रुचिरकम्पितकुण्डलमण्डलः सुचिरममीश ननर्तिथ पन्नगे ।
अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥१॥
नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् ।
परिमथन् पदपङ्करुहा चिरं व्यहरथाः करतालमनोहरम् ॥२॥
त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि ।
फणिपताववसीदति सन्नातास्तदबलास्तव माधव पादयोः ॥३॥
अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः ।
मुनिभिरप्यनवाप्यपथैः स्तवैर्नुवुरीश भवन्तमयिन्त्रितम् ॥४॥
फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा ।
फणिपतिर्भवताच्युत जीवितस्त्वयि यमर्पिमूर्तिरवानमत् ॥५॥
रमणकं व्रज वारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् ।
इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगैः समम् ॥६॥
फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः ।
तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥७॥
निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे ।
स्वपिति तत्र भवच्चरणाश्रये दवकृशानुररुन्धे समन्ततः ॥८॥
प्रबुधितानथ पालय पालयेत्सुदयदार्तरवान् पशुपालकान् ।
अवितुमाशु पपाथ महानलं किमहि चित्रमयं खलु ते मुखम् ॥९॥
शिखिनि वर्णत एव हि पीतता परिलसत्यधुना क्रिययाप्यसौ ।
इति नुतः पशुपैर्मुदितैर्विभो हर हरे दुरितेः सह मे गदान् ॥१०॥
॥इति कालियोपाख्याने कालियमर्दने भगवदनुग्रहवर्णनं षट्ञ्चाशत्तमदशकं समाप्तम् ॥