तरलमधुकृद्वृन्दे वृन्दावनेऽथ मनोहरे
पशुपशिशुभिः साकं वत्सानुपालनलोलुपः ।
हलधरसखो देव श्रीमन्विचेरिथ धारयन्
गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥१॥
विहितजगतीरक्षं लक्ष्मीकराम्बुजलालितं
ददति चरणद्वन्दं वृन्दावने त्वयि पावने ।
किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी -
सलिलधरणीगोत्रक्षेत्रादिकं कमलापते ॥२॥
विलसदुलपे कान्तारान्ते समीरणशीतले
विपुलयमुनातीरे गोवर्द्धनाचलमूर्द्धसे ।
ललितमुरलीनादः सञ्चारयन् खलु वात्सकं
क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥३॥
रभविलसत्पुच्छं विच्छायतोऽस्य विलोकयन्
किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् ।
तमथ चरणे विभ्रद्विभ्रामयन् मुहुरुच्चकैः
कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥४॥
निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं
निपतनजवक्षुण्णक्षोणीरुहक्षतकानने ।
दिवि परिमिलद्वृन्दा वृन्दारकाः कुसुमोत्करैः
शिरसि भवतो हर्षाद्वर्षान्ति नाम तदा हरे ॥५॥
सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली
निपतति तवेत्युक्तो बालैः सहेलमुदैरयः ।
झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात्
कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥६॥
क्वचन दिवसे भूयो भूयस्तरे परुषातपे
तपनतनयापाथः पातुं गता भवदादयः ।
चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं
क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥७॥
पिबति सलिलं गोपव्राते भवन्तमभिद्रुतः
स किल निगिन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् ।
दलयितुमगात् त्रोट्याः कोट्या तदाशु भवान्विभो
खलजनभिदाचुञ्चुश्र्चञ्चू प्रगूह्य ददार तम् ॥८॥
सपदि सहजां संद्रष्टुं व मृतां खलु पूतना -
मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा ।
शमननिलयं याते तस्मिन् बके सुमनोगणे
किरति सुमनोवृन्दं वृन्दावनाद् गृहमैयथाः ॥९॥
ललितमुरलीनादं दूरान्निशम्य वधूजनै -
स्त्वरितमुपगम्यारादारूढमोदमुदीक्षितः ।
जनितजननीनन्दानन्दः समीरणमन्दिर -
प्रथितवसते शौरे दूरीकुरुष्व ममामयान् ॥१०॥
॥ इति वत्सासुरवधवर्णनं च पञ्चाशत्तमदशकं समाप्तम् ॥