मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
भगवत्स्तुतिः सन्मात्ररूपि...

अक्रूरकृता - भगवत्स्तुतिः सन्मात्ररूपि...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


भगवत्स्तुतिः सन्मात्ररूपिणेऽचिन्त्यमहिम्ने परमात्मने ।
व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥१॥

सर्वरूपाय तेऽचिन्त्य हविर्भूताय ते नमः ।
नमो विज्ञानपाराय पराय प्रकृतेः प्रभो ॥२॥

भूतात्मा चेन्द्रियात्माच प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥३॥

प्रसीद सर्व सर्वात्मन् क्षराक्षरमयेश्वर ।
ब्रह्मविष्णुशिवाख्याभिः कल्पनाभिरुदीरितः ॥४॥

अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन ।
अनाख्येयाभिधानं त्वां नतोऽस्मि परमेश्वर ॥५॥

न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः ।
तद्ब्रह्मपरमं नित्यमविकारि भवानजः ॥६॥

न कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यतः ।
ततः कृष्णाच्युतानन्तविष्णुसंज्ञाभिरीड्यते ॥७॥

सर्वार्थास्त्वमज विकल्पनाभिरेतैर्देवाद्यैर्भवति हि यैरनन्त विश्वम् ।
विश्वात्मा त्वमिति विकारहीनमेत- त्सर्वस्मिन्न हि भवतोऽस्ति किञ्चिदन्यत् ॥८॥

त्वं ब्रह्मा पशुपतिरर्यमा विधाता धाता त्वं त्रिदशपतिस्समीरणोऽग्निः ।
तोयेशो धनपतिरन्तकस्त्वमेको भिन्नार्थैर्जगदभिपासि शक्तिभेदैः ॥९॥

विश्वं भवान् सृजति सूर्यगभस्तिरूपो विश्वेश ते गुणमयोऽयमतः प्रपञ्चः ।
रूपं परं सदिति वाचकमक्षरं यज्ज्ञानात्मने सदसते प्रणतोऽस्मि तस्मै ॥१०॥

ऊँ नमो वासुदेवाय नमस्संकर्षणाय च ।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥११॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP