सैरन्ध्र्य़ास्तदनु चिरं स्मरातुराया
यातोऽभूः सललितमुद्धवेन सार्धम् ।
आवासं त्वदुपगमोत्सवं सदैव
ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥१॥
उपगते त्वयि पूर्णमनोरथं
प्रमदसम्भ्रमकम्प्रपयोधराम् ।
रहसि तां रमयाञ्चकृषे सुखम् ॥२॥
पृष्टा वरं पुनरसाववृणोद्वराकी
भूयस्त्वया सुरतमेव निशान्तरेषु ।
सायुज्यमस्तित्वति वदेद् बुध एव कामं
सामीप्यमस्त्वनिशमित्यपि नाब्रवीत् किम् ॥३॥
ततो भवान् देव निशासु कासुचि -
न्मृगीदृशं तां निभृतं विनोदयन् ।
अदादुपश्लोक इति श्रुतं सुतं
स नारदात् सात्वतन्त्रविद्वभौ ॥४॥
अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या -
मभ्यर्चितो बहु नुतो मुदितेन तेन ।
एनं विसृज्य विपिनागतपाण्डवेय -
वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् ॥५॥
विघाताज्जामातुः परमसुहृदो भोजनृपते -
र्जरासंधे रुन्धत्यवधिरुषान्धेऽथ मथुराम् ।
रथाद्यैर्द्योर्लब्धैः कतिपयबलस्त्वं बलयुत -
स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥६॥
बद्धं बलादथ बलेन बलोत्तरं त्वं
भूयो बलोद्यमरसेन मुमोचिथैनम् ।
निश्शेषदिग्जयसमाहृतविश्र्वसैन्यात्
कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥७॥
भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो
युद्धे त्वया व्यधित षोडशकृत्व एवम् ।
सम्भूय सैकनवतित्रिशतं तदानीम् ॥८॥
अष्टादशेऽस्य समरे समुपेयुषि त्वं
दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या ।
त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये
तन्नाथ योगबलतः स्वजनाननैषीः ॥९॥
पद्भ्य़ां त्वं पद्ममाली चकित इव पुरान्निर्गतो धावमानो
म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः ।
सुप्तेनाङ्घ्र्य़ाहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन्
भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ॥१०॥
ऐक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी
हा देवेति स्तुवन्तं वरविततिषु तं निःस्पृहं वीक्ष्य हृष्यन् ।
मुक्तेस्तुल्यां च भक्तिं धुतसकलमलां मोक्षमप्याशु दत्तवा
कार्यं हिंसाविशुद्ध्य़ै तप इति च तदा प्रात्थ लोकप्रतीत्यै ॥११॥
तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां
मगधपतिना मार्गे सैन्यैः पुरेव निवारितः ।
चरमविजयं दर्पायास्मै प्रदाय पलायितो
जलधिनगरीं यातो वातालयेश्र्वर पाहि माम् ॥१२॥
॥इति उपश्लोकोत्पत्तिवर्णनं जरासंधादियुद्धवर्णनं मुचुकुन्दानुग्रहवर्णनं च सप्तसप्ततिमदशकं समाप्तम् ॥