क्वचितदथ तपनोपरागकाले पुरि निदधत्कृतवर्मकामसूनू ।
यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥१॥
बहुतरजनताहिताय तत्र त्वमपि पुनन्विनिमज्ज्य तीर्थतोयम् ।
द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥२॥
तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा ।
तदुदितभवदाहृतिप्रकारैरति मुमुदे सममन्यभामिनीभिः ॥३॥
तदनु च भगवन् निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा ।
चिरतरविरहातुराङ्गरेखा ; पशुपवधूः सरसं त्वमन्वयासीः ॥४॥
सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् ।
अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥५॥
रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बनाभूत् ।
इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ॥६॥
अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् ।
परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥७॥
सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः ।
समभवदमुतः परं तु तासां परमसुखैक्यमयी भवद्विचिन्ता ॥८॥
मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पुच्छ्य़मानैः ।
त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ॥९॥
सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः ।
यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥१०॥
व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् ।
प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्र्वर पाहि मां गदेभ्यः ॥११॥
॥ इति समन्तपञ्चकयात्रावर्णनं चतुरशीतितमदशकं समाप्तम् ॥