संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारायणीयम्|दशमस्कन्धपरिच्छेदः|
त्रिषष्टितमदशकम्

दशमस्कन्धपरिच्छेदः - त्रिषष्टितमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


ददृशिरे किल नत्क्षणमक्षत -

स्तनिजृम्भितकम्पितदिक्तटाः ।

सुषमया भवदङ्गतुलां गता

व्रजपदोपरि वारिधरास्त्वया ॥१॥

विपुलकरकमिश्रैस्तोयधारानिपातै -

र्दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।

कुपितहरिकृतान्नः पाहि पाहीति तेषां

वचनमजित श़ृण्वन् बिभीतेत्यभाणीः ॥२॥

कुल इह खलु गोत्रो दैवतं गोत्रशत्रो -

र्विहतिमिह स रुन्ध्यात् को नु वः संशयोऽस्मिन् ।

इति सहसितवादी देव गोवर्धनाद्रिं

त्वरितमुदमुलूलो मूलतो बालदोर्भ्याम् ॥३॥

तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्

सिकतिलमृदुदेशे दूरतो वारितापे ।

परिकरपरिमिश्रान् धेनुगोपानधस्ता -

दुपनिदधदत्था हस्तपद्मेन शैलम् ॥४॥

भवति विधृतशैले बालिकाभिर्वयस्यै -

रपि विहितविलासं केलिलापादिलोले ।

सविधमिलितधेनूरेकहस्तेन कण्डू -

यति सति पशुपालास्तोषमैषन्त सर्वे ॥५॥

अतिमहान् गिरिरेष तु वामके

करसरोरुहि तं धरते चिरम् ।

किमिदमद्भुतमद्रिबलं न्विति

त्वदवलोकिभिराकथि गोपकैः ॥६॥

अहह धाष्टर्‌य़ममुष्य वटोर्गिरिं

व्यथितबाहुरसाववरोपयेत् ।

इति हरिस्त्वयि बद्धविगर्हणो

दिवससप्तकमुग्रमवर्षयत् ॥७॥

अचलति त्वयि देव पदात्पदं

गलितसर्वजले च घनोत्करे ।

अपहृते मरुता मरुतां पति -

स्त्वदभिशाङ्कितधीः समुपाद्रवत् ॥८॥

शममुपेयुषि वर्षभरे तदा

पशुपधेनुकुले च विनिर्गते ।

भुवि विभो समुपाहितभूधरः

प्रमुदितैः पशुपैः परिरेभिषे ॥९॥

धरणिमेव पुरा धृतवानसि

क्षितिधरोद्धरणे तव कः श्रमः ।

इति नुतस्त्रिधरोद्धरणे कमलापते

गुरुपुरालय पालय मां गदात् ॥१०॥

॥ इति गोवर्धनोद्धरणवर्णनं त्रिषष्टितमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP