संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारायणीयम्|दशमस्कन्धपरिच्छेदः|
सप्ताशीतितमदशकम्

दशमस्कन्धपरिच्छेदः - सप्ताशीतितमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


कुचेलनामा भवतः सतीर्थ्यतां गतः स सांदीपनिमन्दिरे द्विजः ।

त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥१॥

समानशीलापि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी ।

कदाचितदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥२॥

इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे ।

तदा त्वदालोकनकौतुकाद्ययौ वहन् पटान्ते पृथुकानुपायनम् ॥३॥

गतोऽयमाश्र्चमयीं भवत्पुरीं गृहेषु शैब्याभवनं समेयिवान् ।

प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥४॥

प्रपूजितं तं प्रियया च विजितं करे गृहीत्वाकथयः पुराकृतम् ।

यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ॥५॥

त्रपाजुषोऽस्मात् पृथुकं बलादथ प्रगृह्य मुष्टौ सकृतदाशिते त्वया ।

कृतं कृतं नन्वियतेति सम्भ्रमाद्रमा किलोपेत्य करं रुरोध ते ॥६॥

भक्तेषु भक्तेन स मनितस्त्वया पुरीं वसन्नेकनिशां महासुखम् ।

बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥७॥

यदि ह्ययाचिष्यमदास्यदच्युतो वदाम भार्यां किमिति व्रजन्नसौ ।

त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन् मणिदीप्रमालयम् ॥८॥

किं मार्गविभ्रंश इति भ्रमन क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् ।

सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ॥९॥

स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ ।

त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश हरस्व मे गदान् ॥१०॥

॥ इति कुचेलोपाख्यानम् -(सुदाम्नोपाख्यानं ) सप्तशीतितमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP