद्धिम् ।कुरु सुदृढां मम तव पादाब्जे भक्तिं शृङ्गगिरीन्द्रनिवासे ॥९४॥सहमानसोदरि सह प्रण्तकृता मानहीनमन्तुततीः ।सहमानसोदरीत्वं त्यज वा युक्तं यदत्र कुरु वाणि ॥९५॥वलभिन्मुखनिर्जरवरसेव्ये कलवचनन्यक्कृतपिकरावे ।जलजप्रतिभटपदयुगरम्ये कलय प्रवरं कृतिनामेनम् ॥९६॥ करविलसद्वरपुस्तकमाले शरदब्जाहंकृतिहरचेले ।अरणीसुमनिभकुंकुमफाले शरणं मम भव धृतशुकबाले ॥९७॥कलयासक्तिं कमलजदयिते तुलनाशून्यामींमनुवर्ये ।वलयाञ्चितकरसरसीजाते ललनाभिः सुरवितते: पूज्ये ॥९८॥शृङ्गक्ष्माभृन्कूटविहारे तुङ्गातटभूकृतसञ्चारे ।वाचां देवि प्रार्थितमर्थं शीघ्रं देहि प्रणतायास्मै ॥९९॥नाहं सोढुं कालविलम्बं शक्नोम्यम्ब प्रणतप्रवणे ।ईप्सितमर्थं देहि तदाशु द्रुहिणस्वान्ताम्बुजबालघृणे ॥१००॥ ॥इति श्रीशारदाशतश्लोकीस्तवः संपूर्णः॥(शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-नृसिंहभारतीस्वामिभिः विरचितः) N/A References : N/A Last Updated : January 03, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP