एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् ।
स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान् पयोधरौ ॥१॥
अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे ।
दुग्धमीश दहने परिस्रुतं धर्तुमाशु जननी जगाम ते ॥२॥
समिपीतरसभङ्गतक्रोधभारपरिभूतचेतसा ।
मन्थदण्डमुपगृह्य पाटितं हन्त देव दधिभाजनं त्वया ॥३॥
उच्चलध्वनितमुच्चकैस्तदा संनिशम्य जननी समाद्रुता ।
त्वद्यशोविसरवद् ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥४॥
वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ ।
संददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥५॥
त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा ।
रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥६॥
बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छती ।
सा नियुज्य रशनागुणान् बहून् द्य्वङ्गुलोनमखिलं किलैक्षत ॥७॥
विस्मितोत्सिमतसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् ।
नित्यमुक्तवपुरप्यहो हरे बन्धमेव कृपयान्वमन्यथाः ॥८॥
स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा ।
प्रागुलूखलविलान्तरे तदा सर्पिरर्पितमदन्नवास्थिथाः ॥९॥
यद्यपाशसुगमो विभो भवान् संयतः किमु सपाशयानया ।
एवमादि दिविजैभिष्टुतो वातनाथ परिपाहि मां गदात् ॥१०॥
॥ इति उलूखलबन्धनवर्णनं सप्तचत्वारिंशत्तमदशकं समाप्तम् ॥