त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् ।
ब्रह्मतत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहरन्वहं स्त्रियः ॥१॥
मन्मथोन्मथितमानसाः क्रमात्त्वाद्विलोकनरतास्ततस्ततः ।
गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे ॥२॥
निर्गते भवति दत्तदृष्टयस्त्वद्रतेन मनसा मृगेक्षणाः ।
वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥३॥
काननान्तमितवान् भवनपि स्निग्धपादपतले मनोरमे ।
व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥४॥
मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् ।
द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् ॥५॥
वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादल्लवम् ।
तस्त्थितं तव परोक्षमप्यहो संविचिन्त्य मुमुहर्व्रजाङ्गनाः ॥६॥
निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान् पशूनपि ।
त्वत्प्रदप्रणायि काननं च ताः धन्यधन्यमिति नन्वमानयन् ॥७॥
आपिबेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा ।
दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥८॥
प्रत्यहं च पुनरित्थमङ्गनाश्र्चित्तयोनिजनितादनुग्रहात् ।
बद्धरागविवशास्त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् ॥९॥
रागस्तावज्जायते हि स्वभावान् -
मोक्षोपायो यत्नतः स्यान्न वा स्यात् ।
तासां त्वेकं तद्द्वयं लब्धमासीद्
भाग्यं भाग्यं पाहि मां मारुतेश ॥१०॥
॥ इति वेणुगानवर्णनम् एकोनषष्टितमदशकं समाप्तम् ॥