अथ वारिणी घोरतरं फणिनं प्रतिवारियुतं कृतधीर्भगवन् ।
द्रुतमारिथ तीरगनीपतरुं विषमारुतशोषितपर्णचयम् ॥१॥
अधिरुह्य पदाम्बुरुहेण च तं नवलपल्लवतुल्यमनोज्ञरुचा ।
ह्रदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ॥२॥
भुवनत्रयभारभृतो भवतो गुरुभारविकम्पिविजृम्भिजला ।
परिमज्जयति स्म धनुश्शतकं तटिनी झटिति स्फुटघोषवती ॥३॥
अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः ।
उदकादुदगादुगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ॥४॥
फणश़ृङ्गसहस्रविनिस्सृमरज्वलदिग्निकणोग्रविषम्बुधरम् ।
पुरतः फणिनं समलोकयथा बहुश़ृङ्गिणमञ्चनशैलमिव ॥५॥
ज्वलदक्षिपरिक्षदुग्रविषश्र्वसनोष्मभरः स महाभुजगः ।
परिदश्य भवन्तमनन्तबलं परिवेष्टयदस्फुटचेष्टमहो ॥६॥
अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे ।
व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥७॥
अखिलेषु विभो भवदीयदशामवलोक्य जिहासुषु जीवभरम् ।
फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवतो ॥८॥
अधिरुह्य ततः फणिराजफणान्ननृते भवता मृदुपादरुचा ।
कलशिञ्चितनूपुरमञ्जुमिलत्करकङ्कणसङ्कसंक्वणितम् ॥९॥
जहृषुः पशुपास्तुतुषुर्मुनयो ववृषः कुसुमानि सुरेन्द्रगणाः ।
त्वयि नृत्याति मारुतगेहपते परिपाहि स मां त्वमदान्तगदात् ॥१०॥
॥ इति कालियोपाख्याने कालियमर्दने भवगन्नर्तनवर्णनं पञ्चपञ्चाशत्तमदशकं समाप्तम् ॥