उपयातानां सदृशां कुसुमायुधबाणपातविवशानाम्
अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥१॥
गगनगतं मुनिनिवहं श्रावयितुं जगिथं कुलवधूधर्मम् ।
धर्म्यं खलु ते वचनं कर्म तु नो निर्मल्यस्य विश्र्वास्यम् ॥२॥
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।
मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥३॥
तासां दुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् ।
ताभि समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥४॥
चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु ।
गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥५॥
सुमधुरनर्मालपनैः करसंग्रहणैश्र्च चुम्बनोल्लासैः ।
गाढालिङ्गस्त्वमङ्गनालोकमाकुलीचकृषे ॥६॥
वासोहरणदिने यद् वासोहरणं प्रतिश्रुतं तासाम् ।
तदपि विभो रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥७॥
कन्दलितघर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् ।
नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥८॥
विरेहष्वङ्गारमयः श़ृङारमयश्र्च सङ्गमेऽपि चित्रमिदम् ॥९॥
राधातुङ्गपयोधरसाधुपरीरम्भलोलुपात्मानम् ।
आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥१०॥
॥ इति रासक्रीडायां धर्मोपदशेवर्णनं क्रीडावर्णनं च षष्टषष्टितमदशकं समाप्तम् ॥