निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः ।
किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥१॥
करुणानिधिरेष नन्दसूनुः कथामस्मान् विसृजेदनन्यनाथाः ।
बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥२॥
चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्र्च ।
परितापभरं निताम्बिनीनां शमयिष्यन् व्यमुचः सखायमेकम् ॥३॥
अचिरादुपयामि संनिधिं वो भविता साधु मयैव सङ्गमश्रीः ।
अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्र्वसिता वधूरकार्षीः ॥४॥
सविषादभरं सयाच्ञमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः ।
मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥५॥
अनसा बहुलेन वल्लवानां मनसा चानुगतोऽथ वल्लभानाम् ।
वनमार्तमृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥६॥
नियमाय निमज्ज्य वारिणि त्वामभिवीक्ष्याथ रथेऽपि गान्दिनेयः ।
विवशोऽजनि किं न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥७॥
पुनरेष निमज्ज्य पुण्यशाली पुरुषं त्वां परमं भुजङ्गभोगे ।
अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धौघपरीतमालुलोके ॥८॥
स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन् प्रकारभेदैः ।
अविलोक्य पुनश्र्च हर्षसिन्धोरनुवृत्या पुलकावृतो ययौ त्वाम् ॥९॥
किमु शीतलिमा महान् जले यत् पुलकोऽसाविति चोदितेन तेन ।
अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् ॥१०॥
॥ इति मथुरापुरयात्रावर्णनं त्रिसप्ततितमदशकं समाप्तम् ॥