वृकभृगुमुनिमोहिन्यम्बरीषादिवृत्ते -
ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् ।
स्थितमिह परमात्मन् निष्कलार्वागभिन्नं
किमपि यदवभातं तद्धि रूपं तवैव ॥१॥
मूर्तित्रयेश्र्वरसदाशिवपञ्चकं यत्
प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् ।
तत्रेश्र्वरस्तु स विकुण्ठपदस्त्वमेव
त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥२॥
तत्रापि सत्त्विकतनुं तव विष्णुमाहु -
धार्ता तु सत्त्वविरलो रजसैव पूर्णः ।
सत्त्वोत्कटत्वमपि चास्ति तमोविकार -
चेष्टादिकं च तव शंकरनाम्नि मूर्तो ॥३॥
तं च त्रिमूर्त्यतिगतं परपूरुषं त्वां
शंसन्त्युपासनविधौ तदपि स्वतस्तु
त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥४॥
श्रीशंकरोऽपि भगवान् सकलेषु तावत्
त्वामेव मानयति यो न हि पक्षपाती ।
व्याख्याद् भवत्स्तुतिपरश्र्च गतिं गतोऽन्ते ॥५॥
मूर्तित्रयातिगमुवाच च मन्त्रशास्त्र -
स्यादौ कलयसुषमं सकलेश्र्वरं त्वाम् ।
ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा
त्वामेव तत्र सकलं निजगाद नान्यम् ॥६॥
समस्तसारे च पुराणसंग्रहे
विसंशयं त्वन्महिमैव वर्ण्यते ।
त्रिमूर्तियुक्सत्यपदत्रिभागतः
परं पदं ते कथितं न शूलिनः ॥७॥
यद् ब्राह्मकल्प इह भागवतद्वितीय -
स्कन्धोदितं वपुरनावृतमीश धात्रे ।
तस्यैव नाम हरिशर्वमुखं जगाद
श्रीमाधवः शिवपरोऽपि पुराणसारे ॥८॥
ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते
तेषा फलं हि दृढयैव तदीयभक्त्या ।
व्यासो हि तेन कृतवानधिकारिहेतोः
स्कान्दादिकेषु तव हानिवचोऽर्थवादैः ॥९॥
भूतार्थकीर्तिरनुवादविरुद्धवादौ
त्रेधार्थवादगतयः खलु रोचनार्थाः ं
स्कान्दादिकेषु बहवोऽत्र विरुद्धवादा -
स्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥१०॥
यत् किंचिदप्यविदुषापि विभो मयोक्तं
तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव ।
क्लेशान् विधूय कुरु भक्तिभरं परात्मन् ॥११॥
॥ इति आगमादिनां परमतात्पर्यनिरूपणं नवतितमदशकं समाप्तम् ॥