मदनातुरचेतसोऽन्वहं भवङ्घ्रिद्वयदास्यकाम्यया ।
यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥१॥
तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् ।
उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥२॥
इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् ।
करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥३॥
नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा ।
यमुनाजलखेलानाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥४॥
त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके ।
निहितं परिगृह्य भूरुहो विटपं त्वं तरसाधिरूढवान् ॥५॥
इह तावदुपेत्य नीयतां वसनं वः सुदृशो यथायथम् ।
इति नर्ममृदुस्मिते त्वयि ब्रुवति व्यामुमुहे वधूजनैः ॥६॥
अयिा जीव चिरं किशोरं नस्तव दासीवशीकरोषि किम् ।
प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥७॥
अधिरुह्य तटं कृताञ्जलीः परिशुद्धा स्वगतीर्निरीक्ष्य ताः ।
वसनान्यखिलान्यगुग्रहं पुनरेवं गिरमप्यदा मुदा ॥८॥
विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् ।
यमुनापुलिने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥९॥
उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः ।
प्रणयादयि वीक्ष्य ते वदानाब्जं शनकैर्गुहं गताः ॥१०॥
इति नन्वनुगृह्य वल्लवीर्विपिनान्तेषु पुरेव सञ्चरन् ।
करुणाशिशिरो हरे त्वरया मे सकलामयावलिम् ॥११॥
॥ इति चीरहरणलीलायां गोपीवस्त्रापहरणवर्णनं षष्टितमदशकं समाप्तम् ॥