त्वत्सेवोत्कः सौभरिर्नाम पूर्वं
कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् ।
मीनव्राते स्नेहवान् भोगलोले
तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥१॥
त्वद्वाहं तं सक्षुधं तृक्षसूनुं
मीनं कञ्चिज्जक्षतं लक्षयन् सः ।
तप्तश्र्चित्ते शप्तवानत्र चेत्त्वं
जन्तून् भोक्ता जीवितञ्चापि मोक्ता ॥२॥
तस्मिन् काले कालियः क्ष्वेलदर्पात्
सर्पारातेः कल्पितं भागमश्नन् ।
क्रोधात्त्वत्पदाम्भोजभाजा
पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥३॥
घोरे तस्मिन् सूरजानीरवासे
तीरे वृक्षा विक्षताः क्ष्वेलवेगात् ।
पक्षिव्राताः पेतुरभ्रे पतन्तः
कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥४॥
काले तस्मिन्नेकदा सीरपाणिं
मुक्त्वां याते यामुनं काननान्तम् ।
त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता
गोगोपाला व्यापिबन् क्ष्वेलतोयम् ॥५॥
नशयज्जीवान् विच्युतान् क्ष्मातले तान्
विश्र्वान् पश्यन्नच्युत त्वं दयार्द्रः ।
प्राप्योपान्तं जीवयामासिथ द्राक्
पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ॥६॥
किं कि जातो हर्षवर्षातिरेकः
सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः ।
दृष्ट्वाग्रे त्वां त्वत्कृतं तद्विदन्त -
स्त्वामालिङ्गन् दृष्टनानाप्रभावाः ॥७॥
गावश्र्चैव लब्धजीवाः क्षणेन
स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात्
द्रागावव्रुः सर्वतो हर्षबाष्पं
व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥८॥
रोमाञ्चौऽयं सर्वतो नः शरीरे
भूयस्यन्तः काचिदान्दमूर्च्छा ।
आश्र्चर्योऽयं क्ष्वेलवेगो मुकुन्दे -
त्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ॥९॥
एवं भक्तान् मुक्तजीवानपि त्वं
मुग्धापाङ्गैरस्तरोगांस्तनोषि ।
तादृग्भूतस्फीतकारुण्यभूमा
रोगात्पाया वायुगेहाधिनाथ ॥१०॥
॥ इति कालियोपाख्याने गोगोपानामुज्जीवनवर्णनं चतुष्पञ्चशत्तमदशकं समाप्तम् ॥