मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
शतानीक उवाच – महामते महाप...

अनुस्मृतिः - शतानीक उवाच – महामते महाप...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.



शतानीक उवाच –
महामते महाप्राज्ञ सर्वशास्त्रविशारद ।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम ॥१॥
सततं किं जपेज्जाप्यं विबुधः किमनुस्मरन् ।
मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन् ॥२॥
यं च ध्यात्वा द्विजश्रेष्ठ पुरुषो मृत्युमागतः ।
परं पदमवाप्नोति तन्मे वद महामुने ॥३॥
शौनक उवाच –
इदमेव महाप्राज्ञ पृष्टवांश्च पितामहम् ।
भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः ॥४॥

युधिष्ठिर उवाच

पितामह महाप्राज्ञ सर्वशास्त्र विशारद ।
प्रयाणकाले किं चिन्त्यं मुमुक्षोस्तत्त्वचिन्तकैः ॥५॥
किं नु स्मरन् कुरुश्रेष्ठ मरणे पर्युपस्थिते ।
प्राप्नुयां परमां सिद्धिं श्रोतुमिच्छामि तत्त्वतः ॥६॥
भीष्म उचाच-
तद्युक्तं स्वहितं सूक्ष्मं प्रश्नमुक्तं त्वयानघ ।
शृणुष्वावहितो राजन् नारदेन पुरा श्रुतम् ॥७॥
श्रीवत्साङ्कं जगद्बीजमनन्तं लोकसाक्षिणम् ।
पुरा नारायणं देवं नारदः परिपृष्टवान् ॥८॥

नारद उवाच -
त्वमक्षरं परं ब्रह्म निर्गुणं तमसः परम् ।
आहुर्वेद्यं परं धाम ब्रह्माणं कमलोद्भवम् ॥९॥
भगवन् भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः ।
कथं भक्तैर्विचिन्त्योऽसि योगिभिर्मोक्षकाङ्क्षिभिः ॥१०॥
किं नु जाप्यं जपेन्नित्यं कल्य उत्थाय मानवः ।
कथं जपेत्सदा ध्यायेद् ब्रूहि तत्त्वं सनातनम् ॥११॥

