ततो मगधभूभृता चिरनिरोधसंक्लेशितं
शताष्टकयुतायुतद्वितयमीश भूमीभृताम्
अनाथशरणाय ते कमपि पूरुषं प्राहिणो -
दयाचत स मागधक्षपणमेव किं भूयसा ॥१॥
यियासुरभिमागधं तदनु नारदोदीरिता -
द्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः ।
विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे
शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥२॥
अशेषदयितायुते त्वयि समागते धर्मजा
विजित्य सहजैर्महीं भवदपाङ्गसंवर्द्धितैः ।
श्रियं निरुपमां वहन्नहह भक्तदासायितं
भवन्तमयि मागधे प्रहितवान् सभीमार्जुनम् ॥३॥
गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयो
ययाच समरोत्सवं द्विजमिषेण तं मागधम् ।
अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन्
निरीक्ष्य सह जिष्णुना त्वमपि राजयुद्ध्वा स्थितः ॥४॥
अशान्तसमरोद्धतं विटपपाटनासंज्ञया
निपात्य जरसः सुतं पवनजेन निष्पाटितम् ।
विमुच्य नृपतीन् मुदा समनुगृह्य भक्तिं परां
दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥५॥
प्रचकु्रषि युधिष्ठिरे तदनु राजसूयाध्वरं
प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् ।
त्वमप्ययि जगत्पते द्विजपदावनेजादिकं
चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥६॥
ततः सवनकर्मणि प्रवरमग्र्य़पूजाविधिं
विचार्य सहदेववागनुगतः स धर्मात्मजः ।
व्यधत्त भवते मुदा सदसि विश्र्वभूतात्मने
तदा ससुरमानुषं भुवनमेव तृप्तिं दधौ ॥७॥
ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो
सभाजयति को जडः पशुपदुर्दुरूढं वटुम् ।
इति त्वयि स दुर्वचोविततिमुद्वमन्नासना -
दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥८॥
निवार्य निजपक्षगानभिमुखस्य विद्वेषिण -
स्त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा ।
जनुस्त्रितयलब्धया सततचिन्तया शुद्धधी -
स्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥९॥
ततः सुमहिते त्वया क्रतुवरे निरूढे जनो
ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् ।
खलः स तु सुयोधनो धुतमनाः सपन्तश्रिया
मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥१०॥
तदा हसितमुतत्थितं द्रुपदनन्दनाभीमयो -
रपाङ्गकलया विभो किमपि तावदुज्जृम्भयन् ।
धराभरनिराकृतौ सपदि नाम बीजं वपन्
जनार्दन मरुत्पुरीनिलय पाहि मामामयात् ॥११॥
॥ इति जरासंधवधवर्णनं राजसूयवर्णनं च पञ्चाशीतिमदशकं समाप्तम्॥