अन्यावतारनिकरेष्वनिरीक्षितं ते
भूमातिरेकमभिवीक्ष्य तदाघमोक्षे ।
ब्रह्मा परीक्षितुमनाः स परोक्षभावं
निन्येऽथ वत्सकगणान् प्रवितत्य मायाम् ॥१॥
वत्सानवीक्ष्य विवशे पशुपोत्करे ता -
नानेतुकाम इव धातृमतानुवर्ती ।
त्वं सामिभुक्तकवलो गतवांस्तदानीं
भुक्तांस्तिरोऽधित सरोजभवः कुमारान् ॥२॥
वत्सायितस्तदनु गोपगणायितस्त्वं
शिक्यादिभाण्डमुरलीगवलादिरूपः ।
प्राग्वद्विहृत्य विपिनेषु चिराय सायं
त्वं माययाथ बहुधा व्रजमाययाथ ॥३॥
त्वामेव शिक्यगवलादिमयं दधानो
भूयस्त्वमेव पशुवत्सकबालरूपः ।
गोरूपिणिभिरपि गोपवधूमयीभि -
रासादितोऽसि जननीभिरतिप्रहर्षात् ॥४॥
जीवं हि कञ्चिदभिमानवशात्स्वकीयं
मत्वा तनूज इति रागभरं वहन्त्यः ।
आत्मानमेव तु भवन्तमवाप्य सूनुं
प्रीतिं ययुर्न कियतीं वनिताश्र्च गावः ॥५॥
एवं प्रतिक्षणविजुम्भितहर्षभार -
निश्शेषगोपगणलालितभूरिमूर्त्तिम् ।
त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते
ब्रह्मात्मनोरपि महान् युवयोर्विशेषः ॥६॥
वर्षावधौ नवपुरातनवत्सपालान्
दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे ।
प्रदीदृशः प्रतिनवाम्नकुटाङ्गदादि -
भूषांश्र्चतुर्भुजयुजस्सजलाम्बुदाभान् ॥७॥
प्रत्येकमेव कमलापरिलालिताङ्गान्
भोगीन्द्रभोगशयनान्नयनाभिरामान् ।
लीलानिमीलितदृशः सनकादियोगि -
व्यासोवितान् कमलभूर्भवतो ददर्श ॥८॥
नारायणाकृतिमसंख्यतमां निरीक्ष्य
सर्वत्र सेवकमपि स्वमवेक्ष्य धाता ।
मायानिमग्नहृदयो विमुमोह याव -
देको बभूविथ तदा कवलार्धपाणिः ॥९॥
नश्यमन्दे तदनु विश्र्वपतिं मुहुस्त्वां
नत्वा च नूतवति धातरि धाम याते ।
पोतैः समं प्रमुदितैः प्रविशन्निकेतं
वातालयाधिप विभो परिपाहि रोगात् ॥१०॥
॥ इति वत्सापहारवर्णनं द्विपञ्चाशत्तमदशकं समाप्तम् ॥