भीष्म उवाच-
श्रुत्वा च तस्य देवर्षेर्वाक्यं वाक्यविशारदः ।
प्रोवाच भगवान् विष्णुर्नारदाय च धीमते ॥१२॥
श्रीभगवानुवाच-
हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम् ।
मरणे मामनुस्मृत्य प्राप्नोति परमां गतिम् ॥१३॥
यामधीत्य प्रयाणे तु मद्भावायोपपद्यते ।
ऊँकारमग्रतः कृत्वा मां नमस्कृत्य नारद ॥१४॥
एकाग्रः प्रयतो भूत्वा इमं मन्त्रमुदीरयेत् ।
ऊँ नमो भगवते वासुदेवाय इत्ययम् ॥१५॥
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।
पुमान् विमुच्यते सद्यः सिंहत्रस्तैर्मृगैरिव ॥१६॥
क्षराक्षरविसृष्टस्तु प्रोच्यते पुरुषोत्तमः ।
अव्यक्तं शाश्वतं देवं प्रभवं पुरुषोत्तमम् ॥१७॥
प्रपद्ये पुण्डरीकाक्षं देवं नारायणं हरिम् ।
लोकनाथं सहस्राक्षमक्षरं परमं पदम् ॥१८॥
भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ।
स्रष्टारं सर्वलोकानामनन्तं विश्वतोमुखम् ॥१९॥
पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम् ।
हिरण्यगर्भममृतं भूगर्भं तमसः परम् ॥२०॥
प्रभोः प्रभुमनाद्यं च प्रपद्ये तं रविप्रभम् ।
सहस्रशीर्षकं देवं महर्षेः सत्त्वभावनम् ॥२१॥
प्रपद्ये सूक्ष्ममतुलं वरेण्यमनघं शुचिम् ।
नारायणं पुराणेशं योगावासं सनातनम् ॥२२॥
संयोगं सर्वभूतानां प्रपद्ये ध्रुवमीश्वरम् ।
यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे ॥२३॥
ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे ।
एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥२४॥
यः प्रभुः सर्वलोकानां येन सर्वमिदं ततम् ।
चराचरगुरुर्देवः स मे विष्णुः प्रसीदतु ॥२५॥
आभूतसंप्लवे चैव प्रलीने प्रकृतौ महान् ।
योऽवतिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥२६॥
येन क्रान्तास्त्रयो लोका दानवाश्च वशीकृताः ।
शरण्यः सर्वलोकानां स मे विष्णुः प्रसीदतु ॥२७॥
यस्य हस्ते गदा चक्रं गरुडो यस्य वाहनम् ।
शङ्खः करतले यस्य स मे विष्णुः प्रसीदतु ॥२८॥
कार्यं क्रिया च करणं कर्ता हेतुः प्रयोजनम् ।
अक्रियाकरणे कार्ये स मे विष्णुः प्रसीदतु ॥२९॥
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥३०॥
शमीगर्भस्य यो गर्भस्तस्य गर्भस्य यो रिपुः ।
रिपुगर्भस्य यो गर्भः स मे विष्णुः प्रसीदतु ॥३१॥
अग्निसोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम् ।
यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु ॥३२॥
पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रिया फलम् ।
गुणाकरः स मे बभ्रुर्वासुदेवः प्रसीदतु ॥३३॥
योगावास नमस्तुभ्यं सर्वावास वरप्रद ।
हिरण्यगर्भ यज्ञाङ्ग पञ्चगर्भ नमोऽस्तु ते ॥३४॥
चतुर्भूत परं धाम लक्ष्म्यावास सदाच्युत ।
शब्दादिवासनान्योऽसि वासुदेव प्रधानकृत् ॥३५॥
अजः संगमनः पार्थो ह्यमूर्तिर्विश्वमूर्तिधृक् ।
श्रीः कीर्तिः पञ्चकालज्ञो नमस्ते ज्ञानसागर ॥३६॥
अव्यक्ताद्व्यक्तमुत्पन्नमव्यक्ताद्यः परात्परः ।
यस्मात् परतरं नास्ति तमस्मि शरणं गतः ॥३७॥
चिन्तयन्तो ह्यजं नित्यं ब्रह्मेशानादयः सुराः ।
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः ॥३८॥
जितेन्द्रिया जितात्मानो ज्ञानध्यानपरायणाः ।
यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः ॥३९॥
एकांशेन जगत्कृत्स्नमवष्ठभ्य स्थितः प्रभुः ।
अग्राह्यो निर्गुणो नित्यस्तमस्मि शरणं गतः ॥४०॥
सोमार्काग्निमयं तेजो यश्च तारामयी द्युतिः ।
दिवि संजायते तेजः स महात्मा प्रसीदतु ॥४१॥
गुणात्मा निर्गुणश्चान्यो रश्मिवांश्चेतनोह्यजः ।
सूक्ष्मः सर्वगतोऽदेहः स महात्मा प्रसीदतु ॥४२॥
अव्यक्तं सदधिष्ठानमचिन्त्यं तमसः परम् ।
