भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातिदकमत्र गोष्ठे ।
अहेतुमुत्पातगणं विशङ्क्य़ प्रयातुमन्यत्र मनो वितेनुः ॥१॥
तन्नोपन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।
इतः प्रतीच्यां विपिनं मनोज्ञ वृन्दावनु नाम विराजतीति ॥२॥
बृहदद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन ।
त्वदन्वितत्वज्जननीनिविष्ठगरिष्ठयानानुगता विचेलुः ॥३॥
अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरो वधूभिः ।
भवद्विनोदालपिताक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥४॥
निरीच्य वृन्दावनमीश नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् ।
अमोदथाः शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुतट्टिमपुष्टशोभम् ॥५॥
नवीननिर्व्यूढनिवासभेदेष्वशेषगोपेषु सुखासितेषु ।
वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यवलोकथास्त्वम् ॥६॥
अरालमार्गागतनिर्मलापां मरालकूजाकूतनर्मलापाम् ।
निरन्तरस्मेरसरोजक्त्रां कलिन्दकन्यां समलोकयस्त्वम् ॥७॥
मयूरकेकाशतलोभनीयं मयूखमालाशबलं मणीनाम् ।
विरिञ्चलोकस्पृशमुच्चश़ृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥८॥
समन्ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः ।
ततस्ततस्तां कुटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥१॥
तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे ।
चरन् सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥१०॥
॥ इति वृन्दावनगमनवर्णनमेकोपञ्चशत्तमदशकं समाप्तम् ॥