प्रकृतिः प्रकृतिं भुङ्क्ते स महात्मा प्रसीदतु ॥४३॥
क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्गुणैः ।
महागुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु ॥४४॥
सांख्ययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः ।
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ॥४५॥
अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे ।
ये च त्वां नाभिजानन्ति तमस्मि शरणं गतः ॥४६॥
कामक्रोधविनिर्मुक्ता रागद्वेषविवर्जिताः
अनन्यभक्ता जानन्ति न पुनर्नारकी जनः ॥४७॥
एकान्तिनो हि निर्द्वन्द्वा निराशाः कर्मकारिणः ।
ज्ञानाग्निदग्धकर्माणः त्वां विशन्ति मनस्विनः ॥४८॥
अशरीरं शरीरस्थं समं सर्वेषु देहिषु ।
पापपुण्यविनिर्मुक्ता भक्तास्त्वां पर्युपासते ॥४९॥
अव्यक्तबुद्ध्यहंकारमनोभूतेन्द्रियाणि च ।
त्वयि तानि न तेषु त्वं तेषु तानि न ते त्वयि ॥५०॥
एकत्वाय च नानन्यं ये विदुर्यान्ति ते परम् ।
समत्वमिह काङ्क्षेयं भक्त्या वै नान्यचेतसा ॥५१॥
चराचरमिदं सर्वं भूतग्रामं चतुर्विधम् ।
त्वयि तन्तौ च तत्प्रोतं सूत्रे मणिगणा इव ॥५२॥
स्रष्टा भोक्तासि कूटस्थो ह्यचिन्त्यः सर्वसंज्ञितः ।
अकर्ता हेतुरहितः पृथगात्मा व्यवस्थितः ॥५३॥
न मे भूतेषु संयोगः पुनर्भवतु जन्मनि ।
अहंकारेण बुध्या वा न मे योगस्त्रिभिर्गुणैः ॥५४॥
न मे धर्मो ह्यधर्मो वा नारम्भो जन्म वापुनः ।
जरामरणमोक्षार्थं त्वां प्रपन्नोऽस्मि सर्वगम् ॥५५॥
विषयैरिन्द्रियैश्चापि न मे भूयः समागमः ।
ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते ।
भक्तानां यद्धितं देव तत्ते हि त्रिदशेश्वर ॥५६॥
पृथिवीं यातु मे घ्राणं यातु मे रसनं जलम् ।
रूपं हुताशने यातु स्पर्शो मे यातुमारुते ॥५७॥
श्रोत्रमाकाशमभ्येतु मनो वैकारिकं पुनः
इन्द्रियाणि गुणान्यान्तु स्वेषु स्वेषु च योनिषु ॥५८॥
पृथिवी यातु सलिलमापोऽग्निमनलोऽनिलम् ।
वायुराकाशमभ्येतु मनश्चाकाशमेव च ॥५९॥
अहंकारं मनो यातु मोहनं सर्देहिनाम् ।
अहंकारस्तथा बुद्धिंबुद्धिरव्यक्तमेव च ॥६०॥
प्रधानं प्रकृतिं यातु गुणसाम्ये व्यवस्थिते ।
विसर्गः सर्वकरणैर्गुणभूतैश्च मे भवेत् ॥६१॥
सत्त्वं रजस्तमश्चैव प्रकृतिं प्रविशन्तु मे ।
निष्कैवल्यपदं देव काङ्क्षेऽहं ते परन्तप ॥६२॥
एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत्पुनः ।
नमो भगवते तस्मै विष्णवे प्रभविष्णवे ॥६३॥
त्वद्बुद्धिस्त्वद्गतप्राणस्त्वद्भक्तस्त्वत्परायणः ।
त्वामेवाहं स्मरिष्यामि मरणे पर्यवस्थिते ॥६४॥
पूर्वदेहे कृता ये मे व्याधयः प्रविशन्तु माम् ।
अर्दयन्तु च मां दुःखान्यृणं मे प्रतिमुच्यताम् ॥६५॥
अनुध्येयोऽसि मे देव न मे जन्म भवेत्पुनः ।
अस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति ॥६६॥
उपतिष्ठन्तु मां सर्वे व्याधयः पूर्ववञ्चिताः ।
अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ॥६७॥
अहं भगवतस्तस्य मम वासः सनातनः ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६८॥
कर्मेन्द्रियाणि संयम्य पञ्चभूतेन्द्रियाणि च ।
दशेन्द्रियाणि मनसि अहंकारं तथा मनः ॥६९॥
अहंकारं तथा बुद्धौ बुद्धिमात्मनि योजयेत् ।
आत्मबुद्धीन्द्रियं पश्येत्बुद्ध्या बुद्धेः परात्परम् ॥७०॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम् ॥७१॥
ममायमिति तस्याहं येन सर्वमिदं ततम् ।
आत्मन्यात्मनि संयोज्य परात्मानमनुस्मरेत् ॥७२॥
नमो भगवते तस्मै देहिनां परमात्मने ।
नारायणाय भक्ताय एकनिष्ठाय शाश्वते ॥७३॥
हृदिस्थाय च भूतानां सर्वेषां च महात्मने ।
इमामनुस्मृतिं दिव्यां वैष्णवीं पापनाशिनीम् ।
स्वपन्विबुद्धश्च पठेद्यत्नेन च समभ्यसेत् ॥७४॥
मरणे समनुप्राप्ते यदेकं मामनुस्मरेत्
अपि पापसमाचारः स याति परमां गतिम् ॥७५॥
यद्यहंकारमाश्रित्य यज्ञदानतपक्रियाः ।
कुर्वन् फलमवाप्नोति पुनरावर्तनं च तत् ॥७६॥
अभ्यर्चयन् पितॄन्देवान् पठन् जुह्वद्बलिं ददत् ।
ज्वलदग्नौ स्मरेद्यो मां लभते परमां गतिम् ॥७७॥
यज्ञो दनं तपश्चैव पावनानि मनीषिणाम् ।
यज्ञदानतपस्तस्मात्कुर्याद्रागविवर्जितः ॥७८॥
पौर्णमास्याममावस्यां द्वादश्यां च तथैव च ।
श्रावयेच्छ्रद्दधानश्च मद्भक्तश्च विशेषतः ॥७९॥
नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धायान्वितः ।
तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद ॥८०॥
किं पुनर्ये भजन्ते मां साधका विधिपूर्वकम् ।
श्रद्धावन्तो यतात्मानस्ते यान्ति परमां गतिम् ॥८१॥
कर्माण्याद्यन्तवन्तीह मद्भक्तोऽमृतमश्नुते ।
मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्त्रितः ॥८२॥
अज्ञानां चैव यो ज्ञानं दद्याद्धर्मोपदेशतः ।
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत् फलम् ॥८३॥
तस्मात्प्रदेयं साधुभ्यो जपं बन्धभयापहम् ।
अवाप्स्यसि ततः सिद्धिं प्राप्स्यसे च पदं मम ॥८४॥
अश्वमेधसहस्रैश्च वाजपेयशतैरपि ।
नासौ फलमवाप्नोति मद्भक्तैर्यदवाप्यते ॥८५॥
भीष्म उवाच -
हरेः पृष्टं पुरा तेन नारदेन सुरर्षिणा ।
यदुवाच ततः शम्भुस्तदुक्तं समनुव्रतः ॥८६॥
श्रुत्वैवं नारदो वाक्यं दिव्यं नारायणोदितम् ।
अत्यन्तं भक्तिमान् देव एकान्तित्वमुपेयिवान् ॥८७॥
त्वमप्येकमना भूत्वा ध्याहि ध्येयं गुणाधिकम् ।
भजस्व सर्वभावेन परमात्मानमव्ययम् ॥८८॥
नारायणमृषिं देवं दशवर्षाण्यनन्यभाक् ।
इमं जपित्वा चाप्नोति तद्विष्णोः परमं पदम् ॥८९॥
किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्व्रतैः ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥९०॥
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ।
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥९१॥
ये नृशंसा दुरात्मानः पापाचाररतास्तथा ।
तेऽपि यान्ति परां स्थानं नारायणपरायणाः ॥९२॥
अनन्यया मन्दबुद्ध्या प्रतिभाति दुरात्मनाम् ।
कुतर्काज्ञानदृष्टीनां विभ्रान्तेन्द्रियवर्त्मनाम् ॥९३॥
नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम् ।
अन्तकाले जपाद्यान्ति तद्विष्णोः परमं पदम् ॥९४॥
आचारहीनोऽपि मुनिप्रवीर
भक्त्या विहीनोऽपि विनिन्दितोऽपि ।
किं तस्य नारायणशब्दमात्रतो
विमुक्तपापो विशतेऽच्युतां गतिम् ॥९५॥
कान्तारवनदुर्गेषु कृच्छ्रेष्वापत्सु संयुगे ।
दस्युभिः सन्निरुद्धश्च नामभिर्मां प्रकीर्तयेत् ॥९६॥
जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः ।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥९७॥
नाम्नोऽस्ति यावती शक्तिः पापनिर्हरणे हरेः ।
श्वपचोऽपि नरः कर्तुं क्षमस्तावन्न किल्बिषम् ॥९८॥
न तावत्पापमस्तीह यावन्नामाहृतं हरेः ।
अतिरेकभयादाहुः प्रायश्चित्तान्तरं वृथा ॥९९॥
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥१००॥
न वासुदेवात्परमस्ति मङ्गलं
न वासुदेवात्परमस्ति पावनम् ।
न वासुदेवात्परमस्ति दैवतं
तं वासुदेवं प्रणमन्न सीदति ॥१०१॥
इमां रहस्यां परमामनुस्मृतिं
योऽधीत्य बुद्धिं लभते च नैष्ठिकीम् ।
विहाय पापं विनिमुच्य सङ्कटात्
स वीतरागो विचरेन्महीमिमाम् ॥१०२॥
इति श्रीमहाभारते आनुशासनिके पर्वणि दानधर्मे
श्रीवैष्णोर्दिव्यमनुस्मृतिस्तोत्रं संपूर्णम्॥

गीता नामसहस्रं च स्तवराजोऽनुस्मृतिः ।
गजेन्द्रमोक्षणं चैव पञ्चरत्नानि भारते॥

N/A

References : N/A
Last Updated : January 04, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP